अध्यायः 359

वैशंपायनेन जनमेजयंप्रति श्रीव्यासस्य श्रीनारायणादपांतरतम इति प्रादुर्भावादिकथनम् ॥ 1 ॥

जनमेजय उवाच ।
साख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च ।
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥
किमेतान्येकनिष्ठानिं पृथङ्निष्ठानि वा मुने ।
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥
`कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् । वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥'
वैशंपायन उवाच ।
जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् ।
पराशरात्सत्यवती महर्षि तस्मै नमोऽज्ञानतमोनुदाय ॥
पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् ।
नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् ॥
तमादिकालेषु महाविभूति र्नारायणो ब्रह्म महानिधानम् ।
ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजं पुराणम् ॥
जनमेजाय उवाच ।
त्वयैव कथितः पूर्वं संभवो द्विजसत्तम ।
वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः ॥
पराशरस्य दायादः कृष्णद्वैपायनो मुनिः ।
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥
किमतः पूर्वकं जन्म व्यासस्यामिततेजसः ।
कथयस्वोत्तममते जन्म नारायणोद्भवम् ॥
वैशंपायन उवाच ।
वेदार्थवेत्तुव्यासस्य धर्मिष्ठस्य तपोनिधेः ।
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥
कृत्वा भारतमाख्यानं तपः श्रान्तस्य धीमतः ।
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥
एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः ।
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥
वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः ।
तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥
कथान्तरेऽथकस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः ।
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥
स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् ।
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥
शृणुध्वमाख्यानवरमिदमार्षेयमुत्तमम् ।
आदिकालोद्भवं विप्रास्तपसाऽधिगतं मया ॥
प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे ।
नारायणो महायोगी शभाशुभविवर्जितः ॥
ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः ।
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥
मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः ।
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥
स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः ।
प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥
का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोस्तु ते ।
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥
स एवमुक्तो भगवान्भूत्वाऽथान्तर्हितस्ततः । चिन्तयामास देवेशो बुद्धिं बुद्धिमतांवरः ।
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् ॥
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ।
स तामैश्वर्ययोगस्थां बुद्धिं गतिमतीं सतीम् ॥
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः । ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये ।
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥
अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः ।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः ॥
बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥
प्राप चैनं मुहूर्तेन स्वं स्थानं देवसंज्ञितम् ।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ॥
अथास्य बुद्धिरभवत्पुनरन्या तदा किल ।
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना ॥
दैत्यदानवगन्धर्वरक्षोगणसमाकुला ।
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥
बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः ।
भविष्यन्ति तपोयुक्ता वरानप्राप्स्यन्ति चोत्तमान् ॥
अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः ।
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ॥
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् ॥
निग्रहेण च पापानां साधूनां प्रग्रहेण च ।
इदं तपस्विनी सत्या धारयिष्यति मेदिनी ॥
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ।
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥
एवं स चिन्तयित्वा तु भगवान्मघधुसूदनः ।
रुपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥
वाराहं नारसिहं च वामनं मानुषं तथा ।
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः ॥
अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् ।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥
अपान्तरतमा नाम सुतो वाक्संभवः प्रभोः ।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥
तमुवाच नतं मूर्ध्ना देवानामादिवरव्ययः ।
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर ॥
तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने ।
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेन्तरे ॥
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ।
तपसा च सुतप्तेन यमेन नियमेन च ॥
मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः ।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥
पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः ।
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥
तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति ।
परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥
तत्राप्यनेकधा वेदान्भेत्स्यसे तपसाऽन्वितः ।
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥
धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा ।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥
वीतरागश्च पुत्रस्ते परमात्मा भविष्यति ।
महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥
यं मानसं वै प्रवदन्ति विप्राः पितामहस्योत्तमबुद्धियुक्तम् ।
वसिष्ठमग्र्यं च तपोनिधानं यस्यातिसूर्यं व्यरिरिच्यते भाः ॥
तस्यान्वपे चापि ततो महर्षिः पराशरो नाम महाप्रभावः ।
पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः ॥
कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः ॥
भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम् ।
ये ह्यतिक्रान्तकाः पूर्वं सहस्रसुगपर्ययाः ॥
तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसाऽन्वितः ।
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥
अनादिनिधनं लोके चक्रहस्तं च मां मुने । अनुध्यानान्मम मुने नैतद्वचनमन्यथा ।
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव ॥
* शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् । तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः ।
त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥
[यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् । अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् ॥]
एवं सारस्वतमृषिमपांतरतमं तथा ।
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥
सोहं तस्य प्रसादेन देवस्य हरिमेधसः ।
अपांतरतमो नाम्ना ततो जातोऽऽज्ञया हरेः ॥
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥
तदेतत्कथितं जन्म मया पूर्वकमात्ममः ।
नारायणप्रसादेन तदा नारायणांशजम् ॥
मया हि सुमहत्तप्तं तपः परमदारुणम् ।
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥
एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः ।
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥
वैशंपायन उवाच ।
एष ते कथितः पूर्वः संभवोऽस्मद्गुरोर्नृप ।
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥
साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥
साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥
अपांतपतमाश्चैव वेदाचार्यः स उच्यते ।
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥
उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः ।
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥
पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम् ।
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥
यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनमेवं जानन्ति तमोभूता विशांपते ॥
तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः ।
निष्ठां नारायणमृषिं नान्योस्तीति च वादिनः ॥
निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥
पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥
साङ्ख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् ।
सर्वैः समस्तैर्ऋषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥
शुभाशुभं कर्म समीरितं य त्प्रवर्तते सर्वलोकेषु किंचित् ।
तस्मादृपेस्तद्भवतीति विद्या द्दिव्यन्तरिक्षे भुवि चाप्सु चेति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 359 ॥

12-359-1 सांख्यं योगः पञ्चरात्रं वेदाः पाशुपतं तथा इति थ. पाठः । सांख्यं योगः पाशुपतं वेदारण्यकमेवचेति ध. पाठः ॥ 12-359-5 पितामहस्याद्यो नारायणस्तमारभ्य यं षष्ठं वदन्तीति योज्यम् । नारायणस्याङ्गजमिति ध. पाठः ॥ 12-359-9 पूर्वजं जन्मेति ट. पाठः ॥ 12-359-19 नाभिजं पत्रमिति ध. पाठः ॥ 12-359-34 द्वयं तरस्विनी सत्येति ध. पाठः । इयं सरस्वती सत्येति ट. पाठः ॥ 12-359-55 शनैश्वरभ्राता । सप्तर्षिगुणपूर्वक इति थ. पाठः ॥