अध्यायः 360

वैशंपायनेन जनमेजयंप्रति ब्रह्मरुद्रसंवादानुवादः ॥ 1 ॥

जनमेजय उवाच ।
बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥
वैशंपायन उवाच ।
बहवः पुरुषा लोके साङ्ग्ययोगविचारणे ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥
बहनां पुरुषाणां च यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥
नमस्कृत्वा च गुरवे व्यासाय विदितात्मने ।
तपोयुक्ताय दान्ताय वन्द्याय परमपये ॥
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम् ॥
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः ।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥
समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् ।
तत्तेऽहं संप्रवक्ष्यामि प्रसादादमितौजसः ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशांपते ॥
क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः ।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥
तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् ।
वैराजसदनान्नित्यं वैजयन्तं निपेवते ॥
अथ तत्राऽऽसतस्तस्य चतुर्वक्रस्य धीमतः । ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया ।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥
ततः खान्निपपाताशु धरणीधरमूर्धनि ।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥
तं पादयोनिंपतितं दृष्ट्वा सव्येन पाणिना । अत्थापयामास तदा प्रभुरेकः प्रजापतिः ।
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ॥
पितामह उवाच ।
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम् । कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा ।
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥
रुद्र उवाच ।
त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥
चिरदृष्टोमि भगवन्वैराजसदने मया ।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥
कौतूहलं चापि हि मे एकान्तगमनेन ते ।
नैतत्कारणमल्पं हि भविष्यति पितामह ॥
किंनु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् ।
सुरासुरैरध्युपितमृषिभिश्चामितप्रभैः ॥
गन्धर्वैरेप्सरोभिश्च सततं संनिषेवितम् ।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥
ब्रह्मोवाच ।
वैजयन्तो गिरिवरः सततं सेव्यते मया ।
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥
रुद्र उवाच ।
बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयंभुव ।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥
को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः ।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥
ब्रह्मोवाच ।
बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः ।
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥
आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ।
बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥
तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ।
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षष्ट्यधिकत्रिशततमोऽध्यायः ॥ 360 ॥

12-360-2 साङ्ख्ययोगविचारणा इति ट. पाठः ॥ 12-360-21 स च कः पुरुषो विराडिति ट. ध. पाठः ॥