अध्यायः 363

महापद्मपुरवासिना विप्रेणातिथिप्रति सत्कारपूर्वकं पश्नारम्भः ॥ 1 ॥

भीष्म उवाच ।
आसीत्किल नरश्रेष्ठ महापद्मे पुरोत्तमे ।
गङ्गाया दक्षिणे तीरे कश्चिद्विप्रः समाहितः ॥
सौम्यः सोमान्वये जातो जितात्मा गोत्रतो भृगुः ।
धर्मनित्यो जितक्रोधो नित्यतप्तो जितेन्द्रियः ॥
तपःस्वाध्यायनिरतः सत्यः सज्जनसंमतः ।
न्यायप्राप्तेन वित्तेन स्वेन शीलेन चान्वितः ॥
ज्ञाति संबन्धिविपुले पुत्रपौत्रप्रतिष्ठिते ।
कुले महति विख्याते विशिष्टां वृत्तिमास्थितः ॥
स पुत्रान्बहुलाँल्लब्ध्वा विपुले कर्मणि स्थितः ।
कुलधर्माश्रितो राजन्धरर्मचर्यास्थितोऽभवत् ॥
ततः स धर्मं वेदोक्तं तथा शास्त्राक्तमेव च ।
शिष्टाचीर्णं च धर्मं च त्रिविधं चिन्त्य चेतसा ॥
किंनु मे स्याच्छुभं कृत्वा किं कृतं किं परायणम् ।
इत्येवं चिन्तयन्नित्यं न च याति विनिश्चयम् ॥
तस्यैवं चिन्त्यमानस्य धर्मं परममास्थितः ।
कदाचिदतिथिः प्राप्तो ब्राह्मणः सुसमाहितः ॥
स तस्मै सत्क्रियां चक्रे क्रियायुक्तेन हेतुना ।
विश्रान्तं सुसमासीनमिदं वचनमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 363 ॥

12-363-2 सोमान्वये अत्रिगोत्रे ॥