अध्यायः 366
ब्राह्मणेन धर्मावगतये नागगृहंप्रति गमनम् ॥ 1 ॥
ब्राह्मण उवाच ।
अतिभारोद्यतस्यैव भारावतरणं महत् ।
पराश्वासकरं वाक्यमिदं मे भवतः श्रुतम् ॥
अध्यक्लान्तस्य शयनं स्थानक्लान्तस्य चासनम् ।
तृषितस्येव पानीयं क्षुधार्तस्येव भोजनम् ॥
ईप्सितस्येव संप्राप्तिरर्थस्य समयेऽतिथे ।
एपितस्यात्मनः काले बृद्धस्यैव सुता यथा ॥
मनसा चिन्तितस्येव प्रीतिस्निग्धस्य दर्शनम् ।
प्रह्लादयति मां वाक्यं भवता यदुदीरितम् ॥
मनश्चक्षुरिवाकाशे पश्यामि विमृशामि च ।
प्रज्ञानवचनाद्योयमुपदेशो हि मे कृतः ॥
वाढमेवं करिष्यामि यथा मे भाषते भवान् ।
इमां हि रजनीं साधो निवसस्व मया सह ॥
प्रभाते यास्यति चवान्पर्याश्वस्तः सुखोपितः ।
असौ हि भगवान्सूर्यो मन्दरश्मिरवाङ्भुखः ॥
भीष्म उवाच ।
ततस्तेन कृतातिथ्यः सोऽनिथिः शत्रुसूदन ।
उवास किल तां रात्रिं सह तेन द्विजेन वै ॥
तत्वं च धर्मसंयुक्तं तयोः कथयतोस्तदा ।
व्यतीता सा निशा कृत्स्ना सुखेन दिवसोपमा ॥
ततः प्रभातसमये सोऽतिथिस्तेन पूजितः ।
ब्राह्मणेन यथाशक्त्या स्वकार्यमभिकाङ्क्षता ॥
ततः स विप्रः कृतकर्मनिश्चयः
कृताभ्यनुज्ञः स्वजनेन धर्मकृत् ।
यथोपदिष्टं भुजगेन्द्रसंश्रयं
जगाम काले सुकृतैकनिश्चयः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट््ष्ट्यधिकत्रिशततमोऽध्यायः ॥ 366 ॥
12-366-9 चतुर्थधर्मसंयुक्तमिति झ. पाठः । तत्र च र्थधर्मो मोक्षधर्मस्तेन संयुक्तामित्यर्थः ॥ 12-366-11 संश्रयं गृहम् ॥