अध्यायः 368

पुलिनवासिना ब्राह्मणेन स्वस्य फलाद्याहारं प्रार्थयतां नागीयानामवधिनिर्देशपूर्वकं प्रतिनिवर्तनम् ॥ 1 ॥

भीष्म उवाच ।
अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना ।
निराहारेण वसता दुःखितास्ते भुजङ्गमाः ॥
सर्वे संभूय सहिता ह्यस्य नावस्य बान्धवाः ।
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥
तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् ।
समासीनं निराहारं द्विजं जप्यपरायणम् ॥
ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् ।
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ॥
षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन ।
न चाभिभाषसे किंचिदाहारं धर्मवत्सल ॥
आमानभिगतश्चासि वयं च त्वामुपस्थिताः ।
कार्यं चातिथ्यमस्माभिरीप्सितं तव ऋद्धिमत् ॥
मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम ।
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥
त्यक्ताहारेण भवता वने निवसता त्वया ।
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकरात् ॥
न हि नो भ्रूणहा कश्चित्पन्नगेष्विह विद्यते ।
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥
ब्राह्मण उवाच ।
उपदेशेन युष्माकमाहारोऽयं कृतो मया ।
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥
यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः ।
तदाहारं करिष्यामि तन्निमित्तमिद व्रतम् ॥
कर्तव्यो न च संतापो गम्यतां च यथागतम् ।
तन्निमित्तमिदं सर्वं नैतद्भेत्तुगिहार्हथ ॥
ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः ।
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 368 ॥

12-368-3 विपिने नियतव्रतमिति ट. पाठः ॥ 12-368-4 समभिक्रम्य उपेत्य ॥ 12-368-6 अस्माभिर्वयं सर्वे कुटुम्बिन इति झ. पाठः ॥ 12-368-9 कश्चिज्जातापद्यनृतोपि वेति झ. पाठः ॥ 12-368-12 भवद्भिरनुशिष्ठोस्मि गम्यतां चेति झ. पाठः ॥