अध्यायः 372

आश्चर्थकथनं प्रार्थितेन नागेन सूर्यमण्डले तत्तुल्यतेजोन्तरप्रवेशदर्शनकथनम् ॥ 1 ॥

ब्राह्मण उवाच ।
विवस्वतो गच्छति पर्ययेण वोडुं भवांस्तं यथमेकचक्रम् ।
आश्चर्यभूतं यदि तत्र किंचि द्दृष्टं त्वयाशंसितुमर्हसि त्वम् ॥
नाग उवाच ।
आश्चर्याणामनेकानां प्रतिष्ठा भगवान्रविः ।
यतो भूताः प्रवर्तन्ते सर्वे त्रैलोक्यसंमताः ॥
यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः ।
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥
यतो पायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् ।
विजृम्भत्यम्बरे तत्र किमाश्चर्यमतः परम् ॥
विभज्यं तं तु विप्रर्षे प्रजानां हितकाम्यया ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥
यस्य मण्डलमध्यस्थो महात्मा परमत्विषा । 12-372-6 दीप्तः समीक्षतेऽलोकान्किमाश्चर्यमतः परम् ॥
शुक्रो नामासितः पादो यश्च वारिधरोऽम्बरे ।
तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥
योऽष्टमासांस्तु शुचिना किरणेनोक्षितं पयः ।
प्रत्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥
यस्य तेजोविशेषेषु स्वयमात्मा प्रतिष्ठितः ।
यतो बीजं मही चेयं धार्यते सचराचरम् ॥
यत्र देवो महाबाहुः शाश्वतः पुरुषोत्तमः ।
अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु ।
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥
पुरा मध्याह्नसमये लोकांस्तपति भास्करे ।
प्रत्यादित्यप्रतीकाशः सर्वतः समदृश्यत ॥
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् ।
आदित्याधिमुखोऽभ्येति गगनं पाटयन्निव ॥
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः ।
अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥
तस्याभिगमनप्राप्तौ हस्तौ दत्तौ विवस्वता ।
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चितार्थिना ॥
ततो भित्त्वैव गगन प्रविष्टो रश्मिमण्डलम् ।
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥
तत्र नः संशयो जातस्तयोस्तेजः समागमे ।
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥
ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् ।
क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 372 ॥

12-372-4 विसृजत्यम्बरे तोयमिति ट. पाठः ॥ 12-372-5 तं वातं पुरोवातादिरूपेण विभज्य परिणामं नीत्वा ॥ 12-372-6 महात्मान्तर्यामी ॥ 12-372-7 पादइव पादोऽवयवः नीलमेघरूपेणाप्ययमेव वर्षतीत्यर्थः ॥ 12-372-9 यतः सूर्यात् । बीजं औषधम् ॥ 12-372-12 प्रत्यादिप्रतीकाशः आदित्यान्तरतुल्यतेजस्कः । समदृश्यत दृष्टः ॥ 12-372-15 दत्तः प्रत्यर्चिनार्चिनेति ट. पाठः ॥ 12-372-16 भित्त्वैव रविमण्डलमिति ट. पाठः ॥