अध्यायः 374

ब्राह्मणेन नागामन्त्रणपूर्वकमिष्टदेशंप्रति प्रस्थानम् ॥ 1 ॥

ब्राह्मण उवाच ।
आश्चर्यं नात्र संदेहः सुप्रीतोस्मि भुजङ्गम ।
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥
स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम ।
स्मरणीयोस्मि भवता संप्रेषणनियोजनैः ॥
नाग उवाच ।
अनुक्त्वा हृद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् ।
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥
उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ ।
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि सुव्रत ॥
न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह ।
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥
त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः ।
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥
ब्राह्मण उवाच ।
एवमेतन्महाप्राज्ञ विदितात्मन्भुजङ्गम ।
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥
स एव त्वं स एवाहं योऽहं स तु भवानपि ।
अहं भवांश्च भूतानि सर्वे यत्र गताः सदा ॥
आसीत्तु मे भोगिपते संशयः पुण्यरसंचये ।
सोहमुञ्छव्रतं साधो चरिष्याम्यर्थसाधनम् ॥
एष मे निश्चयः साधो कृतं कारणमुत्तमम् ।
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजङ्गम ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 374 ॥

12-374-4 उक्तानुक्ते पृष्टे अपृष्टेपि मयैव वात्सल्यात्कृते सति ॥ 12-374-6 अहं त्वयि भक्तिमानिति शेषः ॥ 12-374-8 यत्र चाहं स एव त्वमेवमाह भुजङ्गमेति ट. पाठः ॥