अध्यायः 375

भीष्मेण युधिष्ठिरंप्रत्युञ्छवृत्त्युपाख्यानोपदेशपरम्पराक्रमकथनपूर्वकमुञ्छवृत्तिब्राह्मणस्य वनप्रवेशकथनम् ॥ 1 ॥

भीष्म उवाच ।
स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः ।
दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ॥
स तेन कृतसत्कारो धर्ममेवाधितस्थिवान् ।
तथैव च कथामेतां राजन्कथितवांस्तदा ॥
भार्गवेणापि राजेन्द्र जनकस्य निवेशने ।
कथैषा कथिता पुण्या नारदाय महात्मने ॥
नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने ।
कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ॥
देवराजेन च पुरा कथितैषा कथा शुभा ।
समस्तेभ्यः प्रशस्तेभ्यो विप्रेभ्यो वसुधाधिप ॥
यदा च मम रामेण युद्धमासीत्सुदारुणम् ।
वसुभिश्च तदा राजन्कथेयं कथिता मम ॥
पृच्छमानाय तत्त्वेन मया चैवोत्तमा तव ।
कथेयं कथिता पुण्या धर्म्या धर्मभृतांवर ॥
तदेव परमो धर्मो यन्मां पृच्छसि भारत ।
आसीद्धीरो ह्यनाकाङ्क्षी धर्मार्थकरणे नृप ॥
स च किल कृतनिश्चयो द्विजो भुजगपतिप्रतिदशितात्मकृत्यः ।
यमनियमसहो वनान्तरं परिगणितोञ्छशिलाशनः प्रविष्टः ॥ ॥

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां शान्तिपर्वणि मोक्षधर्मपर्वणि उञ्छवृत्त्युपाख्याने पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 375 ॥8

12-375-7 मयाप्यद्य तवानद्येति ट. पाठः ॥ 12-375-9 यमा अहिंसादयः नियमाः शौचादयः । वनान्तरं वनमध्यं प्रविष्टः । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् । परिगणितं परिमितमुञ्छशिलार्जितमन्नमश्नन् फणिपत्युक्तामुञ्छवृत्तेर्गतिं प्रापेति शेषः । शमनियमसमाहितो वनान्तमिति ट. पाठः ॥

  1. पञ्चसप्तत्यधिकत्रिशततमोऽध्यायः ॥ ३७५ ॥