अध्यायः 034
					 व्यासेन युधिष्ठिरंप्रति पापानां प्रायश्चित्तादिकथनम् ॥ 1 ॥ 
					
					
						तपसा कर्मणा चैव प्रदानेन च भारत ।
						पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥
					 
					
						एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् ।
						कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥
					 
					
						अनसूयुरधः शायी कर्म लोके प्रकाशयन् ।
						पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥
					 
					
						लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽऽत्मनः ।
						प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक््शिराः ॥
					 
					
						जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत् ।
						सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥
					 
					
						धनं वा जीवनायालं गृहं वा सपरिच्छदम् ।
						मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥
					 
					
						षङ्गिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः ।
						मासेमासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥
					 
					
						संवत्सरेण मासाशी पूयते नात्र संशयः ।
						तथैवोपवसन्राजन्स्वल्पेनापि प्रपूयते ॥
					 
					
						क्रतुना चाश्वमेधेन पूयते नात्र संशयः ।
							ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः ।
						
						ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः ॥
						
					 
					
						ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥
						
					 
					
						गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत् ।
						ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥
					 
					
						कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् ।
						दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥
					 
					
						गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये ।
						साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्विषात् ॥
					 
					
						शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति ।
						नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥
					 
					
						मनोरथं तु यो दद्यादेकस्मा अपि भारत ।
						न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥
					 
					
						सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत् ।
						स पावयत्यथात्मानमिह लोके परत्र च ॥
					 
					
						मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् ।
						महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥
					 
					
						बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
						समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः ॥
					 
					
						भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः ।
						पुनर्न च पिबेद्राजन्संस्कृतः स च शुध्यति ॥
					 
					
						गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत् ।
						अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः ॥
					 
					
						शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् ।
						कर्मभ्यो विप्रमुच्यन्ते यताः संवत्सरं स्त्रियः ॥
					 
					
						महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु ।
						गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥
					 
					
						अनृतेनोपवर्ती चेत्प्रतिरोद्धा गुरोस्तथा ।
						उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥
					 
					
						अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
						गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात् ॥
					 
					
						परदारोपसेवी तु परस्यापहरन्वसु ।
						संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥
					 
					
						धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु ।
						विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात् ॥
					 
					
						कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः ।
						परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च ॥
					 
					
						निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन् ।
						न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥
					 
					
						भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते ।
						स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः ॥
					 
					
						स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता ।
						रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥
					 
					
						पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा ।
						गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत् ॥
					 
					
						चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते ।
						पादोन इष्टो राजन्ये तथा धर्मो विधीयते ॥
					 
					
						तथा वैश्ये च शूद्रे च पादः पादो विधीयते ।
						विद्यादेवंविधनैषां गुरुलाघवनिश्चयम् ॥
					 
					
						तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून् ।
						त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः ॥
					 
					
						अगम्यागमने राजन्प्रायश्चित्तं विधीयते ।
						आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना ॥
					 
					
						एवमेव तु सर्वेषामकार्याणां विधिर्भवेत् ।
						ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥
					 
					
						सावित्रीमप्यधीयानः शुचौ देशे मिताशनः ।
						अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात् ॥
					 
					
						अहः सु सततं तिष्ठेदभ्याकाशं निशाः स्वपन् ।
						त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत् ॥
					 
					
						स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्ब्रतान्वितः ।
						पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥
					 
					
						शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम् ।
						अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम् ॥
					 
					
						तस्माद्दानेन तपसा कर्मणा च फलं शुभम् ।
						वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥
					 
					
						कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् ।
						दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥
					 
					
						अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् ।
						महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥
					 
					
						भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च ।
						अज्ञानज्ञानयो राजन्विहितान्यनुजानतः ॥
					 
					
						जानता तु कृतं पापं गुरु सर्वं भवत्युत ।
						अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥
					 
					
						शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् ।
						आस्तिके श्रद्दधाने च विधिरेष विधीयते ॥
					 
					
						नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन ।
						दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते ॥
					 
					
						शिष्टाचारश्च दिष्टश्च धर्मो धर्मभूतां वर ।
						सेवितव्यो नरव्याघ्र प्रेत्येह च हितेप्सुना ॥
					 
					
						स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना ।
						त्राणार्थं वा वधे तेषामथवा नृपकर्मणा ॥
					 
					
						अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि ।
						मा चैवानार्यजुष्टेन मृत्युना निधनं गमः ॥
						वैशंपायन उवाच । 
					 
					
						एवमुक्तो भगवता धर्मराजो युधिष्ठिरः ।
						चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥ 
					 12-34-1 तपसा कच्छ्रचान्द्रायणादिना । कर्मणा यज्ञादिना
						पुनारिशोधयति ॥ 12-34-3 कर्म ब्रह्महत्याम् ॥ 12-34-5 अवाकूशिराः यं कंचिद्वेदं
						जपन् योजनानां शतं त्रिर्व्रजेत् शतत्रययोजनं पदचारेण तीर्थयात्रायां वेदं
						जपन्मुच्यत इत्यर्थः ॥ 12-34-7 कच्छ्रभोजी कृच्छ्ररीत्या भुञ्जानः ॥ 12-34-17
						मरुप्रपातं निर्जलदेशे पर्वताग्रात्पतनम् । महाप्रस्थानं केदारे हिमवदाहोरणम् ॥ 12-34-18 निष्पापः सन् ब्राह्मणसभामारोढुं योग्यो भवतीत्यर्थः ॥ 12-34-19
						उदपानं शिवं कुर्यात्सुरामिति ड. थ. पाठः ॥ 12-34-21 यताः त्यक्ताहारविहाराः ॥ 12-34-22 महाव्रतं मासमात्रं जलस्यापि त्यागः ॥ 12-34-24 खरचर्मवासाः
						षण्मासानिति ड.थ.पाठः ॥ 12-34-28 तेन कनिष्ठेन निवेश्यं विवाहान्तरं
						कर्तव्यम् ॥ 12-34-29 अन्तराभोजनं धारणापारणव्रतेन मासचतुष्ट्यकृतेन शुध्यन्ति
						महापापयोगे । भाजनं त्वृतुनाशुद्धं चातुर्मास्यं विधीयते इति थ. पाठः । भाजनं
						पूतिना शुद्धमिति ड. पाठः ॥ 12-34-31 शूद्रस्य उच्छिष्टं कांस्यं पात्रम् ।
						दशभिः शोधनैः शुद्ध्यति । तानि च पञ्चगव्येन मृत्तोयैर्भस्मनाम्लेन वह्निनेति ॥ 12-34-33 विधीयते पादः पादोऽपकृष्ट इत्यर्थः । वैश्यस्य द्विपादः । शूद्रस्य
						पादमात्रः । धर्मः शौचादिः ॥ 12-34-36 दृष्टान्तभूतो य
						आगमस्तत्रोक्तैर्हेतुभिर्यावदेन इत्याद्यैः ॥ 12-34-38
						तिष्ठेदित्युपवेशनादेर्व्यावृत्तिः । अभ्याकाशं निरावरणे स्थण़्डिलादौ । अनुरूपं
						हि पापस्य अभ्याकाशमिति ट. पाठः ॥ 12-34-40 यत्र पुण्ये पापे वातिरिच्येत्
						योऽधिको भवति स इतरेणेतरदभिभूयातिरिक्तस्य फलं भुङ्क्त इत्यर्थः । अतिरिच्येत यो
						यत्र इति झ. पाठः ॥