अध्यायः 035

व्यासेन युधिष्ठिरंप्रति भक्ष्याभक्ष्यपात्रापात्रविवेचनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते ।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥
व्यास उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥
ऋषयस्तु व्रतपराः समागम्य पुरा विभुम् ।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥
कथमन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः ।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते ॥
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् ।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥
अनादेशे जपो होम उपवासस्तथैव च ।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः ॥
अनादिष्टं तथैतानि पुण्यानि धरणीभृतः ।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च ॥
देवस्थानाभिगमनमाज्यप्राशनमेव च ।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः ॥
न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः ।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत् ॥
अदत्तस्यानुपादानं दानमध्ययनं तपः ।
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम् ॥
स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः ।
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः ॥
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् ।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् । अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ॥
दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा ।
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ॥
ऊर्ध्वं भवति संदेहादिहादिष्टार्थमेव च ।
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः । शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये ।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥
उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः ।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः ॥
क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः ।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत् ॥
जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान् ।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते ॥
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः ।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥
अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः ।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः ।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥
भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः ।
काको मद्रुश्च गृध्रश्च श्येनोलूकस्तथैव च ॥
क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये ।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥
एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि ।
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः ॥
प्रेतान्नं सूतकान्नं च यच्च किंचिदनिर्दशम् ।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम् ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः ॥
विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम् ।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः ॥
दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च ।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ॥
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा ॥
परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा ।
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत् ॥
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् । पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा ।
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः ॥
पायसं कृसरं मांसमपूपाश्च वृथा कृताः ।
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥
यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत् ।
एवंवृत्तः प्रियैर्दारैः संबसन्धर्ममाप्नुयात् ॥
न दद्याद्यशसे दानं न भयान्नोपकारिणे ।
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः ॥
न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके ।
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥
न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः ।
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते ॥
असम्यच्कैव यद्दत्तमसम्यक् च प्रतिग्रहः ।
उभयं स्यादनर्थाय दातुरादातुरेव च ॥
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् ।
मञ्जेत मञ्जतस्तद्वद्दाता यश्च प्रतिग्रही ॥
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते ।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥
कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः ।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥
निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः ।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च ॥
न वै देयमनुक्रोशाद्दीनायापगुणाय तु ।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः ॥
निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते ।
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः ।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥
देवतानां पितॄणां च हव्यकव्यविनाशकः ।
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥
एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर ।
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

12-35-3 प्रजापतिं मनुम् ॥ 12-35-4 कथं पात्रं दानमध्ययनं तप इति झ. पाठः । तत्र कथं केन प्रकारेण । अन्नमदनीयं किंद्रव्यक कर्तव्यमित्यर्थः ॥ 12-35-5 व्यारो विस्तरः ॥ 12-35-6 अनादेशे विशेषतोऽनुक्ते दोषे । यत्र देशे तत्पराः जपादिपराः प्रायः बहुशः सन्ति सोऽपि गङ्गादिवत्पावन इत्यर्थः ॥ 12-35-7 तथा जपादिवत् । पुण्यान्येतानि वक्ष्यमाणानि । धरणीभृतः पर्वता ब्रह्मगिरिप्रभृतयः । आदिपदात्सुवर्णस्नानादि । अनादिष्टं प्रायश्चित्तं सामान्यमित्यर्थः ॥ 12-35-9 गर्वेण युक्तो न भवेत् पूजां नावगणयेत् । अवगणने तु त्रिरात्रमुष्णपो भवेदिति तप्तकृच्छ्रं धर्मशास्त्रोक्तं कुर्यादित्यर्थः ॥ 12-35-10 तप उपवासादि ॥ 12-35-11 आदानं स्तेयम् । प्राणात्ययादावधर्मस्यापि स्तेयादेर्धर्मत्वमित्यर्थः ॥ 12-35-12 वैदिक्यौ प्रवृत्त्यप्रवृत्ती मर्त्यात्वामृतत्वप्रदे । लौकिक्यौ तु ते शुभे चेच्छुभफले अशुभे चेदशुभफले इत्याह द्वाभ्यां द्विविधाविति ॥ 12-35-13 एतयोर्लौकिक्योः । फले अपि कारणानुरूपे इत्यर्थः ॥ 12-35-14 दैवयुक्तं शास्त्रीयं कर्म । प्राणो जीवनम् । एतेषां चतुर्णामप्रेक्षापूर्वं यत्किंचिक्रियते तर्ह्यशुभानो नीचानामपि पुंसां तस्य फलं शुभं भवति ॥ 12-35-15 सत्यपि संदेहे यल्लोकविगानपरिहारार्थं कृतं नित्यादि यच्च केवलं दृष्टार्थं कृतं श्येनादि तत्रोभयत्रापि ॥ 12-35-16 क्रोधादिना यन्मनसः प्रियमप्रियं कृतं तत्र दृष्टान्तागमहेतुभिः पूर्वोक्तैर्यावदेन इत्याद्यैः प्रमाणैर्देहस्य शोषणमुपवासादिकं प्रायश्चित्तं कर्तव्यम् । औषधैर्हविष्याशनैः । मन्त्रैश्च पवित्रजपैः । चादन्यदपि । तीर्थाटनश्रमादिभिस्तत्पापं शाम्यतीति सार्धम् ॥ 12-35-18 क्षयं पुत्रादिमरणनिमित्तमात्मवधार्थं प्रवृत्तो न म्रियेत चेत् त्रिरात्रमुपवासं चरेत् ॥ 12-35-19 जातिर्ब्राह्मणत्वादिः । श्रेणी गृहस्थादीनां पङ्क्तिः । अधिवासो जन्भभूमिः । जात्यादिधर्मांश्च ये वर्जयन्ति तेषां धर्मः प्रायश्चित्तादि स्वरूपो न विद्यते ॥ 12-35-20 पाठकाः शोधकाः । कार्ये प्रायश्चित्तनिमित्ते दोषे ॥ 12-35-25 एडका मेषी ॥ 12-35-26 अभोज्यं पायसाद्यन्तर्गतम् ॥ 12-35-27 अवीरायाः पतिपुत्रहीनायाः ॥ 12-35-28 इन्द्रियं शुक्रम् । गणिकादित्रयाणामन्नम् ॥ 12-35-29 दीक्षितस्य अग्नीषोमीयवपाहोमात्प्राङ् न भोक्तव्यम् । कदर्यो धनव्ययभयाद्भोगत्यागहीनः ॥ 12-35-30 रक्षिणो ग्रामपालकस्य सीमादिरक्षिणो वा ॥ 12-35-31 वाद्यमानाहृतं चान्नमिति ट.ड.थ. पाठः ॥ 12-35-32 शेषितं कुटुम्बायाऽदत्त्वात्मार्थं रक्षितम् । धाना भृष्टयवाः । करम्भा दधिसक्तवः ॥ 12-35-33 कृसरं तिलमिश्र ओदनः । वृथाकृताः देवताद्युद्देशं विना कृताः ॥ 12-35-36 हासकेषु परिहासपरेषु भाण्डेषु ॥ 12-35-37 वाग्धीने मूके मूर्खे वा ॥ 12-35-42 श्वदृतौ शुनकचर्ममये कोशे ॥ 12-35-43 अनुक्रोशाद्दयया ॥ 12-35-44 आप्तचरित इष्टकारीति बुद्ध्या धर्मबुद्ध्या वा निर्मन्त्रे न देयमित्याह नवा इति ॥ 12-35-45 निष्कारणं निष्फलम् ॥ 12-35-48 निराकृतौ मूर्खे ॥