अध्यायः 039

कृष्णादिभिर्युधिष्ठिरस्य राज्येऽभिषेचनम् ॥ 1 ॥

वैशंपायन उवाच ।
ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः ।
काञ्चने प्राड्भुखो हृष्टो न्यषीदत्परमासने ॥
तमेवाभिमुखौ पीठे प्रदीप्ते काञ्चने शुभे ।
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ ॥
मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ ।
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः ॥
दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते ।
पृथाऽपि सहदेवेन सहास्ते नकुलेन च ॥
सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः ।
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् ॥
युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी ।
धृतराष्ट्रो यतो राजा ततः सर्वे समाविशन् ॥
तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् ।
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् ॥
ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् ।
ददृशुर्धर्मराजानमादाय बहुमङ्गलम् ॥
पृथिवीं च सुवर्णं च रत्नानि विविधानि च ।
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम् ॥
काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः ।
पूर्णकुम्भाः सुमनसो लाजा बर्हीषि गोरसाः ॥
शमीपिप्पलपालाशसमिधो मधुसर्पिषी ।
स्रुव औदुम्बरः शङ्खस्तथा हेमविभूषितः ॥
दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः ।
प्रागुदक्प्रवणे वेदीं लक्षणेनोपलिख्य च ॥
व्याघ्रचर्मोत्तरे शुक्ले सर्वतोभद्र आसने ।
दृढपादप्रतिष्ठाने हुताशनसमत्विपि ॥
उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् ।
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् ॥
तत उत्थाय दाशार्हः शङ्खमादाय पूरितम् । अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् ।
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा ॥
अनुज्ञातोऽथ कृष्णेन भ्रातृभिः सह पाण्डवः ।
पाञ्चजन्याभिषिक्तश्च राजाऽमृतमुखोऽभवत् ॥
ततोऽनुवादयामासुः पणवानकदुन्दुभीन् ॥
धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः ।
पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः ॥
ततो निष्कसहस्रेण ब्राह्मणान्स्वस्त्यवाचयन् ।
वेदाध्ययनसंपन्नान्धृतिशीलसमन्वितान् ॥
ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च ।
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् ॥
युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव ।
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते ॥
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः ।
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ॥
मुक्ता वीरक्षयात्तस्मात्संग्रामाद्विजितद्विषः ।
क्षिप्रमुत्तरकार्याणि कुरु सर्वाणि भारत ॥
ततः प्रीत्याऽर्चितः सद्भिर्धर्मराजो युधिष्ठिरः ।
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

12-39-1 गतमन्युर्वीतदैन्यः । गतज्वरो वीतशोकः ॥ 12-39-2 निषीदतुरिति निषेदतुरित्यर्थे आर्षम् ॥ 12-39-4 दान्ते गजदन्तमये ॥ 12-39-5 सुधर्मा दुर्योधनपुरोहितः ॥ 12-39-7 स्वस्तिकान्सर्वतोभद्राद्यङ्कितानि देवतापीठानि ॥ 12-39-9 भाण्डं उपकरणम् ॥ 12-39-10 औदुम्बरास्ताम्रमयाः ॥ 12-39-11 उदुम्बरकाष्टमयः स्रुवः ॥ 12-39-16 अमृतमुखः अत्यन्तं दर्शनीयः ॥