अध्यायः 045

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मनियोगात्कृष्णेन युधिष्ठिरम्प्रति महादेवमहिमकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
9
पितामह महेशाय नामान्याचक्ष्व शम्भवे ।
विदुषे विश्वमायाय महाभाग्यं च तत्वतः ॥
भीष्म उवाच ।
सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि ।
शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः ॥
नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना ।
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराऽभवत् ॥
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः ।
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥
ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये ।
महाभाग्यं विभोर्ब्रूहि मुण्डिनेऽथ कपर्दिने ॥
वासुदेव उवाच ।
न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः ।
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ॥
न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ।
स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः ॥
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् ।
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥
वैशम्पायन उवाच ।
एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः ।
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥
वासुदेव उवाच ।
शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर ।
त्वं चापगेय नामानि निशामय जगत्पतेः ॥
यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् ।
यथावद्भगवान्दृष्टो मया पूर्वं समाधिना ॥
शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता ।
अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् ।
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् ।
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन ।
लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥
त्वया द्वादशवर्षाणि व्रतीभूतेन शुष्यता ।
आराध्य पशुभर्तारं रुक्मिण्यां जनिताः सुताः ॥
चारुदेष्णः सुचारुश्च चारुवेशो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः सम्भुरेव च ॥
यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः ।
तथा ममापि तनयं प्रयच्छ मधुसूदन ॥
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् ।
अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥
सा च मामब्रवीद्गच्छ शिवाय विजयाय च । ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोऽनुगाः ।
क्षेत्रौषध्यो यज्ञवाहाश्छन्दास्यृषिगणाध्वराः ।
समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः ॥
देवपत्न्यो देवकन्या देवमातर एव च ।
मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः ॥
सावित्री ब्रह्मविद्या च ऋतवो वत्सरास्तथा ।
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ॥
रक्षन्तु सर्वत्र गतं त्वां यादव सुखाय च ।
अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥
एवं कृतस्वस्त्ययनस्तयाऽहं ततोऽभ्यनुज्ञाय नरेन्द्रपुत्रीम् ।
पितुः समीपं नरसत्तमस्य मातुश्च राज्ञश्च तथाऽऽहुकस्य ॥
गत्वा समावेद्य यदब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशर्ता ।
तानभ्यनुज्ञाय तदाऽतिदुःखा- द्गदं तथैवातिबलं च रामम् । अथोचतुः प्रीतियुतौ तदानीं ततःसमृद्धिर्भवतोऽस्त्वविघ्नम् ॥
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् ।
सोवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥
तत्राहमद्बुतान्भावानपश्यं गिरिसत्तमे ।
क्षेत्रं च तपसां श्रेष्ठं पश्याम्यद्भुतमुत्तमम् ॥
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः ।
पूजितं देवगन्धर्वैर्ब्राह्मया लक्ष्म्या समावृतम् ॥
धवककुभकदम्बनारिकेलैः कुरवककेतकजम्बुपाटलाभिः ।
वटवरुणकवत्सनाभविल्वैः सरलकपित्थप्रियालसालतालैः ॥
बदरीकुन्दपुन्नागरैशोकाम्रातिमुक्तकैः ।
मधूकैः कोविदारैश्च चम्पकैः पनसैस्तथा ॥
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् ।
पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥
नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् ।
यथास्थानविनिक्षिप्तैर्भूषितं भस्मराशिभिः ॥
रुरुवानरशार्दूलसिंहद्वीपिसमाकुलम् । कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ।
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥
सकृत्प्रभिन्नैश्च गजैर्विभूषितं प्रहृष्टनानाविधपक्षिसेवितम् ।
सुपुष्पितैरम्बुधरप्रकाशै- र्महीरुहाणां च वनैर्विचित्रैः ॥
नानापुष्परजोमिश्रो गजदानाधइवासितः । दिव्यस्त्रीगीतबहुलो मारुतोऽभिमुखो ववौ
धारानिनादैर्विहगप्राणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम् ।
गीतैस्तथा किन्नराणामुदारैः शुभैः स्वनैः सामगानां च वीर ॥
अचिन्त्यं मनसाऽप्यन्यैः सरोभिः समलङ्कृतम् ।
विशालैश्चाग्निशरणैर्भूषितं कुसुमावृतैः ॥
विभूषितं पुण्ययवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया ।
विभूषितं धर्मभृतां वरिष्ठै- र्महात्मभिर्वह्निसमानकल्पैः ॥
वाय्वाहारैरम्बुपैर्जप्यनित्यैः सम्प्रक्षालैर्योगिभिर्ध्याननित्यैः ।
धूमप्राशैरूष्मपैः क्षीरपैश्च संजुष्टं च ब्राह्मणेन्द्रैः समन्तात् ॥
गोचारिणोऽर्थाश्मकुट्टा दन्तोलूखलिकास्तथा ।
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥
अश्वत्थफलभक्षाश्च तथा ह्युदकशायिनः ।
चीचचर्माम्बरधरास्तथा वल्कलधारिणः ॥
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोधनान् ।
पश्यन्मुनीन्बहुविधानप्रवेष्टुमुपचक्रमे ॥
सूपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारतपुण्यकर्मभिः ।
रराज तच्चाश्रममण्डलं सदा दिवीव राजञ्शशिमण्डलं यथा ॥
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् ।
प्रभावाद्दीप्ततपसां सन्निकर्षान्महात्मनाम् ॥
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरम ।
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥
नानानियमविख्यातैर्ऋषिभि सुमहान्मभिः ।
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥
तेजसा तपसा चैव दीप्यमानं यथाऽनलम् ।
शिष्यैरनुगतं शान्तं युवानं ब्राह्मणर्वभम् ॥
शिरसा वन्दमानं मामुपमन्युरभाषत ॥
स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः ।
यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि ॥
`मनुष्यतानुवृत्त्या त्वा ज्ञात्वा तिष्ठाम सर्वगम् ।' तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु ।
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥
ततो मां भगवानाह साम्ना परमवल्गुना ।
लप्स्यसे तनयं कृष्णि आत्मतुल्यमसंशयम् ॥
तपः सुमहदास्थाय तोषयेशानमीश्वरम् ।
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥
इहैनं दैवतश्रेष्ठं देवाः सर्षिगणाः पुरा ।
तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥
तोषयित्वा शुभान्कामान्प्राप्तवन्तो जनार्दन ।
तेजसां सपसां चैव निधिः स भगवानिह ॥
शुभाशुभान्वितान्भावान्विसृजन्स क्षिपन्नपि ।
आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥
हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः ।
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥
तस्यैव पुत्रप्रवरो दमनो नाम विश्रुतः ।
महादेववराच्छक्रं वर्षार्बुदमयोधयम् ॥
विष्णोश्चक्रं च तद्धोरं वज्रमाखण्डलस्य च ।
शीर्णं पुराऽभवत्तात ग्रहस्याङ्गेषु केशव ॥
[यत्तद्भगवता पूर्वं दत्तं चक्रं तवानघ ।
जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् ॥
उत्पादितं वृषाङ्केन दीप्तज्वलनसन्निभम् ।
दत्तं भगवता तुभ्यं दुर्धषं तेजसाऽद्भुतम् ॥
न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम् ।
सुदर्शनं भवत्येवं भवेनोक्तं तदा तु तत् ॥
सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम् । तज्जीर्णमभावत्तात ग्रहस्याङ्गेषु केशव ।
ग्रहस्यातिवलस्याङ्गे वरदत्तस्य धीमतः । न शस्त्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि ॥]
अर्द्यमानाश्च विबुधा ग्रहेणि सुबलीयसा ।
शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥
तृष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतां ददौ ।
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥
ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ।
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः ॥
कुशद्वीपं च स ददौ राज्येन भगवानजः । [तथा शतमुखो नाम धात्रा सृष्टो महासुरः ।
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ।
तं प्राह भववांस्तुष्टः किंकरोमीति शंकरः ॥
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः ।
बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥
तथेति भगवानाह तस्य तद्वचनं प्रभुः ।
स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा ॥
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि । तस्य चोपददौ पुत्रान्सहस्रं क्रतुसम्मितान् ।]
योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥
याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः ।
आराध्य स महादेवं प्राप्तवानतुलं यशः ॥
वेदव्यासश्च योगात्मा पराशरसुतो मुनिः ।
सोऽपि शंकरमाराध्य प्राप्तवानतुलं यशः ॥
वालखिल्या मघवता ह्यवज्ञाताः पुरा किल ।
तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः ।
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥
महादेवस्य रोषाच्च आपो नष्टाः पुराऽभवन् ।
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥
ततः पानीयमभवत्प्रसन्ने त्र्यम्बके भुवि ।
अत्रिभार्या सुतं दत्तं सोमं दुर्वाससं प्रभो ॥
अत्रेर्भार्याऽपि भर्तारं संत्यज्य ब्रह्मवादिनी ।
नाहं तव मुने भूयो वशगा स्यां कथञ्चन ॥
इत्युक्त्वा सा महादेवमगमच्छरणं किल ।
निराहास भयादत्रेस्त्रीणि वर्षशतान्यपि ॥
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ।
तामब्रवीद्धसन्देवो भविता वै सुतस्तव ॥
विना भर्त्रा चरुद्रेण भविष्यति न संशयः ।
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥
विकर्णश्च महादेवं तथा भक्तसुखावहम् ।
प्रसाद्य भगवान्सिद्धिं प्राप्तवान्मधुसूदन ॥
शाकल्यः संशितात्मा वै नववर्षशतान्यपि ।
आराधयामास भवं मनोयज्ञेन केशव ॥
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि ।
वत्साक्षया च ते कीतिस्त्रेलोक्ये वै भविष्यति ॥
अक्षयं च कुलं तेऽस्तु महर्षिभिरलंकृतम् ।
भविष्यति द्विजश्रेष्ठः सूत्रकर्ता सुतस्तव ॥
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे ।
इह तेन तपस्तप्तं षष्टिवर्षशतान्यथ ॥
तमाह भगवान्रुद्रः साक्षात्तुष्टोस्मि तेऽनघ ।
ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥
शक्रेणि तु पुरा देवो वाराणस्यां जनार्दन ।
आराधितोऽभूद्भक्तेन दिग्वासा भस्मगुष्ठितः ॥
आराध्य स महादेवं देवराज्यमवाप्तवान् ॥
नारदेन तु भक्त्याऽसौ भव आराधितः पुरा ।
तस्य तुष्टो महादेवो जगौ देवगुरुर्गुरुः ॥
तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति ।
गीतेन वादितव्येन नित्यं मामनुयास्यसि ॥
`बाणः स्कन्दसमत्वं च कामो दर्पविमोक्षणम् । लवणोऽवध्यतामन्यैर्दशास्यश्च पुनर्बलम् ।
अन्तकोऽन्तमनुप्राप्तस्तस्मात्कोऽन्यः परः प्रभुः ॥
मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो ।
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥
यदर्थं च मया देवः प्रयतेन तथा विभो ।
आराधितो महातेजास्तच्चापि शृणु विस्तरात् ॥
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् । तत्सर्वं निखिलेनाद्य कथयिष्यामि तेऽनघ
पुरा कृतयुगे तात ऋषिरासीन्महायशाः । व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ।
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥
कस्यचित्त्थ कालस्य धौम्येन सह माधव ।
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी ।
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥
तदाप्रभृति चैवाहमरुदं मधुसूदन ।
दीयतां दीयतां क्षीरं मम मातरितीरिता ॥
अभावाच्चैव दुग्धस्य दुःखिता जननी तदा ॥
ततः पिष्टं समालोड्य तोयेन सह माधव ।
आवयोः क्षीरमित्येव पानार्थं समुपानयत् ॥
अथ गव्यं पयस्तात कदाचित्प्राशितं मया ।
पित्राऽहं यज्ञकाले हि नीतो ज्ञातिकुलं महत् ।
तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी ॥
यस्ताहं तत्पयः पीत्वा रसेन ह्यमृतोपमम् । ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि सम्भवम् ।
स च पिष्टरसस्तात न मे प्रीतिमुपावहत् ॥
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा ।
नेदं क्षीरोदनं मातर्यत्त्वं मे दत्तवत्यसि ॥
ततो मामब्रवीन्माता दुःखशोकसमन्विता ।
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनम् ।
वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥
आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम् कुत क्षीरं वनस्थानां मुनीनां गिरिवासिनाम् ॥
पावनानां वनाशानां वनाश्रमनिवासिनाम् । ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम् ।
नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते ॥
नदीगह्वरशैलेषु तीर्थेषु विविधेषु च ।
तपसा जप्यनित्यानां शिवो नः परमा गतिः ॥
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् ।
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् ।
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।
[प्राञ्जलिः प्रणतो भूत्वा इदमम्बामवोचयं ॥
कोऽयमम्ब महादेवः स कथं च प्रसीदति ।
कुत्र वा वसते देवो द्रष्टव्यो वा कथञ्चन ॥
तुष्यते वा कथं शर्वो रूपं तस्य च कीदृशम् ।
कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननी मम ॥
एवमुक्ता तदा कृष्ण माता मे सुतवत्सला ।
मूर्घन्याध्राय गोविन्द सबाष्पाकुललोचना ॥
प्रमार्जन्ती च गात्राणि मम वै मधुसूदन ॥
दैन्यमालम्ब्य जननी इदमाह सुरोत्तम ॥
दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः ।
दुराबाधश्च दुर्ग्राह्यो दुर्द्दश्यो ह्यकृतात्मभिः ॥
यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः ।
स्थानानि च विचित्राणि प्रासादाश्चाप्यनेकशः ॥
को हि तत्त्वेन तद्वेद ईशस्य चरितं शुभम् । कृतवान्यानि रूपाणि देवदेवः पुरा किल ।
क्रीडते च तथा शर्वः प्रसीदति यथाच वै ॥
हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः । भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम् ।
मुनीनां ब्रुवतां दिव्यमीशानचरितं शुभम् ॥
कृतवान्यानि रूपाणि कथितानि दिवौकसैः ।
अनुग्रहार्थं विप्राणां शृणु वत्स समासतः ॥
तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि ॥
ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि ।
विश्वेषामपि देवानां वपुर्धारयते भवः ॥
नराणां देवनारीणां तथा प्रेतपिशाचयोः ।
किरातशबराणां च जलजानामनेकशः ॥
करोति भगवान्रूपमाटव्यशबराण्यपि ।
कूर्मो मत्स्यस्तथा शङ्खः प्रवालाङ्कुरभूषणः ॥
यक्षराक्षससर्पाणां दैत्यदानवयोरपि ।
वपुर्धारयते देवो भूयश्च बिलवासिनाम् ॥
व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्त्रिणाम् ।
उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च ॥
हंसकाकमयूराणां कृकलासकसारसाम् ।
रूपाणि च बलाकानां गृध्रचक्राङ्गयोरपि ॥
करोति वा स रूपाणि धारयत्यपि पर्वतम् ।
गोरूपं च महादेवो हस्त्यश्वोष्ट्रखराकृतिः ॥
छागशार्दूलरूपश्च अनेकमृगरूपधृक् ।
अण्डजानां च दिव्यानां वपुर्धारयते भवः ॥
दण्डी छत्री च कुण्डी च द्विजानां वारणस्तथा ।
षण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः ॥
अनेककटिपादश्च अनेकोदरवक्त्रधृत् ।
अनेकपाणिपार्श्वश्च अनेकगपसंवृतः ॥
ऋषिगन्धर्वरूपश्च सिद्धचारणरूपधृत् ।
भस्पपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः ॥
अनेकरावसंघुष्टश्चानेकस्तुतिसंस्कृतः ।
सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः ॥
सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि ।
सर्वत्र भगवान्ज्ञेयो हृदिस्थः सर्वदेहिनाम् ॥
यो हि यं कामयेत्कामं यस्मिन्नर्थऽर्च्यते पुनः ।
तत्सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि ॥
नन्दते कुप्यते चापि तथा हुंकारयत्यपि ।
चक्री शूली गदापाणिर्मुसली खड्गपट्टसी ॥
भूधरो नागमौञ्जी च नागकुण्डलकुण्डली ।
नागयज्ञोपवीती य नागचर्मोत्तरच्छदः ॥
हसते गायते चैव नृत्यते च मनोहरम् ।
वादयत्यपि वाद्यानि विचित्राणि गणैर्युतः ॥
वल्गते जृम्बते चैव रुदते रोदयत्यपि ।
उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः ॥
अतीव हसते रौद्रस्त्रासयन्नयनैर्जनम् ।
जागर्ति चैव स्वपिति जृम्भते च यथासुवम् ॥
जपते जप्यते चैव तपते तप्यते पुनः ।
ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च ॥
वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने ।
दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा ॥
क्रीडते ऋषिकन्याभिर्ऋषिपत्नीभिरेव च ।
ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः ॥
गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः ।
विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः ॥
अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः ।
अनाद्यन्तमजस्यान्तं वेत्स्यते कोस्य तत्त्वतः ॥
हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः ।
ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः ॥
वादको गायनश्चैव सहस्रशतलोचनः ।
एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः ॥
तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः ।
भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितं ॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् ।] मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥
ततोऽहं तप आस्थाय तोपयामास शंकरम् ।
दिव्यं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः ॥
एकं वर्षशतं चैव फलाहारस्ततोऽभवम् ।
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥
शतानि सप्त चैवाहं वायुभक्षस्तदाऽभवम् ।
एकं वर्षसहस्रं तु दिव्यमाराधितो मया ॥
ततस्तुष्टो महादेवः सर्वलोकेश्वरः प्रभुः ।
एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा ॥
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ।
सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् ।
आवेष्टतकरं घोरं चतुर्दष्ट्रं महागजम् ॥
समास्थितः स भगवान्दीप्यमानः स्वतेजसा ।
आजगाम किरीटी तु हारकेयूरभूषितः ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
सेव्यभानोप्सरोभिश्च दिव्यगन्धर्वनादितैः ॥
ततो मामाह देवेन्द्रस्तुष्टस्तेऽहं द्विजोत्तम ।
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाऽभवम् ।
अब्रवं च तदा कृष्ण देवराजमिदं वचः ॥
नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् ।
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥
सत्यंसत्यं हि नः शक्र वाक्यमेतत्सुनिश्चितम् ।
न यन्मिहेश्वरं मुक्त्वा कथाऽन्या मम रोचते ॥
पशुपतिवचनाद्भवामि सद्यः कृमिरथवा तरुरप्यनेकशाखः ।
अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥
[जन्मश्वपाकमध्येऽ- पि मेऽस्तु हरचरणवन्दनरतस्य ।
मा वाऽनीश्वरभक्तो भवानि भवनेऽपि शक्रस्य ॥
वाय्वम्बुभुजोऽपि सतो । नरस्य दुःखक्षयः कुतस्तस्य ।
भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः ॥
अलमन्याभिस्तेषां कथाभिरप्यन्यधर्मयुक्ताभिः ।
येषां न क्षणमपि रुचितो हरचरणस्मरणविच्छेदः ॥
हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य ।
संसारभयं न भवति हरभक्तिरसायनं पीत्वा ॥
दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम् । न ह्यलब्धप्रसादस्य भक्तिर्भवति शङ्करे ॥]
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया ।
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥
[श्वाऽपि महेश्वरवचना- द्भवामि स हि नः परः कामः ।
त्रिदशगणराज्यमपि खलु नेच्छाम्यमहेश्वराज्ञप्तम् ॥
न नाकपृष्ठं न च देवराज्यं न ब्रह्मलोकं न च निष्कलत्वम् ।
न सर्वकामानखिलान्वृणोमि हरस्य दासत्वमहं वृणोमि ॥]
यावच्छशाङ्कधवलामलबद्धमौलि- र्न प्रीयते पशुपतिर्भगवान्ममेशः ।
तावज्जरामरणजन्मशताभिघातै- र्दुःखानि देहविहितानि समुद्वहामि ॥
दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारमसारमाद्यमेकम् ।
अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिं ॥
`धिक्तेषां धिक्तेषां पुनरपि च धिगस्तु धिक्तेषाम् ।
येषां न वसति हृदये कुपथगतिविमोक्षको रुद्रः' ॥
यदि नाम जन्म भूयो भवति मदीयैः पुनर्दोषैः ।
तस्मिंस्तस्मिञ्जन्मनि भवे भवेन्मेऽक्षया भक्तिः ॥
शक्र उवाच ।
कः पुनर्भवने हेतुरीशे कारणकारणे ।
येन शर्वादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥
[उपमन्युरुवाच ।
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।
नित्यमेकमनेकं च वरं तस्माद्वृणीमहे ॥
अनादिमध्यपर्यन्तं ज्ञानैश्वर्यमचिन्तितम् ।
आत्मानं परमं यस्माद्वरं तस्माद्वृणीमहे ॥
ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम् ।
अबीजाद्बीजसम्भूतं वरं तस्माद्वृणीमहे ॥
तमसः परमं ज्योतिस्तपस्तद्वृत्तिनां परम् ।
यं ज्ञात्वा नानुशोचन्ति वरं तस्माद्वृणीमहे ॥
भूतभावनभावज्ञं सर्वभूताभिभावनम् ।
सर्वगं सर्वदं देवं पूजयामि पुरंदर ॥
हेतुवादैर्विनिर्मुक्तं साङ्ख्ययोगार्थदं परम् ।
यमुपासन्ति तत्त्वज्ञा वरं तस्माद्वृणीमहे ॥
मघवन्मघवात्मानं यं वदन्ति सुरेश्वरम् ।
सर्वभूतगुरुं देवं वरं तस्माद्वृणीमहे ॥
यत्पूर्वमसृजद्देवं ब्रह्माणं लोकभावनम् ।
अण्डमाकाशमापूर्य वरं तस्माद्वृणीमहे ॥
अग्निरापोऽनिलः पृथ्वी खं बुद्धिश्च मनो महान् ।
स्रष्टा चैषां भवेद्योऽन्यो ब्रूहि कः परमेश्वरात् ॥
मनो मतिरहङ्कारस्तन्मात्राणीन्द्रियाणि च ।
ब्रूहि चैषां भवेच्छक्र कोऽन्योस्ति परमं शिवात् ॥
स्रष्टारं भुवनस्येह वदन्तीह पितामहम् ।
आराध्य स तु देवेशमश्नुते महतीं क्षियम् ॥
भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम् ।
विद्यते वै महादेवाद्ब्रूहि कः परमेश्वरात् ॥
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात् ।
कोऽन्यः शक्रोति देवेशाद्दितेः सम्पादितुं सुतान् ॥
दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः ।
विद्धि त्वेते महादेवाद्ब्रूहि कः परमेश्वरात् ॥
अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा ।
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः ॥
किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरंदर ।
सहस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम ॥
पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा ।
देवदेवप्रसादेन तत्सर्वं कुशिकोत्तम ॥
अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम् ।
चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् ॥
भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च । द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च ।
भगवन्मघवन्देवं वदन्ते तत्त्वदर्शिनः ॥ यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाकृतिम् ।
किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः ॥ अभिघातेषु देवानां सयक्षोरगरक्षसाम् ।
परस्परविनाशीषु स्वस्थानैश्वर्यदो भवः ॥ अन्धकस्याथ शुक्रस्य दुन्दुभेर्महिषस्य च ।
यक्षेन्द्रबलरक्षःसु निवातकवचेषु च । वरदानावघाताय ब्रूहि कोऽन्यो महेश्वरात् ॥
सुरासुरगुरोर्वक्त्रे कस्य रेतः पुरा हुतम् ।
कस्य वाऽन्यस्य रेतस्तद्येन हैमो गिरिः कृतः ॥
दिग्वासाः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः ।
कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः ॥
ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते ।
श्मशाने कस्य क्रीडार्थं नृत्ते वा कोऽभिभाष्यते ॥
कस्यैश्वर्यं समानं च भूतैः को वाऽपि क्रीडते ।
कस्य तुल्यबला देवगणाश्चैश्वर्यदर्पिताः ॥
घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम् ।
वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः ॥
कस्मादोषधिसम्पत्तिः को वा धारयते वसु ।
प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे ॥
ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः ।
ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम् ॥
कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः ।
नित्यं कर्मफलैर्हीनं तमहं कारणं वदे ॥
स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम् ।
गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् ॥
विश्वेशं कारणगुरुं लोककालोकान्तकारणम् । भूताभूतभविष्यच्च जनकं सर्वकारणम् ।
अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते ।
धर्माधर्मौ यतः शक्र तमहं कारणं ब्रुवे ॥
प्रत्यक्षमिह देवेन्द्र पश्य लिङ्गं भगाङ्कितम् ।
देवदेवेन रुद्रेण सृष्टिसंहारहेतुना ॥
मात्रा पूर्वं ममाख्यातं कारणं लोकलक्षणम् ।
नास्ति चेशात्परं शक्र तं प्रपद्य यदीच्छसि ॥
प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवं त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् ।
यद्ब्रह्मेन्द्रहुताशविष्णुसहिता देवाश्च दैत्येश्वरा नान्यत्कामसहस्रकल्पितधियः शंसन्ति ईशात्परं ॥
तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमं कामार्थी वरयामि संयतमना मोक्षाय सद्यः शिवम्
हेतुभिर्वा किमन्यैस्तैरीशः कारणकारणम् । न शुश्रुम यदन्यस्य लिङ्गमभ्यर्चितं सुरैः ॥
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् ।
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥
यस्य ब्रह्म च विष्णुश्च त्वं चापि सहदैवतैः ।
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥
न पद्माङ्गा न चक्राङ्का न वज्राङ्का यतः प्रजाः ।
लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा ॥
देव्याःकरणरूपभावजनिताःसर्वाभगाङ्काः स्त्रियो लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः ।
योऽन्यत्कारणमीश्वरात्प्रवदते देव्या च यन्नाङ्कितं त्रैलोक्ये सचराचरे स तु पुमान्बाह्यो भवेद्दुर्मतिः ॥
पुल्लिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्यमाम् । द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् ॥]
तस्माद्वरमहं काङ्क्षे निधनं वाऽपि कौशिक ।
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥
काममेष वरो मेस्तु शापो वाऽथ महेश्वरात् ।
न चान्यां देवतां काङ्क्षे सर्वकामफलामपि ॥
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः ।
न प्रसीदति मे देवः किमेतदिति चिन्तयन् ॥
अथापश्यं क्षणेनैव तमेवैरावतं पुनः ।
हंसकुन्देन्दुसदृशं मृणालरजतप्रभम् ॥
वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ।
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥
वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः ।
सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् । सुवक्त्रखुरनासं च सुकर्णं सुकटीतटम् ।
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥
ककुदं तस्य चाभाति स्कन्धमापूर्य धिष्ठितम् ।
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥
तभास्थितश्च भगवान्देवदेवः सहोमया ।
अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥
`किरीटं च जटाभारः सर्पाद्याभरणानि च । वज्रादिशूलमातङ्गगम्भीरस्मितमागतम् ॥'
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् ।
सहस्रमिव सूर्याणां सर्वमापूर्य धिष्ठितः ॥
ईश्वरः सुमहातेजाः संवर्तक इवानलः ।
युगान्ते सर्वभूतानां दिधक्षुरिव चोद्यतः ॥
तेजसा तु तदा व्याप्तं दुर्निरीक्ष्यं समन्ततः ।
पुनरुद्विग्नहृदय किमेतदिति चिन्तयम् ॥
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश ।
प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् ।
`सौरभेयगतं सौम्यं विधूममिव पावकम् ॥
प्रशान्तमनसं देवं त्रिनेत्रमपराजितम् । सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥'
नीलकण्ठं महात्मनमसक्तं तेजसां निधिम् ।
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् ।
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥
गायद्भिर्नृत्यमानैश्च वादयद्भिश्च सर्वशः ।
वृतं पार्श्वचरैर्दिव्यैरात्मतुल्यपराक्रमैः ॥
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् ।
त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिः सूर्यैरिवोदितैः ॥
`सर्वविद्याधिपं देवं शरच्चन्द्रसमप्रभम् । नयनाह्लादसौम्योऽहमपश्यं परमेश्वरम् ॥'
अशोभतास्य देवस्य माला गात्रे सितप्रभे ।
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥
मूर्तिमन्ति तथाऽस्त्राणि सर्वतेजोमयानि च ।
मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥
इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः ।
पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्वणः ।
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥
शरश्च सूर्यसङ्काशो दृष्टः पाशुपताह्वयः ।
`सहस्रभुजजिह्वास्यो भीषणो नागविंग्रह ॥
शङ्खशूलासिभिश्चैव पट्टसै रूपवान्स्थितः । येन च त्रिपुरं दग्धं सर्वदेवमयः ******
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् ।
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥
एकपादं महादंष्ट्रं सहस्रशिरसोदरम् ।
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥
ब्राह्मान्नारायणाच्चैन्द्रादाग्नेयादपि वारुणात् ।
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा ।
शरेणैकेन गोविन्द महादेवेन लीलया ॥
निर्दहेत च यत्कृत्स्नं त्रैलोक्यं सचराचरम् ।
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥
नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि ।
तदहं दृष्टवांस्तत्र आश्चर्यमिदमुत्तमम् ॥
गुह्यमस्त्रवरं नान्यत्तत्तुल्यमधिकं हि वा । यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः
दारयेद्द्यां मही कृत्स्नां शोषयेद्वा महोदधिम् ।
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥
यौवनाश्वो हतो येन मान्धाता सबलः पुरा ।
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥
महाबलो महावीर्यः शक्रतुल्यपराक्रमः ।
करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥
तच्छूलमतितीक्ष्णाग्रं सुभीमं रोमहर्षणम् ।
त्रिशिखां भ्रुकुटिं कृत्वा तर्जमानमिव स्थितम् ॥
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् ।
सर्पहस्तमनिर्देश्यं पाशहस्तामिवान्तकम् ॥
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ ।
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुराः ॥
महादेवेन तुष्टेन दत्तं भृगुसुताय च ।
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता ।
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रधिष्ठितः ॥ अभवच्छूलिनोऽभ्याशे दीप्तवह्निशतोपमः ।
असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः ।
प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः ।
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥
वामपार्श्वगतश्चापि तथा नारायणः स्थितः ।
वैनतेयं समारुह्य शङ्खचक्रगदाधरः ॥
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः ।
शक्तिघण्टे समादाय द्वितीय इव पावकः ॥
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् ।
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा ।
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥
सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः ।
तेऽभिवाद्य महात्मानं परिवार्य समन्ततः ॥
अस्तुवन्विविधैः सतोत्रैर्महादेवं सुरास्तदा ।
`जगन्मूर्ति महालिङ्गं तन्मध्ये स्फूतरूपिणम् ॥
ब्रह्मा भवं तदाऽस्तौवीद्रथन्तरमुदीरयन् ।
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥
गृणन्ब्रह्म परं शक्रः शतरुद्रियमुत्तमम् । ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः ।
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥
तेषां मध्यगतो देवो रराज भगवाञ्छिवः ।
शरदभ्रविनिर्मुक्तः परिधिस्थ इवांशुमान् ॥
अयुतानि च चन्द्रार्कानपश्यं दिवि केशव ।
ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रत ॥
उपमन्युरुवाच ।
नमो देवाधिदेवाय महादेवाय ते नमः ।
शक्ररूपाय शक्राय शक्रवेषधराय च ॥
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च ।
पिनाकपाणये नित्यं शङ्खशूलधराय च ॥ ।
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धज ।
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च ।
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥
नमोस्तु रक्तवर्णाय रक्ताम्बरधराय च ।
रक्तध्वजपताकाय रक्तस्रगनुलेपिने ॥
नमोस्तु पीतवर्णाय पीताम्बरधराय च ॥
नमोस्तूच्छ्रितच्छत्राय किरीटवरधारिणे ।
अर्धहारार्दकेयूर अर्धकुण्डलकर्णिने ॥
नमः पवनवेगाय नमो देवाय वै नमः ।
सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोस्तु ते ॥
नमः पद्मार्धमालाय उत्पलैर्मिश्रिताय च ।
अर्धचन्दनलिप्ताय अर्धस्रगनुलेपिने ॥
नम आदित्यवक्त्राय आदित्यनयनाय च ।
नम आदित्यवर्णाय आदित्यप्रतिमाय च ॥
नमः सोमाय सौम्याय सौम्यवक्त्रधराय च ।
सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषिणे ॥
नमः श्यामाय गौराय अर्धपीतार्धपाण्डवे ।
नारीनरशरीराय स्त्रीपुंसाय नमोस्तु ते ॥
नमो वृषभवाहाय गजेन्द्रगमनाय च ।
दुर्गमाय नमस्तुभ्यमगम्यागमनाय च ॥
नमोस्तु गणनीताय गणवृन्दरताय च ।
गुणानुयातमार्गाय गणनित्यव्रताय च ॥
नमः श्वेताभ्रवर्णाय संध्यारागप्रभाच य ।
अनुद्दिष्टामभिधानाय स्वरूपाय नमोस्तु ते ॥
नमो रक्ताग्रवासाय रक्तसूत्रधराय च ।
रक्तमालाविचित्राय रक्ताम्बरधराय च ॥
मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे ।
विचित्रमणिमूर्धाय कुसुमाष्टधराय च ॥
नमोऽग्निमुखनेत्राय सहस्रशशिलोचने ।
अग्निरूपाय कान्ताय नमोस्तु गहनाय च ॥
खचराय नमस्तुभ्यं गोचराभिरताय च ।
भूचराय भुवनाय अनन्ताय शिवाय च ॥
नमो दिग्वाससे नित्यमधिवाससुवाससे ।
नमो जगन्निवासाय प्रतिपत्तिसुखाय च ॥
नित्यमुद्बद्धमुकुटे महाकेयूरधारिणे ।
सर्पकण्ठोपहाराय विचित्राभरणाय च ॥
नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने ।
स्त्रीपुंसाय नपुंसाय नमः साङ्ख्याय योगिने ॥
शंयोरभिस्रवन्ताय अथर्वाय नमोनमः ।
नमः सर्वार्तिनाशाय नमः शोकहराय च ॥
नमो मेघनिनादाय बहुमायाधराय च ।
बीजक्षेत्राभिपालाय स्रष्टाराय नमोनमः ॥
नमः सुरासुरेशाय विश्वेशाय नमोनमः ।
मनः पवनवेगाय नमः पवनरूपिणे ॥
नमः काञ्चनमालाय गिरिमालाय वै नमः ।
नमः सुरारिमालाय चण्डवेगाय वै नमः ॥
ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः ।
नमः स्त्रीरूपधाराय यज्ञविध्वंसनाय च ॥
नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च ।
नमः कामाङ्गनाशाय कालदण्डधराय च ॥
नमः स्कन्दविशाखाय ब्रह्मदण्डाय वै नमः ।
नमो भवाय शर्वाय विश्वरूपाय वै नमः ॥
ईशानाय भवघ्नाय नमोस्त्वन्धकघातिने ।
नमो विश्वाय मायायचिन्त्याचिन्त्याय वै नमः ॥
त्वं नो गतिश्च श्रेष्ठश्च त्वमेव हृदयं तथा ।] त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥
आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यते ।
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः ॥
गृहस्थस्त्वमाश्रगिणामीश्वराणां महेश्वरः ।
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यते ॥
पर्वतानां भवान्मेरुर्नक्षत्राणां च चन्द्रमाः ।
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते ॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः ।
ग्राम्याणां गोवृषश्चासि भवाँल्लोक्प्रपूजितः ॥
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः ।
पक्षिणां वैनतेयस्त्वमनन्तो भ्रुजगेषु च ॥
सामवेदश्च वेदानां यजुषां शतरुद्रियम् ।
सनत्कुमारो योगानां साङ्ख्यानां कपिलो ह्यसि ॥
शक्रोसि मरुतां देव पितॄणां हव्यवाडसि ॥
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥
क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः ।
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥
आदिस्त्वमसि लोकानां संहर्ता काल एव च यच्चान्यदपि लोके वै सर्वतेजोधिकं स्मृतम् ।
तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥
नमस्ते भगवन्देव नमस्ते भक्तवत्सलः ।
योगेश्वर नमस्तेऽस्तु नमस्ते विस्वसम्भव ॥
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च ।
अनैश्वर्येणि युक्तस्य गतिर्भव सनातन ॥
यच्चापराधं कृतवानज्ञात्वा परमेश्वर ।
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥
मोहितश्चास्मि देवेश त्वया रूपविपर्ययात् ।
नार्घ्यं तेन मया दत्तं पाद्यं चापि महेश्वर ॥
एवं स्तुत्वाऽहमीशानं पाद्यमर्घ्यं च भक्तितः ।
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥
ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता ।
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥
दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिंकरैः ।
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः ।
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः ।
मयि भक्तिं परां नित्यमेकभावादवस्थिताम् ॥
एवमुक्तास्तदा कृष्ण सुरास्ते शूलपाणिना ।
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥
भगवन्देवदेवेश लोकनाथ जगत्पते ।
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा ।
आह मां भगवानीशः प्रहसन्निव शङ्करः ॥
भगवानुवाच ।
वत्सोपमन्यो तृष्टोस्मि पश्य मां मुनिपुङ्गव ।
दृढभक्तोसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् ।
तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथोप्सितान् ॥
एवमुक्तस्य चैवाथ महादेवेन धीमता ।
हर्षादश्रूण्यवर्तन्त रोमहर्षस्त्वजायत ॥
अब्रवं च तदा देव हर्षगद्गदया गिरा ।
जानुभ्यामवनीं गत्वा प्रणम्य च पुनःपुनः ॥
अद्य जातो ह्यहं देव सफलं जन्म चाद्य मे ।
यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥
यं न पश्यन्ति चैवाद्धा देवा ह्यमितविक्रमम् ।
तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् ।
तद्विशेषमतिख्यातं यदजं ज्ञानमक्षरम् ॥
स एष भगवान्देवः सर्वसत्त्वादिरव्ययः ।
सर्वतत्त्वविधानज्ञः प्रधानपुरुषः परः ॥
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणां लोकसम्भवम् ।
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥
युगान्ते चैव सम्प्राप्ते रुद्रमीशोऽसृजत्प्रभुः ।
स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् ॥
कालो भूत्वा परं ब्रह्म याति संवर्तकानलः ।
युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः ॥
एष देवो महादेवो जगत्सृष्ट्वा चराचरम् ।
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः ।
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥
यदि देयो वरो मह्यं यदि तुष्टोऽसि मे प्रभो ।
भक्तिर्भक्तु मे नित्यं त्वयि देव सुरेश्वर ॥
अतीतानागतं चैव वर्तमानं च यद्विभो ।
जानीयामिति मे बुद्धिः प्रसादात्सुरसत्तम ॥
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः ।
आश्रमे च सदाऽस्माकं सान्निध्यं परमस्तु ते ॥
एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः ।
महेश्वरो महातेजाश्वराचरगुरुः शिवः ॥
श्रीभगवानुवाच ।
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः ।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥
ऋषीणामभिगम्यश्च मत्प्रसादाध्भविष्यसि ।
शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् ।
क्षीरोदः सागरश्चैव यत्रयत्रेच्छसि प्रियम् ॥
तत्र ते भविता कामं सान्निध्यं पयसोनिधेः ।
क्षीरोदनं च भुङ्ख त्वममृतेन समन्वितम् ॥
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि ।
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ।
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥
तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यति ।
स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् ॥
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ।
ईशानः स वरान्दत्त्वा तत्रैवान्तरधीयत ॥
एवं दृष्टो मया कृष्ण देवदेवः समाधिना ।
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् ।
ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥
पश्य वृक्षलतागुल्मान्सर्वपुष्पफलप्रदान् ।
सर्वर्तुकुसुमैर्युक्तान्सुखपत्रान्सुगन्धिनः ॥
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ।
प्रसादाद्देवदेवस्य ईशअवरस्य महात्मनः ॥
वासुदेव उवाच ।
एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम् ।
विस्मयं परमं गत्वा अब्रवं तं महामुनिम् ॥
धन्यस्त्वमसि विप्रेन्द्रि कस्त्वदन्योस्ति पुण्यकृत् ।
यस्य देवाधिदेवस्ते सान्निध्यं कुरुतेऽऽश्रमे ॥
अपि तावन्ममाप्येवं दद्यात्स भगवाञ्शिवः ।
दर्शं मुनिशार्दूल प्रसादं चापि शङ्करः ॥
उपमन्युरुवाच ।
[द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः ।
अचिरेणैव कालेन यथा दृष्टो मयाऽनघ ॥
चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम् ।
षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम ॥
षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात् ।
सपत्नीकाद्यदुश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥
अतीतानागतं चैव वर्तमानं च नित्यशः । विदितं मे महाबाहो प्रसादात्तस्य धीमतः ॥]
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः ।
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥
त्वादृशेन हि देवानां श्लाघनीय समागमः । ब्रह्मणअयेनानृशंसेन श्रद्दधानेन चाप्युत ।
जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शंकरम् ॥
श्रीकृष्ण उवाच ।
अब्रवं तमहं ब्रह्मन्त्वत्प्रसादान्महामुने ।
द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ॥
एवं कथयतस्तस्य महादेवाश्रितां कथाम् ।
दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत ॥
दिनेऽष्टमे तु विप्रेणि दीक्षितोऽहं यथाविधि ।
दण्डी मुण्डी कुशी चीरि घृताक्तो मेखलीकृतः ॥
मासमेकं फलाहारो द्वितीयं सलिलाशनः ।
तृतीयं च चतुर्थं च पञ्चमं चानिलाशः ॥
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ।
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन । इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ।
नीलसैलचयप्रख्यं बलाकाभूषिताम्बरम् ॥
तत्र स्थितश्च भगवान्देव्या सह महाद्युतिः ।
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥
रराज भगवांस्तत्र देव्या सह महेश्वरः ।
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः ।
अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ॥
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम् ।
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥
दिव्यां मालामुरसाऽनेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम् ।
चन्द्रं यथा परिविष्टं ससन्ध्यं वर्षात्यये तद्वदपश्यमेनम् ॥
प्रमथानां गणैश्चैव समन्तात्परिवारितम् ।
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥
एकादशशतान्येवं रुद्राणां वृषवाहनम् अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम् ॥
आदित्या वसवः साध्या विश्वेदेवास्तथाऽश्विनौ ।
विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥
शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ ।
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥
योगीश्वराः सुबहवो योगदं पितरं गुरुम् ।
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥
पृथिवीं चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा ।
मासार्धमासा क्रतवो रात्रिः संवत्सराः क्षणाः ॥
मुहूर्ताश्च निमेपाश्च तथैव युगपर्ययाः ।
दिव्या राजन्नमस्यन्ति विद्याः सत्वविदस्तथा ॥
सनत्कुमारो देवाश्च इतिहासास्तथैव च ।
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥
मनवः सप्त सोमश्च अर्थवा सबृहस्पतिः ।
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः ।
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥
प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः ।
देवानां मातरः सर्वादेवपत्न्य सकन्यकाः ॥
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च ।
नमस्यन्ति प्रभुं शान्तं पर्वताःसागरा दिशः ॥
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः ।
दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम् ॥
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा । सर्वाणि चैव भूतानि स्तावराणि चराणि च ।
नमस्यन्ति महाराज वाङ्मनः कर्मभिर्विभुम् ॥
पुरस्ताद्धिष्ठितः शर्वो ममासीस्त्रिदशेश्वरः ॥
पुरस्तद्धिष्ठितं दृष्ट्वा ममेशानं च भारत ।
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा ।
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥
त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः ।
त्वत्समो नास्ति मे कश्चित्त्रिषु लोकषु वै प्रियः ॥
शिरसा वन्दिते देवे देवी प्रीता ह्युमा तदा ।
ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥
कृष्ण उवाच ।
नमोस्तु ते शाश्वत सर्वयोने ब्राह्माधिपं त्वामृषयो वदन्ति ।
तपश्च सत्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः ।
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥
त्वत्तो जातानि भूतानि स्थावराणि चराणि च ।
त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम् ॥
यानीन्द्रियाणीह मनश्च कृत्स्नं ये वायवः सप्ति तथैव चाग्नयः ।
ये देवसंस्थास्तव देवताश्च तस्मात्परं त्वामृषयो वदन्ति ॥
वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः ।
यज्ञोपगं च यत्किंचिद्भगवांस्तदसंशयम् ॥
इष्टं दत्तमधीतं व्रतानि नियमाश्च ये ।
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी ॥
कामः क्रोधो भयं लोभो मदः स्तम्भोथ मत्सरः ।
आधयो व्याधयश्चैव भगवंस्तनवस्तव ॥
कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम् ।
मनसः परमा योनिः प्रभावश्चापि शाश्वतः ॥
अव्यक्तः पावनोऽचिन्त्यः सहस्रांशुर्हिरण्मयः ।
आदिर्गणानां सर्वेषां भवान्वैजीविताश्रयः ॥
महानात्मा मतिर्ब्रह्मा विश्वः शंभुः स्वयंभुवः ।
बुद्धिः प्रज्ञोपलब्धिश्चसंवित्ख्यातिर्धृतिः स्मृतिः ॥
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते ।
त्वां बुद्ध्वा ब्राह्मणो वेदात्प्रमोहं विनियच्छति ॥
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः ॥
सर्वतः पाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥
फलं त्वमसि दिग्मांशोर्निमेषादिषु कर्मसु । त्वं वै प्रबार्चिः पुरुषः सर्वस्य हृदि संश्रितः ।
अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसत्वा जितेन्द्रियाः ॥
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं विश्वरूपम् ।
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः ।
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥
एवमुक्ते मया पार्थ भवे चार्तिविनाशने ।
चराचरं जगत्सर्गं सिंहनादं तदाऽकरोत् ॥
तं विप्रसङ्घाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तदा प्रणेमुः ॥
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् ।
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥
निरीक्ष्य भगवान्देवीं ह्युमां मां च जगद्धितः ।
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥
विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् ।
क्रियतामात्मनः श्रेयः प्रीतिर्हित्वयि मे परा ॥
वृणीष्वाष्टौ वरान्कृष्ण दाताऽस्मि तव सत्तम ।
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

7-45-2 शिवाय विष्णुरूपायेति झ.पाठः ॥ 7-45-3 तण्डिना ब्रह्मयोनिनेति झ.पाठः ॥ 7-45-18 ते त्वया ॥ 7-45-21 यज्ञवाहा इति छन्दसामेव विशेषणम् । छन्दांसि वै देवेभ्यो हव्यमूढ्व्रेति ब्राह्मणात् तेषां यज्ञवाहत्वसिद्धिः । स्तोभाः सामपूरणान्यक्षराणि हुंमा इत्यादीनि ॥ 7-45-25 नरेन्द्रपुत्रीं ऋक्षराजस्य जाम्बवतो दुहितरम् ॥ 7-45-26 अभ्यनुज्ञाय स्थितं मामिति शेषः । अथोचतुरित्यर्धः ॥ 7-45-33 भस्मराशिभिरिति भस्मच्छन्नैरग्निभइः ॥ 7-45-40 सम्प्रक्षालैः मैत्र्यादिभिश्चित्तशोधनं कुर्वद्भिः ॥ 7-45-41 गोचारिणो गोवन्मुखेनैव चरन्तो हस्तव्यापारशून्या इत्यर्थः । मरीचिपाश्चन्द्ररश्मि पानेनैव जीवन्तः ॥ 7-45-47 नियमाः अम्बुपानादयस्तैरेवाम्पुषैः क्षीरपैरित्यादिनामभिः ख्यातैः । प्रविशन्नेवापश्यमुपमन्युमिति शेषः ॥ 7-45-58 समानां सवत्सरणामर्बुदं समार्वुदम् ॥ 7-45-59 प्रहस्य मन्दारनाम्नः ॥ 7-45-60 भगवता महादेवेन ॥ 7-45-61 उत्पादितं तस्यैव दैत्यस्य हननार्थम् ॥ 7-45-63 जीर्णं जीर्णतृणवद्व्यर्थमित्यर्थः ॥ 7-45-64 वरदत्तस्य सर्वशस्त्रावध्यस्त्वं भवेति दत्तवरस्य ॥ 7-45-77 सप्तकपालेन त्र्यम्बकदैवत्येन हेतुना । देवैः सप्तकपालेन रुद्रमिष्ट्वा आपो निर्मिता इत्यर्थः ॥ 7-45-78 रुद्रप्रसादाज्जनयामासति शेषः ॥ 7-45-81 मुसलेष्वयोग्रेषु काष्ठकीलेषु ॥ 7-45-82 चरुद्रः चरोर्द्रवः मण्ड इति यावत् । चरुशब्दपूर्वाद्द्रवतेरन्येभ्योपि दृश्यत इति डः । भर्तारंविनापि चरुद्रवपानमात्रेण तव पुत्रो भविष्यतीत्यर्थः ॥ 7-45-96 धूम्रश्चापि ममानुज इति ट.थ.पाठः ॥ 7-45-109 पावनानां पवनाशिनाम् । वनाशानां अब्भक्षाणाम् ॥ 7-45-112 प्रवद्य प्रपन्नो भव ॥ 7-45-118 दुराधारः मनसि धर्तुमशक्यः 7-45-126 प्रवालाङ्कुरभूषणे वसन्तस्तेन कालोप्ययमेवेत्यर्थः 7-45-139 भूधरः शेषनागः ॥ 7-45-146 सर्ववासकः सर्वस्याच्छादकः 7-45-161 अभवं सन्धिरार्षः ॥ 7-45-165 भावा मैव । भवानि भूयासम् ॥ 7-45-168 अनार्जवं वक्रम् । युगं कलियुगम् ॥ 7-45-174 असारं नास्ति सारो यस्मादन्यस्तम् ॥ 7-45-177 ईशे ईशस्य । भवने सत्तायाम् । को हेतुः का युक्तिः । ईशसत्त्वे प्रमाणं नास्तीत्यर्थः ॥ 7-45-271 रथन्तरज्येष्ठे सामनी ॥ 7-45-278 शुक्लं कर्म हिंसारहितो ध्यानादिधर्मः ॥ 7-45-283 मिश्रिताय मिश्रितमालाय ॥ 7-45-295 मुकुटे मुकुटाय ॥ 7-45-296 त्रीणि नेत्राणीव नेत्राणि लोकयात्रानिर्वाहकाण्यग्निचन्द्रसूर्याख्यानि नेत्राणि यस्य तस्यै त्रिनेत्रनेत्राय । लोचने लोचनाय ॥ 7-45-298 स्रष्टाराय औणादिकः सृजेत्वारन् । स्रष्ट्रे इत्यर्थः ॥ 7-45-304 मायाय मायाविने ॥ 7-45-325 कामेभ्यः कामान् काम्यमानान् अर्थान् ॥ 7-45-333 षड्विंशकमिति ख्यातमिति ट.थ.पाठः ॥ 7-45-336 तं त्वां प्रणम्य शइरसा प्रसाद्य प्रार्थये प्रभो इति ट.थ.पाठः ॥ 7-45-375 परिविष्टं परिवेषवन्तम् ॥

श्रीः

  1. युधिष्ठिर उवाच ।
    ययाऽऽपगेय नामानि श्रुतानीह जगत्पतेः ।
    पितामहेशाय विभो नामान्याचक्ष्य शम्भवे ॥
    बभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः ।
    सुरासुरगुरौ देवे शंकरेऽव्यक्तयोनये ॥
    भीष्म उवाच ।
    अशक्तोऽहं गुणान्यक्तुं महादेवस्य धीमतः ।
    यो हि सर्वगतो देवो न च सर्वत्र दृश्यते ॥
    ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च ।
    ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते ॥
    प्रकृतीनां परत्वेन पुरुषस्य च यः परः । चिन्त्यते यो योगविद्भिर्ऋषिभिस्तत्त्वदर्शिभिः ।
    अक्षरं परमं ब्रह्म असच्च सदसच्च यः ॥
    प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा ।
    ब्रह्माणमसृजत्तस्माद्देवदेवः प्रजापतिः ॥
    को हि शक्तो गुणान्वक्तं देवदेवस्य धीमतः ।
    गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः ॥
    को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम् ।
    क्रते नारायणात्पुत्र शङ्कचक्रगदाधरात् ॥
    एष विद्वान्गुणश्रेष्ठो विष्णुः परमदुर्जयः ॥
    दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा ॥
    रुद्रभक्त्या तु कृष्णेन जगद्व्याप्तं महात्मना ।
    तं प्रसाद्य तदा देवं बदर्यां किल भारत ॥
    अर्थात्प्रियतरत्वं च सर्वलोकेषु वै तदा ।
    प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात् ॥
    पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः ।
    प्रसाद्य वरदं देवं चराचरगुरुं शिवम् ॥
    युगेयुगे तु कृष्णेन तोषितो वै महेश्वरः ।
    भक्त्या परमया चैव प्रीतश्चैव महात्मनः ॥
    ऐश्वर्यं यादृसं तस्य जगद्योनेर्महात्मनः ॥
    तदयं दृष्टवान्साक्षात्पुत्रार्थे हरिरच्युतः ॥
    यस्मात्परतरं चैव नान्यं पश्यामि भारत ।
    व्याख्यातुं देवदेवस्य शक्तो नामान्यशषतः ॥
    एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान् ।
    विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप ॥
    वैशम्पायन उवाच ।
    एवमुक्त्वा तदा भीष्मो वासुदेवं महायशाः । भवमाहात्म्यसंयुक्तमिदमाह पितामहः ॥