अध्यायः 047

अथ दानधर्मपर्व ॥ 1 ॥

उपमन्युना कृष्णंप्रति तण्डिकृतमहादेवस्तुत्यनुवादः ॥ 1 ॥

उपमन्युरुवाच ।

ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः ।
दशवर्षसहस्राणि तेन देवः समाधिना ॥
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ।
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ॥
[इति तण्डिस्तपोयोगात्परमात्मानमव्ययम् ।
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः ॥
यं पठन्ति सदा साङ्ख्याश्चिन्तयन्ति च योगिनः । परं प्रधानं पुरुषमधिष्ठातारमीश्वरम् ।
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ।
देवासुरमुनीनां च परं यस्मान्न विद्यते ॥
अजं तमहमीशानमनादिनिधनं प्रभुम् ।
अत्यन्तसुखिनं देवमनघं शरणं व्रजे ॥
एवं ब्रुवन्नेव तदा ददर्श तपसान्निधिम् ।
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम् ॥
निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् ।
योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम् ॥
मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम्् ।
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम् ॥
दुर्विज्ञेयमसङ्ख्ये दुष्प्रापमकृतात्मभिः ।
योनि विश्वस्य जगतस्तमसः परतः परम् ॥
यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः । तं देवं दर्शनाकाङ्क्षी बहून्वर्षगणानृषिः ।
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम् ॥]
तण्डिरुवाच ।
पवित्राणां पवित्रस्त्वं गतिर्गतिमतांवर ॥
अत्युग्रं तेजसां तेजस्तपसां परमं तपः ।
विश्वावसुहिरण्याक्षपुरुहूतनमस्तृत ॥
भूरिकल्याणद विभो परं सत्यं नमोस्तु ते ।
जातीमरणभीरूणां यतीनां यततां विभो ॥
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ।
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ॥
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ।
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ।
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ॥
अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ।
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि ॥
त्वां विदित्वाऽऽत्मदेवस्थं दुर्विदं दैवतैरपि ।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः ।
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥
त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च ।
सत्वं रजस्ममश्चैव अधश्चोर्ध्वं त्वमेव हि ॥
ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः ।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥
भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः ।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥
इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम् ।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् ।
या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् ।
यां गतिं प्रार्तयन्तीह ज्ञाननिर्मलबुद्धयः ॥
अयो मूढाः स्म सुचिरमिमं कालमचेतसा ।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥
सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया ।
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्नुते ॥
देवासुरमुनीनां तु यच्च गुह्यं सनातनम् ।
गुहायां निहितं ब्रह्मि दुर्विज्ञेयं मुनेरपि ॥
स एष भगवान्देवः सर्वकृत्सर्वतोमुखः ।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥
देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ।
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ॥
अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम् ।
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः ॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः । अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ।
अयं संसिद्धिकामानां या गतिः सोयमीस्वरः ।
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः ।
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च ॥
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् ।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥
अयं स सत्यकामानां सत्यलोकः परं सताम् ।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम् ॥
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रुभुः ।
देवासुरमनुष्याणामप्रकाशो भवेदिति ॥
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् । मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना
ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः ।
तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते ।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥
यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः ।
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम् ॥
यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः । सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः
यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम् ।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥
ओंकाररथमारुह्य ते विशन्ति महेश्वरम् ।
अयं स देवयानानामादित्यो द्वारमुच्यते ॥
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ।
एष काष्ठा दिशश्चैव संवत्सरयुगादि च ॥
दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे ।
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ॥
प्रजार्थं वरयामास नीललोहितसंज्ञितम् ।
क्रग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः ॥
यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ।
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ॥
ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः ।
यज्ञस्य परमा योनिः परिश्चायं परः स्मृतः ॥
रात्र्यहः श्रोत्रनयनः पक्षमासशिरोभुजः ।
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥
मृत्युर्यमो हुताशश्च कालः संहारवेगवान् ।
कालस्य परमा योनिः कालश्चायं सनातनः ॥
चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना ।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥
प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् ।
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः ।
अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥
एतत्परममानन्दं यत्तच्छाश्वतमेव च ।
एषा गतिर्विरक्तानामेष भावः परः सताम् ॥
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् ।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥
इयं सा परमा काष्ठा इयं सा परमा कला ।
इयं सा परमा सिद्धिरियं सा परमा गतिः ॥
इयं सा परमा शान्तिरियं सा निर्वृतिः परा ।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः ॥
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः ।
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया ॥
यजतां कामयानानां मखैर्विपुलदक्षिणैः ।
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः ॥
सम्यग्योगजपैः शान्तिर्नियमैर्देहतापनैः ।
तप्यतां या गतिर्देव परमा सा गतिर्भवान् ॥
कर्मन्यासकृतानां च विरक्तानां ततस्ततः ।
या गतिर्ब्रह्मिसदने सा गतिस्त्वं सनातन ॥
अपुनर्भवकामानां वैराग्ये वर्ततां च या ।
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन ॥
ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना ।
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥
वेदशास्त्रपुराणोक्ताः पञ्च ता गतयः स्मृताः ।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥
इति तण्डिस्तपोराशिस्तुष्टावेसानमात्मना ।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥
उपमन्युरुवाच ।
एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना ।
उवाच भगवान्देव उमया सहितः प्रभुः ॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ।
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः ।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव ।
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे ।
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे ॥
उपमन्युरुवाच ।
एतान्दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः ।
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥
अन्तर्हिते भगवति सानुगे यादवेश्वर ।
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम मानानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥
दश नामसहस्राणि देवेष्वाह पितामहः ।
सर्वस्य शास्त्रेषु तथा दश नामशतानि च ॥
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत ।
देवप्रसादाद्देवेशः पुरा प्राह महात्मने ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

7-47-2 उदर्कं फलोदयम् ॥ 7-47-27 अचेतसा अज्ञानेन ॥ 7-47-42 सूक्ष्मं लिङ्गं ज्ञानेन तरन्त्यतिकम्य गच्छन्ति ते सूक्ष्मज्ञानतराः ॥

श्रीः