अध्यायः 049

अथ दानधर्मपर्व ॥ 1 ॥

वैशम्पानेन जनमेजयंप्रति द्वैपायनादिभिर्युधिष्ठिरम्प्रत्युक्तमहादेवमहिमानुवादः ॥ 1 ॥

वैशम्पायन उवाच ।

महायोगी तु तं प्राह कृष्णद्वैपायनो मुनिः ।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥
पुरा पुत्र मया मेरौ तप्यता परमं तपः ।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥
लब्धवानीप्सितं काममहं वै पाण्डुनन्दन ।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥
कपिलश्च ततः प्राह साङ्ख्यर्षिर्देवसम्मतः । मया जन्मान्यनेकानि भक्त्या चाराधितो भवः ।
प्रीतश्च भगवाञ्ज्ञानं ददौ मम भवान्तकम् ॥
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा ।
आलम्बायन इत्येवं विश्रुतः करुणात्मकः ॥
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः ।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥
अजराणामदुःखानां शतवर्षसहस्रिणाम् ।
लब्धं पुत्र शतं शर्वात्पुरा पाण्डुनृपात्मज ॥
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः ।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति ॥
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ।
सोऽहमीशानमनघममोघं शरणं गतः ॥
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः ।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतांवरः ।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः ॥
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज ।
शुचिर्भूत्वा महादेवं गतोस्मि शरणं नृप ॥
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः ।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे ॥
पापं च ते न भविता अजेयश्च भविष्यसि ।
न ते प्रभविता मृत्युरजरश्च भविष्यसि ॥
आह मां भगवानेवं शिखण्डी शिवविग्रहः ।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम् । ब्राह्मणोऽहं भवानीति मया चाराधितो भवः ।
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत् ॥
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ॥
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा ।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः ॥
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा ।
प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः ।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते ॥
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम ।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥
एवमुक्त्वा महाक्रोधः प्राह शम्भुं पुनर्वचः ।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः ॥
दशवर्षसहस्राणि दशाष्टौ च शतानि च ।
नष्टपानीयपवने मृगैरन्यैश्च वर्जिते ॥
अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥
तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः ।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥
अजरश्चामरश्चैव भविता दुखवर्जितः ।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥
अनुग्रहानेवमेष करोति भगवान्विभुः ।
अयं धाता विधाता च सुखदुःखे च सर्वदा ॥
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा ।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥
वासुदेवस्तदोवाच पुनर्मतिमतांवरः ।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया ॥
ततोऽथ भगवानाह प्रीतो मा वै युधिष्ठिर ।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि ॥
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम् ।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ ॥
मणिमन्थेऽथ शैले वै पुरा सम्पूजितो मया ।
वर्षायुतासहस्राणां सहस्रं शतमेव च ॥
ततो मां भगवान्प्रीत इदं वचनमब्रवीत् ।
वरं वृणीष्व भद्रं ते यस्ते मनसि वर्तते ॥
ततः प्रणम्य शिरसा इदं वचनमब्रवम् ।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः ॥
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा ।
एवमस्त्विति भगवांस्तत्रोक्त्वान्तरधीयत ॥
जैगीषव्य उवाच ।
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा ।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥
गर्ग उवाच ।
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम् ।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥
तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् ।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥
पराशर उवाच ।
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप ।
महातपा महातेजा महायोगी महायशाः ॥
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः ।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात् ॥
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ।
मयि सम्भावना यास्याः फलात्कृष्णो भविष्यति ॥
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा ॥
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ।
भविष्यति महेन्द्रस्य दयितः स महामुनिः ॥
अजरश्चामरश्चैव पराशर सुतस्तव । एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥
माण्डव्य उवाच ।
अचोरश्चोरशङ्कायां शूले भिन्नो ह्यहं तदा ॥
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर ।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ॥
रुजा शूलकृता चैव न ते विप्र भविष्यति ।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यति ॥
पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव ।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि ।
स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥
एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः । महेश्वरो महाराजः कृत्तिवासा महाद्युतिः ।
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥
गालव उवाच ।
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ।
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥
कौशिकेनाभ्यनुज्ञातं पुत्रं देवविभूषितम् ।
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ।
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ।
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर । अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून् ॥
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव ॥
दिष्ट्या दृष्टोसि मे पुत्र कृतविद्य इहागत ॥
वैशम्पायन उवाच ।
एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः ।
प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतांवरः ।
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः ॥
उपमन्युर्मयि प्राह तपन्निव दिवाकरः ।
अशुभैः पापकर्माणो ये नराः कलुषीकृताः ॥
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः ।
ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः ॥
सर्वथा वर्तमानोपि यो भक्तः परमेश्वरे ।
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम् ॥
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह । त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः ।
विधूय सर्वपापानि देवैः सह वसन्ति ते ॥
भित्त्वाभित्त्वा च कूलानि हुत्वा सर्वमिदं जगत् ।
जयेद्देवं विरूपाक्षं न स पापेन लिप्यते ॥
सर्वलक्षणहीनोपि युक्तो वा सर्वपातकैः । सर्वं तुदति तत्पापं भावयञ्शिवमात्मना
कीटपक्षिपतङ्गानां तिरश्चामपि केशव ।
महादेवप्रपन्नानां न भयं विद्यते क्वचित् ॥
एवमेव महादेवं भक्ता ये मानवा भुवि । न ते संसारवशगा इति मे निश्चिता मतिः ।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् ॥
विष्णुरुवाच ।
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे ।
धाताऽर्यमा शुक्रबृहस्पती च वेदा यज्ञा दक्षिणा वेदवाहाः ।
सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा संयमा ये च केचित् ॥
स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मं चाग्र्यं कालचक्रं बलं च ।
यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त ॥
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः ।
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥
आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः ।
शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥
चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ते देवताश्चाजमीढ ।
सुपर्णगन्धर्वपिशाचदानवा यक्षास्तथा चारणपन्नगाश्च ॥
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं दुःखं सुखं दुःखमनन्तरं च ।
साङ्ख्यं योगं तत्पराणां परं च शर्वाञ्जातं विद्धि य*********** ॥
तत्सम्भूता भूतकृतो वरेण्या सर्वे देवा भुवनस्यास्य गोपाः ।
आविश्येमां धरणीं येऽभ्यरक्षन् पुरातनीं तस्य देवस्य सृष्टिम् ॥
विचिन्वन्तस्तपसा तत्स्थवीयः किञ्चित्तत्त्वं प्राणहेतोर्नतोस्मि ।
ददातु वेदः स वरानिहेष्टा- नभिष्टुतोः नः प्रभुरव्ययः सदा ॥
इमं स्तवं सन्नियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत ।
अभग्नयोगो नियतो मासमेकं सम्प्राप्नुयादश्वमेधे फलं यत् ॥
वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयात्तु जयेन्नृपः पार्थ महीं च कृत्स्नाम् ।
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥
स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः ।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः ॥
यावन्त्यस्य शरीरेषु रोमकूपाणि भारतः ।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशोऽध्यायः ॥ 49 ॥

7-49-1 पठस्व स्तवमिति शेषः । हे पुत्र युधिष्ठिर ॥ 7-49-5 आलम्बायन आलम्बगोत्रः । चतुःशीर्ष इति ट.थ.पाठः ॥ 7-49-7 हे पुत्र शतं पुत्राणामिति शेषः ॥ 7-49-8 विवादे वेदविपरीतवादे । अग्निसहितैर्मुनिभिरुक्त इति सम्बन्धः ॥ 7-49-9 तेन वेदविरोधजेन ॥ 7-49-12 पितृतुल्या विप्रा ज्येष्ठो भ्राता पितुः सम इतिस्मृतेर्ज्येष्ठा भ्रातरस्तेषां वधेन । स तु विप्रवधेनेति ट.थ पाठः ॥ 7-49-15 शिखण्डी कपर्दी । शिवविग्रहः कल्याणशरीरः ॥ 7-49-18 प्रभुः प्रार्थितः सन्निति शेषः ॥ 7-49-21 उच्चारिते अन्यथेति शेषः ॥ 7-49-22 पापं वितथाभिनिवेशं त्यक्त्वा समीक्षस्व विचारय । अयज्ञवाहिनं न यज्ञं वहति तं पापमवाक्षरपाठजमपराधम् ॥ 7-49-23 निधने अन्दे सद्य एवेत्यर्थः ॥ 7-49-27 साम्यभवैषम्यम् । युवयोर्गृत्समदशतक्रत्वोः ॥ 7-49-31 अर्थः सर्वस्मात्प्रियस्ततोऽपि प्रियोऽन्तरात्मा तत्तुल्यः सर्वेषां भविष्यसीत्यर्थः ॥ 7-49-33 पूरा पूर्वावतारे ॥ 7-49-42 या तव मयि सम्भावना एतस्मात्फलमहं प्राप्स्ये इति अस्याः फलात् पुण्यात्तव कृष्णोनाम पुत्रो भविष्यति ॥ 7-49-49 पादाच्चतुर्थात् । तपः शौचं दया सत्यमिति चत्वारो धर्मस्य पादास्तेषां चतुर्थात्सत्यादेव तवात्मा शरीरम् ॥ 7-49-52 पितरं द्रक्ष्ये इति बुद्ध्या गृहमागतः । दुःखिता वैधव्यदुःखेन ॥ 7-49-55 क्षये गृहे । विश प्रविश ॥ 7-49-56 शरणाकुरून् वाय्वाघातेन वा स्वयं वा पक्वतया फलानामधः पतनेन विशरणं शरणा तत्प्रधानाः कुरवोऽन्नानि शरणाकुरवस्तान् । शॄ विशरणेऽस्माद्भावे ल्युः ॥ 7-49-57 सास्रत्वादाविले ईक्षणे यस्य ॥ 7-49-60 ईश्वरो विष्णुः ॥ 7-49-67 कूलानि गृहतटाकादीनि ॥ 7-49-68 आत्मना चित्तेन ॥ 7-49-71 आदित्यचन्द्रावित्यादिसर्वं सर्वाज्जातं विद्धीति सप्तमस्थेनान्वयः ॥ 7-49-72 उपनिषत् । प्राधान्यात्पृथक्कीर्तनम् । वेदवाहा वेदपाठकाः ॥ 7-49-75 वाचाविरुद्धाः । वाङ्नियमनशीलाः । निर्माणं अनेकधाभवनं योगेनानेकशरीरधारणं तत्र रताः ॥ 7-49-77 चिन्त्यद्योताः सङ्कल्पितमात्रं वस्तु येषां सद्यः पुरतः प्रकाशते तादृशाः ॥

श्रीः