अध्यायः 051

अथ दानधर्मपर्व ॥ 1 ॥

उत्तरदिगभिमानिदेवतया परदारत्वशङ्कया स्वभोगमनङ्गीकुर्वाणमष्टावक्रम्प्रति जरतीरूपत्यागेन कन्यारूपस्वीकरणपूर्वकं स्वपाणिग्रहणप्रार्थना ॥ 1 ॥

भीष्म उवाच ।

अथ सा स्त्री तमुवाच विप्रमेवं भवत्विति ।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥
अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना ।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत ॥
शनैश्चाच्छादितस्तत्र स्नानशालामुपागमत् ।
भद्रासनं ततश्चित्रमृषिरन्वगमन्नवम् ॥
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा । स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ।
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥
जलेन सुसुखोष्णेन तस्या हस्तसुखेन च ।
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥
तत उत्थाय स मुनिस्तदा परमविस्मितः ।
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥
`सन्ध्योपासनमित्येव सर्वपापहरं न मे ।' तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत् ॥
अथोपास्य सहस्रांशुं किं कोरमीत्युवाच ताम् ।
सा चामृतरसप्रख्यं क्रषेरन्नमुपाहरत् ॥
तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः ।
व्यगमच्चाप्यहःशेष ततः सन्ध्याऽऽगमत्पुनः ॥
अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत् ।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥
[पृथक्र्वैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा । तथाऽर्थरात्रे सा स्त्री तु शयनं तदुपागमत् ॥]
अष्टावक्र उवाच ।
न भद्रे परदारेषु मनो मे सम्प्रसज्जति ।
उत्तिष्ठ भद्रे भद्रं ते स्वापं वै विरमस्व च ॥
भीष्म उवाच ।
सा तदा तेन विप्रेण तथा धृत्या निवर्तिता ।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते ॥
अष्टावक्र उवाच ।
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः ।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥
स्त्र्युवाच ।
बाधने मैथुनं विप्र मम भक्तिं च पश्य वै ।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥
अष्टावक्र उवाच ।
हरन्ति दोषजातानि नरमिन्द्रियकिङ्करम् ।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज ॥
स्त्र्युवाच ।
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि ।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥
यदि वा दोषजातं त्वं परदारेषु पश्यसि ।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् । स्वतन्त्रां मां विजानीहि यो धर्मः सोस्तु वै मयि ।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम् ॥
अष्टावक्र उवाच ।
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै ।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ।
`न वृद्धामक्षतां मन्ये च चेच्छा त्वयि मेऽनघे'
स्त्र्युवाच ।
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः ।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम ॥
अष्टावक्र उवाच ।
यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम ।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥
आश्चर्यं परमं हीदं किन्नु श्रेयो हि मे भवेत् ।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः ।
कन्यारूपमिहाद्यैवं किमिवात्रोत्तरं भवेत् ॥
यथा मे परमा शक्तिर्न व्युत्थाने कथंचन ।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकपञ्चाशोऽध्यायः ॥ 51 ॥

7-51-2 अभ्यमृक्षति अभ्यञ्जितवती ॥ 7-51-3 शनैश्चोत्सादित इति ड.झ. पाठः । तत्र उत्सादितः चालितः ॥ 7-51-5 नाजानात् न ज्ञातवान् ॥ 7-51-9 न प्रभूतं चकार पूर्णमिति नाभ्यवददित्यर्थः ॥ 7-51-12 स्वयं वै विरमस्व चेति झ.पाठः ॥ 7-51-13 स्वातन्त्र्यान्मम । न तव पारदार्यदोषोऽस्तीत्यर्थः ॥ धर्मच्छलं परपुरुषप्रलोभनम् । नाधर्मफलमस्ति त इति ध. पाठः ॥ 7-51-14 नास्तीति अप्रदत्ता त्वां न कामये इत्यर्थः ॥ 7-51-18 स्पर्शयामि ददामि ॥ 7-51-19 स्वतन्त्रामात्मप्रदानं इति शेषः । यो धर्मः पाणिग्रहणादिसंस्कारो मयि मन्निमित्तं सोस्तु ॥ 7-51-22 विजहि मा मा नाशय ॥ 7-51-23 तुभ्यं तव । सङ्गमश्रद्धेत्युभयत्र शेषः । किं तस्य मया कन्यार्थिना प्रार्तितस्य तत्कर्तृका इयं जिज्ञासा मम परीक्षा किमयं साधुरसाधुर्वेति ॥ 7-51-24 विघ्रत्वमेवाह आश्चर्यमिति । पूर्वमतिजीर्णत्वेन दृष्टा पुनः कन्येव दृश्यत इति मायारूपमाश्चर्यम् ॥ 7-51-25 अत्रास्मिन्विषये किमुत्तरं श्रेष्ठतरम् । पर्वपरिगृहीतस्यात्यागः उत एतस्याः स्वीकारः कर्तव्य इति भावः ॥ 7-51-26 न व्युत्थास्येऽस्याः स्वीकारं न करिष्ये । व्युत्थानं धर्मातिक्रमो मम न रोचते किन्तु सत्येनासादयाम्बहं दारानिति शेषः । धृत्यैनां साधयाम्यहमिति ध.पाठः ॥

श्रीः