अध्यायः 052

अथ दानधर्मपर्व ॥ 1 ॥

उत्तरदिगभिमानिदेवतया स्वीयप्रार्थनायाः स्त्रीचापलप्रदर्शनाद्यर्थकत्वकथनपूर्वकमष्टावक्रस्य धर्मोपदेशेन स्वगृहम्प्रति प्रेषणम् ॥ 1 ॥ अष्टावक्रेण वदान्यकन्यापाणिग्रहणेन स्वाश्रमे सुखनिवासः ॥ 2 ॥

युधिष्ठिर उवाच ।

न बिभेति कथं सा स्त्री शापाच्च परमद्युते ।
कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥
भीष्म उवाच ।
अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् ।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥
स्त्र्युवाच ।
द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम ।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥
जिज्ञासेयं प्रयुक्ता मे स्थैर्यं कर्तुं तवानघ ।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते ।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥
`अविश्वासो न व्यसनी नातिसक्तोऽप्रवासकः । विद्वान्सुशीलः पुरुषः सदारः सुखमश्नुते ॥'
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः ॥
सत्वं येन च कार्येण सम्प्राप्तो भगवानिह ।
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभः ॥
प्रेषितश्चोपदेशाय तच्च सर्वं श्रुतं त्वया ॥
`नितान्तं स्त्री भोगपरा प्रियवादाप्रवासनात् ।
रक्ष्यते चाकुचेलाद्यैरप्रसङ्गानुवर्तनैः ॥
अपर्वस्वनिषिद्धासु रात्रिष्वप्यनृतौ व्रजेत् ।
रात्रौ च नातिनियमो न वै ह्यनियमो भवेत् ॥' ॥
क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति ।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् ।
अनतिक्रमणीया साकृत्स्नैर्लोकैस्त्रिभिः सदा ॥
गच्छस्व कृतकृत्यस्त्वं किं वाऽन्यच्छ्रोतुमिच्छसि ।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ ।
तस्य सम्माननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥
भीष्म उवाच ।
श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः ।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥
गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च ।
अभ्यागच्छच्च तं विप्रं न्यायतः कुरुनन्दन ॥
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् ।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥
भवताऽहमनुज्ञातः प्रास्थितो गन्धमादनम् ।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत् ॥
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः ।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो ॥
तमुवाच तदा विप्रः सुतां प्रतिगृहाण मे ।
नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥
भीष्म उवाच ।
अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो ।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् ।
उवास मुदितस्तत्र श्वाश्रमे विगतज्वरः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणिः द्विपञ्चाशोऽध्यायः ॥ 52 ॥

7-52-2 विकुरुषेऽन्यथान्यथा करोषि । ब्राह्मणकाम्यया ब्राह्मणमानलिप्सया ॥ 7-52-3 द्यावापृथिव्योः दिवि पृथिव्यां च यत्र स्थीयते तत्र एषा काम्या स्त्रीपुंसयोः अन्योन्याभिलाषरूपा इच्छास्तीत्यर्थः ॥ 7-52-4 मे मया ॥ 7-52-8 तत्कार्यं ज्ञापयामीति शेषः । 7-52-13 सा काम्याऽनतिक्रमणीया ॥ 7-52-15 ऋषिणा वदान्येन ॥

श्रीः