अध्यायः 057

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति सतीनामसतनां गुणदोषप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

`मार्कण्डेय उवाच ।

श्रुता भार्याश्च पुत्राश्च विस्तरेण महामुने ।
आश्रमस्थाः कथं नार्यो न दुष्यन्तीति ब्रूहि भो ॥
नारद उवाच ।
आश्रमस्थासु नारीषु बान्धवत्वं प्रणश्यति ।
नष्टवंश्या भवन्त्येता बन्धूनामथ भर्तृणाम् ॥
परदारा मुक्तदोषास्ता नार्योऽऽश्रमसंस्थिताः ।
स्वयमीशाः स्वदेहानां काम्यास्तद्गतमानसाः ॥
एवं नार्यो न दुष्यन्ति नराणां तत्प्रसूतिषु ।
धर्मपत्न्यो भवन्त्येताः सपुत्रा हव्यकव्यदाः ॥
मार्कण्डेय उवाच ।
परस्य भार्या या पूर्वं मृते भर्तरि या पुनः ।
अन्यं भजति भर्तारं ससुता असुता कथम् ॥
नारद उवाच ।
असुता वा प्रसूता वा गृहस्थानां परस्त्रियः ।
परामृष्टेति ता वर्ज्या धर्माचारेषु दूषिताः ॥
न चासां हव्यकव्यानि प्रतिगृह्णन्ति देवताः ।
यस्तासु जनयेत्पुत्रान्न तैः पुत्रमवाप्नुयात् ॥
मार्कण्डेय उवाच ।
परक्षेत्रेषु यो बीजं चापलाद्विसृजेन्नरः ।
कथं पुत्रफलं तस्य भवेत्तदृषिसत्तम ॥
नारद उवाच ।
अस्वामिके परक्षेत्रे यो नरो बीजमुत्सृजेत् ।
स्वयंवृतोऽऽश्रमस्थायां तद्बीजं न विनश्यति ॥
परक्षेत्रेषु यो बीजं नरो दर्पात्समुत्सृजेत् ।
क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलम् ॥
नातः परमधर्म्यं चाप्ययशस्यं तथोत्तरम् ।
गर्भादीनां च बहुभिस्ताश्च त्याज्याः समेष्वपि ॥
मार्कण्डेय उवाच ।
अथ ये परदारेषु पुत्रा जायन्ति नारद ।
कस्य ते बन्धुदायादा भवन्ति परमद्युते ॥
नारद उवाच ।
परदारेषु जायेते द्वौ पुत्रौ कुण्डगोलकौ ।
जीवत्यथ पतौ कुण्डो मृते भर्तरि गोलकः ॥
ते च जाताः परक्षेत्रे देहिनां प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्त्यथ दातृणाम् ॥
पितुहि नरकायैते गोलकस्तु विशेषतः ।
चण्डालतुल्यौ तज्जौ हि परत्रेह च नश्यतः ॥
मार्कण्डेय उवाच ।
कस्य ते गर्हिताः पुत्राः पितॄणां हव्यकव्यदाः ।
यस्य क्षेत्रे प्रसूयन्ते यो वा ताञ्जनयेत्सुतान् ॥
नारद उवाच ।
क्षेत्रिकश्चैव बीजी च द्वावेतौ निरयं गतौ ।
न रक्षति च यो दारान्परदाराश्च गच्छति ॥
गर्हितास्ते नरा नित्यं धर्माचारबहिष्कृताः ।
कुण्डो भोक्ता च भोगी च कुत्सिताः पितृदैवतैः ॥
मार्कण्डेय उवाच ।
तथैते गर्हिताः पुत्रा हव्यकव्यानि नारद ।
कस्य नित्यं प्रयच्छन्ति धर्मो वा तेषु किं फलं ॥
नारद उवाच ।
यातुधानाः पिशाचाश्च प्रतिगृह्णन्ति तैर्हुतम् ।
हव्यं कव्यं च तैर्दत्तं ये च भूता निशाचराः ॥
मार्कण्डेय उवाच ।
अथ ते राक्षसाः प्रीताः किं प्रयच्छन्ति दातृणाम् ।
किं वा धर्मफलं तेषां भवेत्तदृषिसत्तम ॥
नारद उवाच ।
न दत्तं नश्यते किञ्चित्सर्वभूतेषु दातृणाम् ।
प्रेत्य चेह च तां पुष्टिमुपाश्नन्ति प्रदायिनः ॥
मार्कण्डेय उवाच ।
अथ गोलककुण्डाभ्यां सन्ततिर्या भविष्यति ।
तयोर्ये बान्धवाः केचित्प्रदास्यन्ति कथं नु तं ॥
नारद उवाच ।
साध्वीजाताः सुतास्तेषां तां वृत्तिमनुतिष्ठताम् ।
प्रीणन्ति पितृदैवत्यं हव्यकव्यसमाहिताः ॥
एवं गोलककुण्डाभ्यां ये च वर्णापदेशिनः । हव्यं कव्यं च शुद्धानां प्रतिगृह्णन्ति देवताः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

7-57-3 परमं मुक्तदोषास्ता या नार्योऽऽश्रमसंस्थिता इति ध. पाठः ॥

श्रीः