अध्यायः 060

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरं प्रति दाने पात्राणां लक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् ।
ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाऽप्यलिङ्गिनम् ॥
भीष्म उवाच ।
स्ववृत्तिमभिपन्नाय लिङ्गिने चेतराय च ।
देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥
युधिष्ठिर उवाच ।
श्रद्धया परयाऽपूतो यः प्रयच्छेद्द्विजातये ।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥
भीष्म उवाच ।
श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।
पूतो भवति सर्वत्र किमुत त्वं महाद्युते ॥
युधिष्ठिर उवाच ।
न ब्राह्मणं परिक्षेत दैवेषु सततं नरः ।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥
भीष्म उवाच ।
न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति ।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः ॥
ब्राह्मणान्भरतश्रेष्ठ सततं ब्रह्मवादिनः । मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान् ।
`ब्राह्मणाः पात्रभूताश्च शुद्धा नैवं पितृष्विह ॥
युधिष्ठिर उवाच ।
अपर्वोऽप्यथवा विद्वान्सम्बन्धी वा यथा भवेत् ।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥
भीष्म उवाच ।
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यनृशंस्यवान् ।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ये त्रयः ॥
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम् ।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥
पृथिव्युवाच ।
यथा महार्णवे क्षिप्तः क्षिप्रं नेष्टुर्विनश्यति ।
तथा दुश्चरितं सर्वं त्रयीनित्ये निमज्जति ॥
काश्यप उवाच ।
सर्वे च वेदाः सह षङ्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म ।
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥
अग्निरुवाच ।
अधीयानः पण्डितम्मन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
ब्रह्मन्स तेन लभते ब्रह्मवध्यां लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥
मार्कण्डेय उवाच ।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
नाभिजानामि यज्ञं तु सत्यस्यार्धमवाप्नुयात् ॥
भीष्म उवाच ।
इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः ।
पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥
युधिष्ठिर उवाच ।
यदि ते ब्राह्मणा लोके व्रतिनो भुञ्जते हविः ।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥
भीष्म उवाच ।
आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः ।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥
युधिष्ठिर उवाच ।
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः ।
किं निमित्तं भवेदत्र तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अहिंसा सत्यमकोध आनृशंस्यं दमस्तथा ।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।
अनाचरन्तस्तद्धर्म सङ्करेऽभिरता प्रभो ॥
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः ।
दशवर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः ॥
धनेन पुल्कसानां च तथैवान्तेवसायिनाम् ।
कृतं कर्माकृतं वाऽपि रागमोहेन जल्पताम् ॥
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे ।
न ददन्तीह राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥
युधिष्ठिर उवाच ।
किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम् ।
किञ्च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥
युधिष्ठिर उवाच ।
कस्मिन्काले चरेद्धर्म कस्मिन्कालेऽर्थमाचरेत् ।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् ।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥
ब्राह्मणांश्चैव मन्येत गुरूंश्चाप्यभिपूजयेत् ।
सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥
अधिकारे यदनृतं यच्च राजसु पैशुनम् ।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च ।
भ्रूणहत्यासमं चैतदुभयं ये निषेधते ॥
नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥
युधिष्ठिर उवाच ।
कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः ।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम् ।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः ।
`तृप्ते तृप्ताः सर्वदेवाः पितरो मुनयोपि च ॥'
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥
तारयेत कुलं सर्वमेकोपि ह द्विजोत्तमः ।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत् ॥
निशाम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम् ।
दूरादानाय्य सत्कृत्य सर्वतश्चापि पूजयेत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

7-60-1 ब्राह्मणं ब्रह्मविदम् । लिङ्गिनं ब्रह्मचारिणं संन्यासिनं च दण्डादिलिङ्गवन्तम् ॥ 7-60-3 अपूतोपि परया श्रद्धयां यदि प्रयच्छति तर्हि तस्य दातुरपूतत्वप्रयुक्तः को दोषः स्यात्तं वद ॥ 7-60-4 श्रद्धैवास्य पूतत्वं करोतीत्यर्थः ॥ 7-60-5 श्रद्धैव पूतत्वकर्त्री चेत् कव्ये पात्रपरीक्षा न विधेया स्यादित्याशयः ॥ 7-60-6 हव्यं दैवं कर्म सिध्यति फलदं भवति नतु ब्राह्मणगुणादिति भावः । इज्यन्ते देवा इति शेषः । दैवं कर्म देवानुग्रहादेव पूर्णं भवति । श्रद्धामात्रप्रियत्वाद्देवानामिति भावः ॥ 7-60-7 पित्र्यं तु कर्म ब्राह्मणानुग्रहादेव पूर्णं भवतीति तत्रानुग्रहकर्तरि तपोबलमावश्यकमित्याशयेनाह ब्राह्मणानिति ॥ 7-60-9 त्रयः अपूर्वसम्बन्धितपस्विनः कुलीनत्वादिगुणसप्तकयुक्ता एव पात्रत्वं भजन्ते परिशेषात् ॥ 7-60-10 तेजसां तेजस्विनां सर्वज्ञानामिति यावत् ॥ 7-60-11 नेष्टुः पांसुपिण्डः लोष्ठो विनश्यतीति ध. पाठः ॥ 7-60-15 भार्गवः मार्कण्डेयः ॥ 7-60-16 व्रतिनः ब्रह्मचारिणः । तदीयव्रतनाशात्स्वीयं श्राद्धं दुष्यति नवेति प्रश्नः ॥ 7-60-17 आदिष्टं द्वादशवर्षाणि ब्रह्मचर्यं चरेति गुर्वादेशस्तद्वन्तः । भोक्तुरेव व्रतं लुप्यते । नतु दाता प्रत्यवैति ॥ 7-60-18 अन्तो निष्ठा । अनेकान्तं अनेकफलाकारमित्यर्थः । पात्रगुणानामनन्तत्वात्के गुणा नियमेन पात्रताया निमित्तं तानेव संक्षेपेण ब्रूहीति प्रश्नार्थः ॥ 7-60-22 मेदानां पुल्कसां चेति झ. पाठः । तत्र मेदादीनां स विष्ठां भुङ्क्ते इति सम्बन्धः । मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः । पुल्कसा ये ब्राह्मणादीनपि स्वभावादेव हिंसन्ति । अन्तेवसायिनश्चर्मकारादयः । कृतमकृतं वा परकीयं पापं कर्म ॥ 7-60-24 परं श्रेष्ठम् ॥ 7-60-27 काल्यं पूर्वाह्णे ॥ 7-60-39 न शोचति प्रतिपादयन् ॥ 7-60-40 द्विजोत्तमः निर्दोषः । एते पूर्वोक्ता गुणाश्च तत्र यदि लभ्यन्ते तर्हि तारयेतेति किमु ॥

श्रीः