अध्यायः 063

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति हिंसाभावेपि ब्रह्महत्याप्राप्तिप्रतिपादकव्यासवचनानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत ।
अहिंसयित्वाऽपि कथं ब्रह्महत्या विधीयते ॥
भीष्म उवाच ।
व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् ।
तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने ।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥
इति पृष्टो मया राजन्पराशरशरीरजः ।
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् ।
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥
गोकुलस्य तृषार्तस्य जलार्थमभिधावतः ।
उत्पादयति यो विघ्नं तं विद्या** ह्मघातिनम् ॥
यः प्रवृत्तां श्रुतिं सम्यकू शास्त्र वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥
आत्मजां रूपसम्पन्नां महतीं सदृशे वरे ।
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मधातिनम् ॥
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु ।
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥
चक्षुषा विप्रहीणस्य पङ्गुलस्य जडस्य वा ।
हरेत यो वै सर्वस्वं तं विद्या *** घातिनम् ॥
आश्रमे वा वने वाऽपि ग्रामे वा यदि वा पुरे ।
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

श्रीः