अध्यायः 069

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यप्रतिपादकपृथ्वीवासुदेवसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।

ब्राह्मणानेव सततं भृशं सम्परिपूजयेत् ।
एते हि सोमराजान ईश्वरः सुखदुःखयोः ॥
एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः । सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः ।
ततो राष्ट्राय शान्तिर्हि भूतानामिव वासवात् ॥
ज्ञानवान्ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः ।
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् ।
बोजयीत गृहे राजन्न तस्मात्परमस्ति वै ॥
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः ।
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥
आदित्यश्चन्द्रमा विष्णुः सङ्करोऽग्निः प्रजापतिः ।
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते ॥
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ।
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ।
तथैव देवता राजन्नात्र कार्या विचारणा ॥
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ।
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम् ॥
येनयेनैव प्रीयन्ते पितरो देवतास्तथा ॥
तेनतेनैव प्रीयन्ते पितरो देवतास्तथा ॥
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ।
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ।
आगतानागते चोमे ब्राह्मणो द्विपदांवरः ॥
ब्राह्मणो द्विपदां श्रेष्ठः स्वधर्मं चैव वेद यः । ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् ।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥
यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः ।
कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥
क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥
भृगवस्तालजङ्घांश्च नीपानाङ्गिरसोऽजयन् ।
भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः ।
प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥
यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा ।
सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥
वासुदेव उवाच ।
मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे ।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥
पृथिव्युवाच ।
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् । ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ।
भूतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ॥
महारथश्च राजन्य एष्टव्यः शत्रुतापनः ।
इति मां नारदः प्राह सततं सर्वभूतये ॥
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम् ।
अपरेषां परेषां च परेभ्यश्चैव ये परे ॥
ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते ।
अथ यो ब्राह्मणान्क्रुष्टः पराभवति सोचिरात् ॥
यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति ।
तथा दुश्चरितं विप्रे पराभावाय कल्पते ॥
पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् ।
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः ॥
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ ।
शतक्रतुः समभवत्पश्य माधव यादृशम् ॥
इच्छन्कीर्तिं च भूतिं च लोकांश्च मधुसूदन ।
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥
भीष्म उवाच ।
इत्येतद्वचनं श्रुत्वा मेदिन्या मधूसूदनः ।
साधुसाध्विति कौरव्य मेदिनीं प्रत्यपूजयत् ॥
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् ।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनसप्ततितमोऽध्यायः ॥ 69 ॥

7-69-1 सोमो राजा येषां ते सोमराजानः ॥ 7-69-2 प्रश्नपूर्वकं यत्तदिष्टं दीयते तत्किमिच्छकम् ॥ 7-69-6 चन्द्रमा वायुरापो भूरम्बरं दिशः इति झ.पाठः ॥ 7-69-9 तेपि दातारोपि । तत् प्रदेयं द्रव्यम् ॥ 7-69-11 तद्यज्ञादिकम् । भूतमुत्पन्नम् । ब्राह्मणो वेद तद्भूतमिति थ.ध. पाठः ॥ 7-69-17 कुं पृथिवीं ब्राह्मणाय प्रक्षिप्य दत्त्वा पारगामिनं परलोकहितं कर्म आरभेदाचरेत् । भानू दीप्तिं कुर्वन्नुभयलोके इति शेषः । पुरगामिनमाहरन्निति थ.पाठः ॥ 7-69-23 अपरे ब्राह्मणं सर्वभूतये इच्छेदित्याहुरिति विपरिणामेनानषङ्गः ॥ 7-69-24 क्रुष्टः क्रोशति । कर्तरि क्तः ॥

श्रीः