अध्यायः 071
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति
ब्राह्मणमाहात्म्यप्रतिपादकशक्रशम्बरसंवादानुवादः ॥ 1 ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शक्रशम्बरसंवादं तन्निवोध युधिष्ठिर ॥
शक्रो ह्यज्ञातरूपेण जटी भूत्वा सुवारुणः ।
विप्ररूपं समास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥
केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि ।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः ॥
शम्बर उवाच ।
नासूयामि सदा विप्रान्ब्राह्ममेव च मे मतम् ।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् ।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम् ॥
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥
ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् ।
समासिञ्चति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥
यच्च भाषन्ति संतुष्टास्तच्च गृह्णाम्यमायया ।
समाधिमात्मनो नित्यमनुलोममचिन्तयम् ॥
सोहं वागग्रमृष्टानां रसानामवलेहकः ।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् ।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा ।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत ॥
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् ।
पर्यपृच्छत्कथममी सिद्धा इति निशाकरम् ॥
सोम उवाच ।
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा ।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः ॥
प्रवसन्वाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन् ।
निर्मन्युरपि निर्वाणो यतिः स्यात्समदर्शनः ॥
अपि च ज्ञानसम्पन्नः सर्वान्वेदान्पितुर्गृहे ।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः ॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव ।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥
अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥
`विद्याविदो लोकविदस्तपोदमसमन्विताः ।
नित्यपूज्याश्च वन्द्याश्च द्विजा लोकद्वयेच्छुभिः ॥
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् ।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥
भीष्म उवाच ।
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् ।
द्विजान्संम्पूजयामास महेन्द्रत्वमवाप च ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥
7-71-7 मां मयि । मधु अमृततुल्यां विद्यां समासिच्चन्ति
क्षौद्रं मधुपटलम् मक्षिका मध्विवेत्यावृत्त्या योज्यम् ॥ 7-71-8 समाधिं
ब्राह्मणेषु निष्ठाम् ॥ 7-71-9 वागग्रे जिह्वाग्रे मृष्टं विद्यामृतं येषां
ब्राह्मणानाम् । रसानामुक्तिसुधानाम् ॥ 7-71-14 ब्राह्मर्वेदार्थाः दुर्वसतीः
गुरुकुलवासक्लेशात् । अपि अपिवा । सति वैराग्ये यतिः स्यात् ॥ 7-71-15 पितुर्गृहे
वेदाध्ययनं निन्दति अपीति ॥ 7-71-16 अप्रवासिनं वेदार्थं ग्रामान्तरे वा
समकुर्वाणम् ॥
श्रीः