अध्यायः 073

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीस्वभावप्रतिपादकनारदपञ्चचूडासंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम । स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः?
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडाया ॥
लोकाननुचरन्सर्वान्देवर्षिर्नारदः पुरा ।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्चाप्सरसं मुनिः ।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे ॥
एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम् ।
विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥
नारद उवाच ।
न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन ।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा ।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः ।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे ॥
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे ।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी ।
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ॥
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै ।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् ।
पतीनन्तरमासाद्य नालं नार्यः परीक्षितुम् ॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो ।
पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥
स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥
नासां कश्चिदगम्योस्ति नासां वयसि निश्चयः ॥
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन ।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥
यौवने वर्तमानानां मृष्टाभरणवाससाम् ।
नारीणां खैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः ।
अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ॥
पङ्गुष्वथ च देवर्षे ये चान्ये कुत्सिता नराः ।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥
यदि पुंसां गतिर्ब्रह्मन्कथंचिन्नोपपद्यते ।
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥
`दुष्टाचाराः पापरता असत्या मायया वृताः ।
अदृष्टबुद्धिबहुलाः प्रायेणेत्यवगम्यताम् ॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च ।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा ।
प्राज्ञस्य पुरुषस्येह यथाभावास्तथा स्त्रियः ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् ।
दृष्ट्वैव पुरुषं ह्यन्यं योनिः प्रक्लिद्यते स्त्रियाः ॥
कामानामपि दातारं कर्तारं मानसान्त्वयोः ।
रक्षितारं न मृष्यन्ति स्वभर्तारमसत्स्त्रियः ॥
न कामभोगान्विपुलान्नालङ्कारार्थसञ्चयान् ।
तथैव बहुमन्वन्ते यथा रत्यामनुग्रहम् ॥
अन्तकः शमनो मृत्युः पातालं बडबामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा ।
यतः पुमांसः प्रमदाश्च निर्मिता- स्ततश्च दोषाः प्रमदासु नारद ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

7-73-1 लघुचित्ताः वायुवत् चलचित्ताः ॥ 7-73-3 ब्राह्मीं ब्रह्मलोकस्थाम् ॥ 7-73-5 विषये वक्तुं योग्यत्वे ॥ 7-73-8 नियोक्तुं प्रश्न ईदृशे इति ट.थ.ध.पाठः ॥ 7-73-10 कृतमतिः वक्ष्यामीति कृतनिश्चयाऽभवत् ॥ 7-73-22 गतिः प्राप्तिः । अन्योन्यं कृत्रिमलिङ्गधारिण्यो भूत्वा मैथुनार्थं प्रवर्तन्ते । एतच्च लोकप्रसिद्धम् । भर्तृषु दूरस्थेषु इति शेषः । नहि तिष्ठन्ति धैर्ये इति शेषः ॥ 7-73-24 भयात्परिभवस्य चेति थ.ध. पाठः ॥ 7-73-26 काष्ठानां काष्ठैः ॥

श्रीः