अध्यायः 003

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ब्राह्मण्यस्य क्षत्रियादिदौर्लभ्ये दृष्टान्ततया मतङ्गोपाख्यानकथनारम्भः ॥ 1 ॥ तत्रेन्द्रमतङ्गसंवादानुवादारम्भः ॥ 2 ॥

युधिष्ठिर उवाच ।

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः ॥
भवान्विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा । `सर्वेषामेव जातानां सतामेतन्न संशयः ॥'
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतांवर ।
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योस्ति नराधिप ॥
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि ॥
`ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप ।' तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
ब्राह्मण्यमथ चेदिच्छेत्कथं शक्यं पितामह ॥
भीष्म उवाच ।
ब्राह्मण्यमतिदुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः ।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥
बह्विस्तु संसरन्योनीर्जायमानः पुनःपनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत् ।
मतङ्गो नाम नाम्नाऽऽसीत्सर्वैः समुदितो गुणैः ॥
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परंतप ।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना ॥
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।
निरविध्यत्प्रतोदेन नासिकायां पुनःपुनः ॥
तं दृश्य नसि निर्भिन्नं गर्दभी पुत्रगृद्धिनी ।
उवाच मा शुचः पुत्र चण्डालस्त्वाभिविध्यति ॥
ब्राह्मणो दारुणो नास्ति मैत्रो ब्राह्मण उच्यते ।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।
स्वयोनिं मानयत्येष भावो भावं नियच्छति ॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता । केन मां वेत्सि चण्डालं ब्राह्मण्यं केन मेऽनशत् ।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥
गर्दभ्युवाच ।
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं पुनः ।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥
यस्त्वं यज्ञार्थसंसिद्धौ नियुक्तो गुरुकर्मणि ।
कस्मात्प्रतिनिवृत्तोसि कच्चिन्न कुशलं तव ॥
मतङ्ग उवाच ।
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत् ।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥
ब्राह्मण्यां वृषलाञ्जातं पितर्वेदयते हि माम् ।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।
ततो गत्वा महारण्यमतपत्सुमहत्तपः ॥
ततः स तापयामास विबुधांस्तपसाऽन्वितः ।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥
तं तथा तपसा युक्तमुवाच हरिवाहनः ।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥
वरं ददामि ते हन्त वृणीष्व त्वं यदिच्छसि ।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि मा चिरम् ॥
मतङ्ग उवाच ।
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।
गच्छेयं तदवाप्येह वर एष वृतो मया ॥
भीष्म उवाच ।
एतच्छ्रुत्वा तु वचनं तमुवाच पुरदरः ।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया ॥
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ।
विनशिष्यसि दुर्बुद्धे तदुपारम मा चिरम् ॥
श्रेष्ठं यत्सर्वभूतेषु तपो यदतिवर्तते ।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

7-3-1 वृत्तमाचारः । शीलं विनयः ॥ 7-3-4 ब्राह्मण्यं चेदिच्छेत्तर्हि केन प्राप्तुयात्तदिति अनुषज्य व्याख्येयम् ॥ 7-3-7 पर्याये आवृत्तौ जन्मनाम् ॥ 7-3-9 तुल्यवर्णः अन्यवर्णजोऽपि जातकर्मादिसंस्कारयोगात्तुल्यवर्णत्वं गतः । नाम प्रसिद्धम् ॥ 7-3-10 यज्ञकारः यज्ञं कारयन् आर्त्विज्यं कुर्वन्नित्यर्थः । प्रायात् अग्निचयनार्थमिष्टका आनेतुमित्यर्थाद्गम्यते ॥ 7-3-11 बालं अशिक्षितम् ॥ 7-3-14 बाले त्वयि । भावः जातिस्वभावः । भावं वुद्धिं नियच्छति मार्गान्तरादपकर्षति । भावं भावोऽधिगच्छतीति थ.ध.पाठः ॥ 7-3-15 करुणं रासभीवच इति ध.पाठः ॥ 7-3-19 संसिद्धौ संसिद्ध्यर्थम् ॥ 7-3-20 अन्त्ययोनिश्चण्डालजातिः । अयोनिस्तदन्यः कुत्सितयोनिः । तयोर्हीनकर्मतया कुशलित्वं नास्तीत्यर्थः ॥ 7-3-23 सुचरितात्तपसश्च हेतोः स्थानं ब्राह्मण्यं सुखेन प्रेप्सुर्विबुधांस्तापयामासेति सम्बन्धः ॥ 7-3-24 हरिवाहन इन्द्रः ॥

श्रीः