अध्यायः 079
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति विवाहविभागकथनम् ॥ 1 ॥ तथा कन्यानां
भार्यात्वप्रापकविध्यादिनिरूपणम् ॥ 2 ॥
युधिष्ठिर उवाच ।
यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च ।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।
कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥
भीष्म उवाच ।
शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च ।
अद्भिरेव प्रदातव्या कन्या गुणवते भवेत् ।
ब्राह्मणानां सतामेष नित्यं धर्मो युधिष्ठिर ॥
आवाह्यमावहेदेवं यो दद्यादनुकूलतः ।
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एष यः ।
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः ॥
धनेन बहुधा क्रीत्वा सम्प्रलोभ्य च बान्धवान् ।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् ।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते ॥
`सुसां मत्तां प्रमत्तां वा रहो रात्रौ च गच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽधमः ॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन ॥
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥
तिस्त्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु ।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं हिताय हि ॥
द्विजस्य ब्राह्म्णी श्रेष्ठा क्षत्रिया क्षत्रियस्य तु ।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः ।
शूद्रायां जनयविन्प्रः प्रायश्चित्ती विधीयते ॥
`नातिबालां वहन्त्यन्ते अनित्यत्वात्प्रजार्थिनः ।
वहन्ति कर्मिणस्तस्यामन्तः शुद्धिव्यपेक्षया ॥
अपरान्वयसम्भूतां संस्वप्नादिविवर्जिताम् ।
कामो यस्यां निषिद्धश्च केचिदिच्छन्ति चापदि ॥
त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् ।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥
यस्यास्तु न भवेद्भाता पिता वा भरतर्षभ ।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती ।
चतुर्थेऽत्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥
प्रजा न हीयते तस्या रतिश्च भरतर्षभ ।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
इत्येतामुपयच्छेत तं धर्मं मनुरब्रवीत् ॥
युधिष्ठिर उवाच ।
शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥
पाणिग्रहीत्ता चान्यः स्यात्कस्य भार्या पितामह ।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥
भीष्म उवाच ।
यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते ।
मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥
भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥
नह्यकामेन संवादं मनुरेवं प्रशंसति ।
अयशस्यमधर्म्यं च यन्मृषा धर्मगोपनम् ॥
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते ।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत् ।
तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥
यस्त्वत्र मन्इत्रसमयो भार्यापत्योर्मिथः कृतः ।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥
देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥
युधिष्ठिर उवाच ।
कन्यायां प्राप्तसुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।
धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥
तस्मिन्नुभयतो दोषे कुर्वञ्श्रेयः समाचरेत् ।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥
भीष्म उवाच ।
नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नानृतम् ।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ।
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ॥
अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ।
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः ।
प्रतिगृह्य भवेद्देमेव धर्मः सनातनः ॥
दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत ॥
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम् ।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः ।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥
अहं विचित्रवीर्यस्य द्वे कन्ये समुदावहम् ।
जित्वाऽङ्गमागधान्सर्वान्काशीनथ च कोसलान् ॥
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्काऽपराऽभवत् ।
कन्याऽगृहीता तत्रैव विसर्ज्या इति मे पिता ।
अब्रवीदितरां कन्यामावहेति स कौरवः ॥
अप्यन्याननुपप्रच्छ शङ्कमानः पितुर्वचः ।
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाऽभवत् ॥
ततोहमब्रवं राजन्नाचारेप्सुरिदं वचः ।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनःपुनः ॥
ततो मयैवमुक्ते तु वाक्ये धर्मभृतावरः ॥
पिता मम महाराज बीह्लीको वाक्यमब्रवीत् ॥
यदि व शुल्कतो निष्ठा न पाणिग्रहणात्तथा ।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः ॥
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः ।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः ॥
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा ।
न ह्येव भार्या क्रेतव्या न विक्रय्यां कथञ्चन ॥
ये च क्रीणन्ति दासीवद्विक्रीणन्ति तथैव च ।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः ।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसम्मतः ॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ॥
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।
कुर्वते जीवतोप्येवं मृते नैवास्ति संशयः ॥
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः ।
तमेवानुगता भूत्वा पाणिग्राहस्य नाम सा ॥
लिखन्त्येव तु केषांचिदपरेषां शनैरपि ।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते ।
सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥
इति देयं वदन्त्यत्र त एतं निश्चयं विदुः ।
अनुकूलामनुवशां भ्रात्रा दत्तामुपाग्निकाम् ।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनाशीतितमोऽध्यायः ॥
7-79-3 योनि मातृतः पितृतश्च शुद्धिम् । अयं ब्राह्माः प्रथमो
विवाहः ॥ 7-79-4 एवं उक्तगुणवन्तं आवाह्यं विवाहयोग्यं आवहेत् आकारयेत् । ततश्च
अनुकूलतो धनदानादिना अभिमुखीकृताय दद्यात् । अयं प्राजापत्यो नाम द्वितीयो
विप्राणां क्षत्रियाणां च प्रशस्ततरः ॥ 7-79-6 आसुरं चतुर्थमाह धनेनेति ॥ 7-79-7 हत्वेति राक्षसः पञ्चमः । अत्रैव प्रमत्तानां बन्धूनां कन्याहरणात्
पैशाचो हरणसामान्यादन्तर्भवति ॥ 7-79-13 नग्निकां एकवाससम् ।
अजातस्त्रीव्यञ्जनामिति यावत् ॥ 7-79-17 पुत्रिकाधर्मिणी यस्याः पिता इयमेव
दुहिता मम पुत्रस्थाने इत्यभिप्रायवान्न वेति न ज्ञायते सा ॥ 7-79-19 वाच्या
निद्या । प्रजनो हीयते इति ध. पाठः ॥ 7-79-23 संस्थानाय व्यवस्थार्थं
मन्त्रवन्मन्त्रितं विचारवद्भिः सर्वैरेकीभूय मन्त्रितमियमस्मै देयेति
विचारितम् । तस्य गृषाकरणं पातकः पातयितुं भवतीत्यर्थः । मृषावादस्त्वपातकमिति थ.
ध. पाठः ॥ 7-79-25 तत्र नेति पक्षं निन्दति नहीति ॥ 7-79-28 यद्यपि ज्ञातिभिः
कृतः समयो गुरुस्तथापि मन्त्रपूर्वकः समयो गुरुतर इत्यर्थः ॥ 7-79-29 देवः
प्राक्कर्म ईश्वरो वा । वेत्ति लभते ॥ 7-79-31 दोषे सति कुर्वन् कर्ता श्रेयः
प्रशस्ततरं किं समाचरेदित्यध्याहृत्य योज्यम् ॥ 7-79-32
कथ्यतामित्यादरसूचनार्था पुनरुक्तिः ॥ 7-79-33 गुणैर्वयोधिकत्वादिभिः ॥ 7-79-34
कन्यार्तालङ्कारग्रहणे न दोषोऽस्तीत्याह अलङ्कृत्वेति ॥ 7-79-35
नभाषितमित्येकपदम् । ये पूर्वं दास्यामीत्याहुर्ये च नदास्यामीत्याहुर्ये च
अवश्यं दास्यामीति वदन्ति तत्सर्वं नभाषितं अनुक्तवदेवेत्यर्थः ॥ 7-79-36
यस्मादेवं तस्मात् आपाणिग्रहणात्कन्यां याचेतेति मरुतां वरस्तेन ततः पूर्वं
विशिष्टवरार्थमपहारेपि न दोष इति भावः ॥ 7-79-37 तत्कन्या कामो मूलं यस्य ।
तस्मादुत्तमदौहित्रार्थिना श्रेयसे एव कन्या प्रदेयेति भावः ॥ 7-79-38
संवासाच्चिरपरिचयात् । पाणयोः क्रयविक्रययोः संवादे विद्विषाणयोरिति ध.पाठः ॥ 7-79-39 वीर्यमपि शुल्कं भवतीत्यभिप्रायेणाह अहमिति ।
अम्बिकाम्बालिकयोरेकत्वविवक्षयां द्वे इत्युक्तम् ॥ 7-79-40 प्राप्तशुल्का
वीर्येण निर्जितापि कन्या अगृहीता अप्राप्तपाणिग्रहेयं अम्बा विसर्ज्या
उत्स्रष्टं योग्या इति पिता पितृव्यो बाह्लीकोऽब्रवीत् ॥ 7-79-41 अनुपप्रच्छ
अनुपृष्टवानहम् ॥ 7-79-44 प्राप्तं शुल्कं येन । पाठान्तरे यस्याः सा । कन्यापिता
कन्या वा लाजान्तरं वरान्तरमुपासीत इति या स्मृतिस्तर्हि बाध्येतेत्यध्याहृत्य
योजना । लाजा विद्यन्ते ह्यौम्यद्रव्यमस्य स इति
लाजशब्दोऽर्शआद्यच्प्रत्ययान्तः । लाजोप्तारमुपासीतेति थ.ध.पाठः ॥ 7-79-45 येषां
शुल्कतो निष्ठा तेषां वाक्यतो वाक्यं प्रमाणं स्मृतमिति धर्मविदो
नह्याहुरित्यन्वयः 7-79-46 लोकविरोधमप्याहार्धेन । प्रसिद्धमिति कन्याया
दानमित्येवोच्यते नतु क्रयो जयो वेति । एषां शुल्कवादिनां प्रत्यायकं
भार्यात्वज्ञापकं किमपि नास्ति । परिणयनादेव भार्या भवति न शुल्कमात्रादिति
लोकव्यवहारस्य स्पष्टत्वादित्यर्थः ॥ 7-79-52 जीवत इत्यनादरे षष्ठी । जीवन्तमपि
शुल्कदमनादृत्य शिष्टा एवं यथेष्टदानं कुर्वत इत्यर्थः ॥ 7-79-53 देवरमिति
युगान्तरधर्मः ॥ 7-79-54 केषांचिन्मते देवरादयः अलिखितां भ्रातृभार्या
लिखन्त्येव सुरतेन योजयन्त्येव । अपरेषां मते शनैक्मन्थरा इयं प्रवृत्तिः ।
ऐच्छिकी नतु वैधीत्यर्थः ॥ 7-79-55 सङ्कल्पपूर्वकं दत्ताया अपि कन्याया
योऽपहारस्तज्जन्यो मृषावादः पातको भवति दातुर्नतु तावन्मात्रेण तस्यां
भार्यात्वमुत्पन्नमित्यर्थः ॥
श्रीः