अध्यायः 081

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां प्रशंसनम् ॥ 1 ॥

भीष्म उवाच ।

प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।
यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ॥
अर्हणं तत्कुमारीणामानृशंस्यं व्रतं च तत् ।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः ।
पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते ॥
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः ॥
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः ॥
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया ।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥
स्त्रियः पुंसां परिददौ मनुर्जिगमिषुर्दिवम् ।
अबलाः स्वल्पकौपीनाः सुहृद सत्यजिष्णवः ॥
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः ।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः ।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः ॥
उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम् ॥
सम्मान्यमानाश्चैता हि सर्वकार्याष्यवाप्स्यथ ।
विदेहराजदुहिता चात्र श्लोकमगायत ॥
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नोप्रवासकम् ।
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।
लालिताऽनुगृहीता च श्रीः स्त्री भवति भारतः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥

7-81-1 प्राचेतसस्य दक्षस्य । ज्ञातयः कन्यापक्षीयाः । स्वयं नाददतेऽथ च कन्यालङ्कारर्थमिच्छन्ति स विक्रयो न भवतीत्यर्थ ॥ 7-81-4 न रोचेत न कामयेत । न प्रमोदयेत्कामुकं न कुर्यात् । प्रजनः सन्ततिः ॥ 7-81-8 स्वल्प ईषदायासेन अपनेयः कौपीनो गुह्याच्छादनपटो यासाम् । सद्योहार्या इत्यर्थः । सुहृदः सौहार्दयुक्ताः ॥ 7-81-9 बुध्यन्त इत्यबुधाः ॥ 7-81-10 स्त्रीप्रत्ययः स्त्रीहेतुकः ॥ 7-81-12 अत्र स्त्रीधर्मविषये ॥

श्रीः