अध्यायः 087
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेण युधिष्ठिरम्प्रति
						रामविश्वामित्रयोरुत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ च्यवनेन कुशिकराजमेत्य
						सभार्यं तम्प्रति स्वशुश्रूषाविधानम् ॥ 2 ॥ सभार्येण कुशिकेन
						एकविंशतिदिवसाननवरतमेकपार्श्वेन प्रसुप्तस्य च्यवनस्य पादसंवाहनेन
						पर्युपासनम् ॥ 3 ॥ ततः शयनादुत्थितेन मुनिना किञ्चिद्दूरं गत्वा
						पुनरन्तर्धानम् ॥ 4 ॥ 
					
						युधिष्ठिर उवाच । 
					
						संशयो मे महाप्राज्ञ सुमहान्सागरोपम ।
						तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि ॥
					 
					
						कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो ।
						रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥
					 
					
						`ब्राह्मे बले सुपूर्णानामेतेषां च्यवनादिनाम् ।'
							कथमेष समुत्पन्नो रामः सत्यपराक्रमः ।
						
						कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत ॥
						
					 
					
						तदस्य सम्भवं राजन्निखिलेनानुकीर्तय ।
						कौशिकश्च कथं वंशात्क्षात्राद्वै ब्राह्मणोऽभवत् ॥
					 
					
						अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः ।
						रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि ॥
					 
					
						कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् ।
						एष दोषो महाप्राज्ञ तत्त्वं व्याख्यातुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
						च्यवनस्य च संवादं कुशिकस्य च भारत ॥
					 
					
						एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा ।
						आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः ॥
					 
					
						निश्चित्य मनसा सर्वं गुणदोषबलाबलम् ।
						दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥
					 
					
						च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् ।
						वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥
						कुशिक उवाच । 
					 
					
						भगवन्सहधर्मोऽयं पण्डितैरिह चर्यते ।
						प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥
					 
					
						यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन ।
						तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						अथासनमुपादाय च्यवनस्य महामुनेः ।
						कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥
					 
					
						प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् ।
						कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥
					 
					
						ततः स राजा च्यवनं मधुपर्कं यथाविधि ।
						ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः ॥
					 
					
						सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत् ।
						भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥
					 
					
						यदि राज्यं यदि धनं यदि गाः संशितव्रत ।
						यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥
					 
					
						इदं गृहमिदं राज्यमिदं धर्मासनं च ते ।
						राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवान्स्त्रिया ॥
					 
					
						एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा ।
						कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥
					 
					
						न राज्यं कामये राजन्न धनं न च योषितः ।
						न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् ॥
					 
					
						नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते ।
						परिचर्योस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥
					 
					
						एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः ।
						प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥
					 
					
						अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् ।
						गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् ॥
					 
					
						इयं शय्या भगवतो यथाकाममिहोष्यताम् ।
						प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥
					 
					
						अथ सूर्योतिचक्राम तेषां संवदतां तथा ।
						अथर्षिश्चोदयामास पानमन्नं तथैव च ॥
					 
					
						तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा ।
						किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥
					 
					
						ततः स परया प्रीत्या प्रत्युवाच नराधिपम् ।
						औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥
					 
					
						तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः ।
						यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप ॥
					 
					
						ततः स भुक्त्वा भगवन्दम्पती प्राह धर्मवित् ।
						स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥
					 
					
						ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः ।
						संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत् ॥
					 
					
						न प्रबोध्योस्मि संसुप्त इत्युवाचाथ भार्गवः ।
						संवाहितव्यौ मे पादौ जागर्तव्यं च वां निशि ॥
					 
					
						अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित् ।
						न प्राबोधयतां तौ च दंपती रजनीक्षये ॥
					 
					
						यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा ।
						बभूवतुर्महाराज प्रयतावथ दम्पती ॥
					 
					
						ततः स भगवान्विप्रः समादिश्य नराधिपम् ।
						सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥
					 
					
						स तु राजा निराहारः सभार्यः कुरुनन्दन ।
						पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥
					 
					
						भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः ।
						अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥
					 
					
						तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ ।
						भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत् ॥
					 
					
						तयोस्तु प्रेक्षतोऽरेव भार्गवाणां कुलोद्वहः ।
						अन्तर्हितोभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ ॥
					 
					
						ततो मुहूर्तादाश्वस्य सह देव्या महामुनेः ।
						पुनरन्वेषणे यत्नमकरोत्स महीपतिः ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥ 
					 7-87-11 अतिथिसेवाधर्म एव सहधर्मः स्त्रीसहितधर्मः ॥ 7-87-37
						मुनिश्रेष्ठो नच तावभ्यवारयदिति ट.थ.ध.पाठः ॥ 
					
					
					
					
					श्रीः