अध्यायः 088

अथ दानधर्मपर्व ॥ 1 ॥

पूर्वमन्तर्हितेन घ्यवनेन कुशिकम्प्रति पुनः शयने प्रस्वपत आत्मनः प्रदर्शनम् ॥ 1 ॥ पुनरुत्थितेन मुनिना राजानम्प्रति आत्मनस्तैलाभ्यञ्जननियोजनेन स्नानशालायां पुनरन्तर्धानम् ॥ 2 ॥ पुनराविष्कृतात्मना तेन सभार्यस्य राज्ञो रथधुरि संयोजनपूर्वकं याचकेभ्यस्तदीयवित्तादिवितरणेन वीथ्यां रथेन निर्गमनम् ॥ 3 ॥ स्वीयप्रतोदताडनेऽप्यविकृतमानसे सभार्ये कुशिके प्रसीदता मुनिना वरदानेन तस्य स्वगृहप्रेषणम् ॥ 4 ॥

युधिष्ठिर उवाच ।

तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा ।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया ।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन ।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥
अथ शून्येन मनसा प्रविवेश गृहं नृपः ।
ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥
विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च ।
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः ॥
यथास्थानं ततो गत्वा तत्पादौ संववाहतुः ।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥
तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान् ।
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते ।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥
तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ ।
शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः ।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥
यदा तौ निर्विकारौ तु लक्षमायास भार्गवः ।
तत उत्थाय सहसा स्नानशालां विवेश ह ॥
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ।
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत ॥
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ।
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः ।
दर्शयामास कुशिकं सभार्यं कुरुनन्दन ॥
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् ।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥
आनीयतामिति मुनिस्तं चोवाच नराधिपम् ।
स राजा समुपाजह्रे तदन्नं सह भार्यया ॥
मांसप्रकारान्विविधाञ्शाकानि विविधानि च ।
लेह्यपिष्टविकारांश्च पानकानि लघूनि च ॥
रसालापूपकांश्चित्रान्मोदकानथ षड्रसान् ।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥
फलानि च विचित्राणि राजभोज्यानि भूरिशः ।
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च ॥
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् ।
सर्वमाहारयामास राजा शापभयान्मुनेः ॥
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् ।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह ।
सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥
न च तौ चक्रतुः क्रोधं दम्पती सुमहाव्रतौ ।
तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा ।
सभार्यो वाग्यतः श्रीमान्न चकोपं समाविशत् ॥
नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि ॥
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥
वस्त्रं च विविधाकारमभवत्समुपार्जितम् ।
न शशाक ततो द्रष्टमन्तरं च्यवनस्तदा ॥
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् ।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् ।
क्रीडारथोस्तु भगवन्नुत साङ्ग्रामिको रथः ॥
इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः ।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरंजयम् ॥
सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः ।
सायुधः सपताकश्च शक्तीकनकयष्टिमान् ॥
किंकिणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः ।
गदास्वङ्गनिबद्धश्च परमेषुशतान्वितः ॥
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् ।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् ।
सर्वमेतत्तथा दत्त्वा नृपो वाक्यमऽथाब्रवीत् ॥
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन ।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् ।
इतः प्रभृति यातव्यं पदकम्पदकं शनैः ॥
श्रमो मम यथा न स्यात्तथा मच्छन्दचारिणौ ।
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु ॥
नोत्सार्याः पथिकाः केचित्तेभ्योदास्ये वसु ह्यहम् ।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्तिमां पथि ॥
सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि ।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥
तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत् ।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥
ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् ।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः ।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत् ॥
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ ।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ ।
कथंचिदूहतुर्धैर्याद्दम्पती तं रथोत्तमम् ॥
बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् ।
ददृशाते महाराज पुष्पिताविव किंशुकौ ॥
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः ।
अभिशापभयत्रस्तो न तं किञ्चिदुवाच ह ॥
द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् ।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शुक्नुमः ॥
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः ।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥
श्रान्तावपि हि कच्छ्रेण रथमेनं समूहतुः ।
न चैतयोर्विकारं वै ददर्शं भृगुनन्दनः ॥
भीष्म उवाच ।
ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहः ।
वसु विश्राणयामास यथा वैश्रवणस्तथा ॥
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत् ।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह ।
विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया ।
ददामि वां वरं श्रेष्ठं तं ब्रूतामिति भारत ॥
सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः ।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसतम ॥
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह ।
विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेह भार्गव ॥
अथ तौ भगवान्प्राह प्रहृष्टश्च्यनस्तदा ।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् ।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि ।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥
न च मन्युस्त्वया कार्यः श्रेयस्त्वां समुपस्थितम् ।
यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति ॥
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ।
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥
न मे मन्युर्महाभाग पूतौ स्वो भगवंस्त्वया ।
संवृतौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥
प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः ।
तान्न पश्यामि गात्रेषु स्वस्थोस्मि सह भार्यया ॥
इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम् ।
श्रिया परमया युक्ता तथा दृष्टा पुरा मया ॥
तव प्रसादसंवृत्तमिदं सर्वं महामुने ।
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा ।
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ।
प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥
तत एनमुपाजग्मुरमात्याः सपुरोहिताः ।
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् ।
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥
ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः ।
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः ॥
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतजराविवामरौ ।
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा ॥
अथाप्युषिर्भृगुकुलकीर्तिवर्धन- स्तपोधनो वनमभिराममृद्धिमत् ।
मनीषया बहुविधरत्नभूषितं ससर्ज यन्न पुरि शतक्रतोरपि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाशीष्टितमोऽध्यायः ॥ 88 ॥

श्रीः