अध्यायः 089

अथ दानधर्मपर्व ॥ 1 ॥

परेद्युः प्रभाते सभार्येण कुशिकेन च्यवनावलोकनाय वनप्रवेशः ॥ 1 ॥ च्यवनेन कुशिकम्प्रति स्वयोगप्रभावसृष्टस्वर्गप्रदर्शनपूर्वकमभिमतवरवरणप्रेरणा ॥ 2 ॥

भीष्म उवाच ।

ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः ।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥
पर्वतान्रूप्यसानूंश्च नलिनीश्च सपङ्कजाः । चित्रशालाश्च विविधास्तोरणानि च भारत ।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान् ।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥
चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि ।
पुष्पितान्कर्णिकारांश्च तत्रतत्र ददर्श ह ॥
श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः ।
तत्रतत्र परिक्लृप्ता ददर्श स महीपतिः ॥
रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा ।
विमानप्रतिमांश्चापि प्रासादाञ्शैलसन्निभान् ॥
शीतलानि च तोयानि क्वचिदुष्णानि भारत ।
आसनानि विचित्राणि शयनप्रवराणि च ॥
पर्यङ्कान्रत्नसौवर्णान्परार्ध्यास्तरणास्तृतान् ।
भक्ष्यं भोज्यमनन्तं च तत्रतत्रोपकल्पितम् ॥
वाणीवादाञ्छुकांश्चैव शारिका भृङ्गराजकान् ।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् ॥
मयूरान्कुक्कुटांश्चापि दात्यूहाञ्जीवजीवकान् ।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥
समन्ततः प्रणदतो ददर्श सुमनोहरान् ।
क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥
कान्ताभिरपरांस्तत्र परिष्वक्रान्ददर्श ह ।
न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥
गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् ।
हंसानसुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥
तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा ।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥
अहो सह शरीरेण प्राप्तोस्मि परमां गतिम् ।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम् ॥
किञ्चेदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् ।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले ।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया ।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं व तत् ॥
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् ।
कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥
एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥
क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः ।
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥
निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप ।
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ।
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥
ततः प्रोवाच कुशिको भार्या हर्षसमन्वितः । पश्य भद्रे यथाभावाश्चित्रा दृष्टाः सुदुर्लभाः ।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ॥
तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ॥
तपसा हि सुतप्तेनि क्रीडत्येष तपोधनः ।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ॥
इच्छयैष तपोवीर्यादन्याँल्लोकान्सृजेदपि ।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणा ॥
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते ।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ॥
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ॥
सम्प्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति ।
इत्युक्तः सहभार्यस्तु सोभ्यगच्छन्महामुनिम् ॥
शिरसा वन्दनीयं तमवन्दत च पार्थिवः । तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् ।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः ॥
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् ।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥
राजन्सम्यग्जितानीह पञ्चपञ्च स्वयं त्वया ।
मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोसि तेन वै ॥
सम्यगाराधितः पुत्र त्वयाऽहं वदतांवर ।
न हि ते वृजितं किञ्चित्सुसूक्ष्ममपि दृश्यते ॥
अनुजानीहि मां राजन्गमिष्यामि यथागतम् ।
प्रीतोस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥
कुशिक उवाच ।
अग्निमध्ये गतेनेव भगवन्सन्निधौ मया ।
वर्तितं भृगुशार्दूल यन्न दग्धोस्मि तद्बहु ॥
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन ।
यत्प्रीतोसि ममाचारैः कुलं त्रातं च मेऽनघ ॥
एथ मेऽन्द्रग्रहो विप्र जीविते च प्रयोजनम् ।
एतद्राज्यफलं चैव तपसश्च फलं मम ॥
यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन ।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

7-89-29 उत्साहमिह कृत्वेदं कोऽन्यो वै च्यवनादृते । ब्राह्मण्यं दुर्लभं लोके तल्लव्ध्वा दुर्लभं तपः । सिद्धिस्तत्रापि दुष्प्रापा सिद्धेरपि परा गतिः इति ध.पाठः ॥

श्रीः