अध्यायः 096

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेणि युधिष्ठिरम्प्रति ब्राह्मणप्रशंसनपूर्वकं ब्राह्मणानां प्रजानां च रक्षणस्यावश्यकर्तव्यत्वकथनम् ॥ 1 ॥

युधिष्ठर उवाच ।

दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम् ।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥
एतदिच्छामि विज्ञातुं याथातथ्येनि भारत ।
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः ।
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।
नास्य वैतानिकफलं विना दानं सुपावनम् ॥
न तु पापकृतां राज्ञां याजका द्विजसत्तमाः ॥
धने सत्यप्रदातॄणां प्रतिगृह्णन्ति साधवः ॥
प्रतिगृह्णन्ति न तु चेद्यद्रोषादाप्तदक्षिणैः ।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽऽप्तदक्षिणैः ॥
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः ।
श्रद्धामास्थाय परमां पावनं ह्येतुदुत्तमम् ॥
ब्राह्मणांस्तर्पयन्द्रव्यैः स वै यज्ञोऽनुपद्रवः ।
मैत्रान्साधून्वेदविदः शीलवृत्ततपोर्जितान् ॥
यत्ते ते न करिष्यन्ति कृतं ते न भविष्यति ।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥
`विद्वद्भ्यः सम्प्रदानेन तत्राप्यंशोऽस्य पूजया । यज्वभ्यश्चाथ विद्वद्भ्यो दत्त्वा लोकं प्रदापयेत् ।
प्रदद्याज्ज्ञानदातॄणां ज्ञानदानांशभाग्यभवेत् ॥'
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।
प्रजावांस्तेन भवति यथा जनयिता तथा ॥
यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत ।
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः ॥
समृद्धः सम्प्रयच्छ त्वं ब्राह्म्णेभ्यो युधिष्ठिर ।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥
आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत ।
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥
एते देयाः पुष्टिमद्भिर्लघूपायाश्च भारत ।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालय ।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥
एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि ।
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥
तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च ।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।
[योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥
तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम् ।
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् ॥
क्षिया ह्यभीक्ष्णं संवासो दर्पयेत्सम्प्रमोहयेत् । ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्धुवम् ।
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः ॥
यो रक्षिभ्यः सम्प्रदाय राजा राष्ट्रं विलुम्पति ।
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् ॥
यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम् ।
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः ॥
अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः ।
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः ॥
यदा परिनिषिच्येत निहितो वै यथाविधि ।
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः ॥
वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च ।
न खातपूर्वं कुर्वीत न रुदन्तीधनं हरेत् ॥
हृतं कृपणवित्तं हि राष्ट्रं हन्ति नृप श्रियम् ।
दद्याच्च महतो भोगान्क्षुद्भयं प्रणुदेत्सताम् ॥
येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः ।
नाश्नन्ति विधिवत्तानि किन्नु पापतरं ततः ॥
यदि ते तादृशो राष्ट्रे विद्वान्त्सीदेत्क्षुधा द्विजः ।
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् ॥
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति ।
द्विजोऽन्यो वा मनुष्योपि शिबिराह वचो यथा ॥
यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा ।
अवृद्धिमेति तद्राष्ट्रं विन्दते सह राजकम् ॥
क्रोशन्त्यो यस्य वै राष्ट्राद्ध्रियन्ते तरसा स्त्रियः ।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति] ॥
अरक्षितारं हर्तारं विलोप्तारमनायकम् ।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणं ॥
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः ।
चतुर्थं तस्य पापस्य राजा विन्दति भारत ॥
अथाहुः सर्वमेवैति भूयोऽर्धमिति निश्चयः ।
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥
शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥
कुबेरमिव रक्षांसि शतक्रतुमिवामराः ।
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

7-96-1 यज्ञः क्रिया यज्ञरूपाक्रियेत्यर्थः । कीदृशेभ्यो दानं कथं यज्ञक्रियेति । कदेत्युभयत्र सम्बन्धः ॥ 7-96-7 एतद्दानम् ॥ 7-96-9 यद्यदि ते ब्राह्मणास्ते तव न करिष्यन्ति प्रतिग्रहमिति शेषः । तर्हि कृतं सुकृतं ते तव न भविष्यति । तदा सुकृतोत्पत्त्यर्थं यज्ञान्साधय ॥ 7-96-10 दाने यज्ञादिकमन्तर्भवतीत्यर्थः ॥ 7-96-12 जनयिता प्रजापतिः ॥ 7-96-13 तस्य राज्ञस्ते सन्तो बहुकारिणोऽत्यन्तमुपकर्तारो भवन्ति । नरा ये बहुभाषिण इति त.थ.पाठः ॥ 7-96-19 ब्रह्मणो भूयं भावोऽस्यास्ति स ब्राह्मणो ब्रह्मभूयस्तस्य भावो ब्रह्मभूयत्वं ब्राह्मणत्वम् ॥ 7-96-23 यो राजा रक्षिभ्यः सङ्ग्रहपरेभ्यो धनं दत्त्वा यज्ञे यज्ञार्थं धनमानयध्वमिति ब्रुवन् यजेत् तर्हि राष्ट्रं विलुम्पति ॥ 7-96-24 यच्चासौ तद्धनिभिर्भातं भययुक्तं यथास्यात्तथा दत्तं प्रजाभ्य आदाय सुदारुणं यथास्यात्तथा यजेत्तं यज्ञं न प्रशंसन्ति ॥ 7-96-25 उद्यमः प्रजापीडनात्मकोऽतियत्नः ॥ 7-96-26 निहितः प्रजानां नितरां हितो राजा यदा प्रजाभिर्निषिच्येत धनैरभिषिच्येत ॥ 7-96-27 स्वातपूर्वं धनं न कुर्वीत स्वाधीनं न कुर्वीतेत्यर्थः ॥ 7-96-29 समवेक्ष्यन्त्येव नतु लभन्ते ॥ 7-96-32 सहयुगपत् । राजकं राजसमूहं प्रतिपक्षभूतं विन्दते ॥ 7-96-37 सर्वं पापं एति राजानम् ॥

श्रीः