अध्यायः 100

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति जलादिदानफलप्रतिपादनम् ॥ 1 ॥

भीष्म उवाच ।

सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् ।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥
पवित्रं शुच्यथायुष्यं पितृणामक्ष्यं च तत् ।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥
पानीयपरमं दानं दानानां मनुरब्रवीत् ।
तस्मात्कूपांश्च वापीश्च तटाकानि च स्वानयेत् ॥
सर्वं विनाशयेत्पापं पुरुषस्येह कर्मणः ।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥
सर्वं तारयते वंशं यस्य खाते जलाशये ।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् ।
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते ॥
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च ।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् ।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा ।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥
घृतं मासे आश्वयुजि विप्रभ्यो यः प्रयच्छति ।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥
पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति ।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥
पिपासया न म्रियते सोपच्छन्दश्च जायते ।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥
प्रयतो ब्राह्मणाग्रे यः श्रद्धया परया युतः ।
उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति ।
प्रतापनार्थं राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥
सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च ।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥
भगवांश्चापि सम्प्रतो वह्निर्भवति नित्यशः ।
न तं त्यजन्ति पशवः सङ्ग्रामे च जयत्यपि ॥
पुत्राञ्श्रियं च लभते यश्छत्रं सम्प्रच्छति ।
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्नुते ॥
निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति । नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ।
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते ॥
प्रदानं सर्वदानानां शकटस्य विशाम्पते ।
एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥

7-100-12 सोपच्छन्दः सोपकरणः । करकान्पात्रविशेषान् ॥ 7-100-13 अग्रं वृत्तिक्षेत्रादि तदर्थम् । उत्कोचं विना । उपस्पर्शनं दानम् ॥

श्रीः