अध्यायः 103

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति तिलजलदीपादिदानप्रशंसापरयमब्राह्मणसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

तिलानां कीदृशं दानमथ दीपस्य चैव हि ।
अन्नानां वाससा चैव भूय एव ब्रवीहि मे ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥
पर्णशालेति विख्यातो रमणीयो नराधिप ।
विद्वांशस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा ॥
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् ।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥
शमे निविष्टं विद्वांसमध्यापकमनावृतम् ।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना । अपत्येषु तथा वृत्ते समस्तेनैव धीमता ।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥
स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥
तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥
एवमुक्ते तु वचने धर्मराजेन स द्विजः । उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥
यम उवाच ।
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन ।
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते ।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत ॥
ब्राह्मण उवाच ।
शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे ।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥
यम उवाच ।
शृणु तत्त्वेन विप्रर्पे प्रदानविधिमुत्तमम् ।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।
तान्प्रयच्छस्व विप्रेभअयो विधिदृष्टेन कर्मणाः ॥
वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु । तिला भक्षयितव्याश्च सदा त्वालम्भं च तैः
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ।
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः ॥
पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत् ।
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ॥
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् । प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम ।
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः ॥
`पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः ।
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् ॥
गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते ।
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय ॥' ॥
भीष्म उवाच ।
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।
नीतश्च कारयामास सर्वं तद्यमशासनम् ॥
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥
तस्यापि च यमः सर्वमुपदेशं चकार ह ।
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत् ॥
तथा प्रशंसने दीपान्यमः पितृहितेप्सया ।
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन् ॥
दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो ॥
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयंकरम् ॥
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥
वाससां सम्प्रदानेनि स्वदारनिरतो नरः ।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

7-103-7 अध्यापकमनानृतमिति थ.पाठः । अध्यापकमनारतमिति ध.पाठः ॥ 7-103-9 चकारचयमाश्रय इति थ.ध.पाठः ॥ 7-103-11 इह यमलोके ॥ 7-103-13 कालस्य विहितं आयुःप्रमाणं न प्राप्नोमि न जानामि । कालेनाप्रवर्तितं त्वामिह स्थापयितुं न शक्नोमीत्यर्थः । विहितं प्रापयामीह कञ्चनेति थ.पाठः ॥ 7-103-14 बृहि पृच्छ ॥ 7-103-17 निर्घर्तयन्ति साधयन्ति ॥ 7-103-18 आलम्भनं सर्वतः स्पर्शनं उद्वर्तनमित्यर्थः ॥ 7-103-32 एतद्दि तस्याऽभयङ्करं प्रतिग्रहविक्रयजदोषघ्नम् ॥

श्रीः