अध्यायः 104

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोभूविद्यादानप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् ।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे ।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।
सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते ॥
तथैव गाः प्रशंसन्ति न तु देयं ततः परम् ।
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः । वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः
सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत् ।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः ॥
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम् ॥
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः ।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥
पितृसद्मानि सततं देवतायतनानि च ।
पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति ।
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति ॥
युधिष्ठिर उवाच ।
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् ।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥
भीष्म उवाच ।
असद्वृत्ताय पापाय लुब्धायानृतवादिने ।
हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥
`जुहोति यद्भोजयति यद्ददाति गवां रसैः । सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः ॥'
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत् ।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात् ।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥
यः क्षुद्भयाद्वै न विकर्म कुर्या- न्मृदुश्च शान्तौ ह्यतिथिप्रियश्च ।
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे ।
सर्वावस्थं ब्राह्मणस्वापहारे दाराश्चैषां दूरतो वर्जनीयाः ॥
`विप्रदारे परिहृते तद्धनेऽपहृते च तु ।
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये ॥
न पालयन्ति निहतान्ये तान्वैवस्वतो यमः ।
दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति ॥
तथा गवां परित्राणे पीडने च शुभाशुभम् । विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥

7-104-2 इष्टिकर्मिणे याज्ञिकाय ॥ 7-104-4 तुल्यनामानि गोपदवाच्यानि ॥ 7-104-6 देयं दानयोग्यम् । परं श्रेष्ठम् ॥ 7-104-9 गवां बलीवर्दानां कर्मसु यज्ञाद्यर्थेषु कृष्याद्यर्थेषु कर्षणादिषु वर्ततां प्रचोदनं प्रतोदेन प्रेरणं देवैः कृतमिति न तत्र दोष इति भावः । तथापि पूर्वं यज्ञार्थमेव चोदनमक्षरं श्रेयस्करम् । अन्यत्कृष्याद्यर्थं तु ततः परं वैदिककर्षणमनुप्रवृत्तमभिधेयं वाच्यं निन्द्यमित्यर्थः ॥ 7-104-10 निवाते कठिनोपवेशने । अभिवीक्षन्त्यो जलमलभमानाः ॥ 7-104-12 आहारं तदीयतक्राद्याहरणमकृत्वा ॥ 7-104-21 वेदान्तनिष्ठस्य वृत्तिं अतिसृजेतेत्युत्तरेणान्वयः । चतुर्ध्यर्थे षष्ठी ॥

श्रीः