अध्यायः 006

अथ दानधर्मपर्व ॥ 1 ॥

युधिष्ठिरेण भीष्मंप्रत सविस्तरं विश्वामित्रचरित्रानुवादपूर्वकं तस्य ब्राह्मण्यप्राप्तिहेतुप्रश्नः ॥ 1 ॥

युधिष्ठिर उवाच ।

ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैर्नराधिप ।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥
विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ ।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः ।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह ॥
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः ।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥
महान्कुशिकवंशश्च ब्रह्मर्षिशतसंकुलः ।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मणसंकुलः ॥
ऋतीकस्यात्मजश्चैव शुनःशेपो महातपाः ।
विमोक्षितो महासत्रात्पशुतामप्युपागतः ॥
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा ।
पुत्रतामनुसंप्राप्तो विश्वामित्रस्य धीमतः ॥
नाभिवादयते ज्येष्ठं देवरातं नराधिप ।
पुत्राः पञ्चशतं चापि शप्ताः श्वपचतां गताः ॥
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम् ।
अवाक्शिरादिवं नीतो दक्षिणामाश्रितोदिशम् ॥
विश्वामित्रस्य भगिनी नदी देवर्षिसेविता ।
कौशिकीति कृता पुण्या ब्रह्मर्षिसुरसेविता ॥
तपोविघ्नकरी चैव पञ्चचूडा सुसंमता ।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥
तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा ।
आत्मानं मञ्जयञ्श्रीमान्विपाशः पुनरुत्थितः ॥
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी ।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥
वश्यश्च भगवान्येन देवसेनाग्रगः प्रभुः ।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत ॥
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च ।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥
तस्यैतानि च कर्माणि तथाऽन्यानि च कौरव ।
क्षत्रियस्येत्यतो जातमिदं कौहतूलं मम ॥
किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ ।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि ।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे ॥
स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ ।
चण्डालयोनौजातो हि कथं ब्राह्मण्यमाप्तवान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानदर्मपर्वणि षष्ठोऽध्यायः ॥ 6 ॥

7-6-1 शुनःशेषो देवांस्तोषयित्वा तैर्मोक्षितः सन्पुत्रतां विश्वामित्रस्यानुसम्प्राप्त इत्युत्तरेण सम्बन्धः ॥ 7-6-8 नाभिवादयते न नमस्कुर्वन्ति । अनुस्वारलोष आर्षः । देवरातं देवैर्विश्वामित्राय दत्तं तेन च ज्येष्ठं कृतं सन्तम् । शप्ता येनेति शेषः ॥ 7-6-9 बन्धुभिर्मुक्तः । वसिष्ठशापेन चण्डालतां गतत्वात् । दिवं येन नीतः ॥ 7-6-11 पञ्च चूडाः वलयभेदा यस्याः सा ॥ 7-6-14 त्रिशङ्कुं याजयन्विश्वामित्रो वसिष्टपुत्रैः शप्तः श्वपचस्य याजकस्त्वं श्वपचो भविष्यसीति । तं शापमृतं कर्तुं विश्वामित्रः कस्यांचिदापदि श्वजाघनीं चौर्येणार्जयित्वा पक्तुमारेभे । तामिन्द्रः श्येनरूपेण हृतवान् । तावतैवायं शापान्मुक्तो ववर्ष चेन्द्र इति । देवसेनानामग्रगः श्रेष्ठ इन्द्रः ॥ 7-6-15 ज्वलति तारारूपेण ॥

श्रीः