अध्यायः 105

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणस्वापहारस्यानर्थहेतुतायां दृष्टान्ततया नृगोपाख्यानकथनम् ॥ 1 ॥

भीष्म उवाच ।

अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने ।
नृगेण सुमहत्कृच्छ्रुं यदवाप्तं कुरूद्वह ॥
निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः । अदृश्यत महाकूपस्तृणवीरुत्समावृतः ।
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः ।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥
ददृशुस्ते महाकायं कृकलासमवस्थितम् ।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥
प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् ।
नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥
खमावृत्योदपानस्य कृकलासः स्थितो महान् ।
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन् ॥
स वासुदेवेन समुद्धृतश्च पृष्टश्च कामान्निजगाद राजा ।
नृगस्तदाऽऽत्मानमथो न्यवेदय- त्पुरातनं यज्ञसहस्रयाजिनम् ॥
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम् ।
कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥
शतं सहस्राणि गवां शतं पुनः पुनः शतान्यष्टशतायुतानि ।
नृप द्विजेभ्यः क्व नु तद्गतं तव ॥
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः ।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने***** ॥
गवां सहस्रे संख्याता तदा सा पशुपैर्मम ।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः ।
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत् ॥
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ ।
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम् ॥
शतेन शतसङ्ख्येन गवां विनिमयेन वै ।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥
देशकालोपसम्पन्ना दोग्ध्री शान्ताऽतिवत्सला ।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥
कृशं च भरते सा गौर्मम पुत्रमपस्तनम् ।
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह ॥
ततस्तमपरं विप्रं याचे विनिमयेन वै ।
गवां शतसहस्रं हि तत्कृते गृह्यतामिति ॥
ब्राह्मण उवाच ।
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे ।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा ।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥
एतस्मिन्नेव काले तु चोदितः कालधर्मणा ।
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् ।
नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ॥
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया ।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥
रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव ।
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः ॥
पूर्वं कृच्छं चरिष्येऽहं पश्चाच्छुभमिति प्रभो ।
धर्मराजं ब्रुवन्नेवं पतितोस्मि महीतले ॥
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः ।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते ।
प्राप्लस्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह ।
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः ॥
त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् ।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् ।
विमानं दिव्यमास्थाय ययौ दिवमरिन्दमः ॥
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम ।
वासुदेव इमाञ्श्लोकाञ्जगाद कुरुनन्दन ॥
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता ।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते ।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥
प्रदानं फलवत्तत्र द्रोहस्तत्र तथाऽफलः ।
अपहारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

7-105-23 प्रतिज्ञा च कृता त्वयेति, त्रिविधस्ते व्यतिक्रम इति च.थ.ध. पाठः ॥ 7-105-24 कृच्छ्रं चरिष्ये पापफलं भोक्ष्ये ॥ 7-105-31 न हर्तव्यं क्षत्रियेण विशेषत इति थ.ध.पाठः ॥

श्रीः