अध्यायः 106

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोदानप्रशंसापरनाचिकेतोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ ।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ऋषेरौद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥
ऋषिरौद्दालकिर्दीक्षामुपगम्य ततः सुतम् ।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ।
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥
इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥
गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् ।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥
क्षुत्पिपासाश्रमाविष्टो मुनिरौद्दालकिस्तदा ।
यमं पश्येति तं पुत्रमशपत्क्रोधमूर्च्छितः ॥
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः ।
प्रसीदेति ब्रुवन्नेव गतसत्वोऽपतद्भुवि ॥
नाचिकेतं प्रिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।
किं मया कृतमित्युक्त्वा निपपात महीतले ॥
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः ।
व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह ।
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥
स पर्यपृच्छत्तं पुत्रं श्लाघ्यं पर्यागतं पुनः ।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा ।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥
प्रत्यक्षदार्शी सर्वस्य वित्रा पृष्टो महात्मना ।
अभ्युत्थाय पितुर्मध्ये महर्षीणां न्यवेदयत् ॥
कुर्वन्मवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभासाम् ।
वैवस्वतीं प्राप्य सभामवश्यं सहस्रशो योजनहैमभौमाम् ॥
दृष्टैव मामभिमुखमापतन्तं गृहं निवेद्यासनमादिदेश ।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां साः ॥
ततस्त्वहं तं शनकैरवोचं वृतः सदस्यैरभिपूज्यमानः ।
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हो यानहं तान्विधत्स्व ॥
यमोऽब्रवीन्मां न मृतोसि सौम्य यमं पश्येत्याह स त्वां तपस्वी ।
पिता प्रदीप्ताग्निसमानतेजा न तत्छक्यमनृतं विप्र कर्तुम् ॥
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता ।
ददानि किञ्चापि मनःप्रणीतं प्रियातिथेस्तव कामान्वृणीष्व ॥
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोस्मि ते विषयं दुर्निवर्त्यम् ।
इच्छाम्यहं पुण्यकृतां समृद्धाँ- ल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तम् ।
संदर्शयामास तदाऽऽत्मलोका- न्सर्वास्तथा पुण्यकृतां द्विजेन्द्र ॥
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम् ।
नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च ।
अनेकशतभौमानि सान्तर्जलवनानि च ॥
वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥
भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च ।
सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥
नद्यो वीथ्यः सभा वाप्यो दीर्घिकाश्चैव सर्वशः ।
घोषवन्ति च यानानि युक्तान्धथ सहस्रशः ॥
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम् ।
वैवस्वतस्यानुमतांश्च देशा- नदृष्टपूर्वान्सुबहूनपश्यम् ॥
सर्वान्दृष्ट्वा तदहं धर्मराज- मवोचं वै सर्वदेवं सहिष्णुम् ।
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रवृत्ताः ॥
यमोऽब्रवीद्विद्धि भोज्यांस्त्वमेता- न्ये दातारः साधवो गोरसानाम् ।
अन्ये लोकाः शाश्वता वीतशोकैः समाकीर्णा गोप्रदाने रतानाम् ॥
न त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।
ज्ञात्वा देयं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥
स्वाध्यायवान्योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम् ।
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः ॥
कृच्छ्रोत्सृष्टाः पोष्णाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ।
अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीताः सोदकाः सोद्वहाश्च ॥
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।
वत्सैः प्रीताः सुप्रजाः सोपचारा- स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति रोमाणि भवन्ति तस्या- स्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय दान्तं धुर्यं बलवन्तं युवानम् ।
कुलानुजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्सम्मितान्धेनुदस्य ॥
वृद्धे ग्लाने सम्भ्रमे वा महार्थे कृष्यर्थं वा हौम्यहेतोः प्रमूत्याम् ।
गुर्वर्थं वा यज्ञसमाप्तये वा गां वै दातुं देशकालोऽविशिष्टः ॥
नाचिकेत उवाच ।
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रवम् ।
अगोमी गोप्रदातॄणां कथं लोकान्हि गच्छति ॥
ततोऽब्रवीद्यमो धीमान्गोप्रदानं ततो गतिम् ।
गोप्रदानानुकल्पात्तु गामृते सन्तु गोप्रदाः ॥
अलाभे यो गवां दद्याद्धृतधेनुं यतव्रतः ।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः ।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः ।
स कामप्रवहां शीतीं नदीमेतामुपाश्नुते ॥
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत् ।
दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥
निवेदये चाहमिमं प्रियं ते क्रतुर्महानल्पधनप्रचारः ।
प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ॥
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो वै ।
दानव्युष्टिं तत्र दृष्ट्वा महात्म- न्निःसंदिग्धान्दानधर्मांश्चरिष्ये ॥
इदं च मामब्रवीद्धर्मराजः पुनः पुनः सम्प्रहृष्टो महर्षे ।
दानेन यः प्रयतोऽभूत्सदैव विशेषतो गोप्रदानं च कुर्याम् ॥
शुद्धो ह्यर्थो नावमन्यस्व धर्मा- न्पात्रे देयं देशकालोपपन्ने ।
तस्माद्गावस्ते नित्यमेव प्रदेया माभूच्च ते संशयः कश्चिदत्र ॥
एताः पुरा ह्यददन्नित्यमेव सान्तात्मानो दानपथे निविष्टाः ।
तपांस्युग्राण्यप्रतिशङ्कमाना- स्ते वै दानं प्रददुश्चैव शक्त्या ॥
काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः ।
दत्त्वा गा वै लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलास्तु नाके ॥
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य ।
काम्याष्टम्यां वर्तितव्यं दशाहं रसैर्गवां शकृता प्रस्नवैर्वा ॥
देवव्रती स्याद्वृषभप्रदानै- र्वेदावाप्तिर्गोयुगस्य प्रदाने ।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥
गामप्येकां कपिलां सम्प्रदाय न्यायोपेतां कलुषाद्विप्रमुच्येत् ।
गवां रसात्परमं नास्ति किञ्चि- द्गवां प्रदानं सुमहद्वदन्ति ॥
गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं संजनयन्ति लोके ।
यस्तं जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥
यैस्तद्दत्तं गोसहस्रं शतं वा दशार्धं वा दश वा साधुवत्सम् ।
अप्येका वै साधवे ब्राह्मणाय सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम् ।
शब्दश्चैकः संनतिश्चोपभोगा- स्तस्माद्गोदः सूर्य इवावभाति ॥
गुरुं शिष्यो वरयेद्गोप्रदाने स वै गन्ता नियतं स्वर्गमेव ।
विधिज्ञानां सुमहान्धर्म एष विधिं ह्याद्यं विधयः संविशन्ति ॥
इदं दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्त्वा प्रापयेथाः परीक्ष्य ।
त्वय्याशंसन्त्यमरा दानवाश्च वयं चापि प्रसृते पुण्यशीले ॥
इत्युक्तोऽहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाऽभिप्रणम्य ।
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

7-106-5 कलशश्चातिभोजनम् इति झ.पाठ. । तत्र अतिभोजनं भोजनसामग्रिकं शाकादि ॥ 7-106-8 गतसत्वो मृतः ॥ 7-106-11 सस्यं शुष्यमाणम् ॥ 7-106-15 योजनेति लुप्ततृतीयान्तं पदम् । योजनैः सहस्रशः सम्मितामिति शेषः ॥ 7-106-23 अनेकशतानि भौमानि उपर्युपरि भूमिसमूहा येषु तानि प्रासादमण्डलानि ॥ 7-106-30 गवामन्तरमन्योन्यतारतम्यं । अवङ् ॥ 7-106-31 कृच्छ्रोत्सृष्टाः सङ्कटात् निरोधात् मुक्ताः । पोषणार्थं दरिद्रागारादागताः । तादृशीनां पालनं प्रशस्ततरमित्यर्थः ॥ 7-106-33 त्र्यहमम्मात्राहारो भूमिशायी भूत्वा चतुर्थं दिनमारभ्य त्र्यहमेकैकां गां दत्त्वा गोरसैर्वृत्तिं कुर्यात् । एवं व्रतपूर्वकं गोत्रयं ददत उक्तं वक्ष्यमाणं च फलं भवतीत्यर्थः ॥ 7-106-36 वृद्धे ग्लाने रोगिणि पथ्याशनार्थं सम्भ्रमे दुर्भिक्षे । महार्थे यज्ञाद्यर्थे च । प्रसूत्यां पुत्रजन्मनि ॥ 7-106-43 क्रतुः गोदानरूपः ॥ 7-106-49 प्रापणीयं गोः आहारादि । कामे इच्छापूरणे साधुः काम्या या अष्टमी शुक्लकृष्णान्यतरा तस्यां ॥

श्रीः