अध्यायः 108

अथ दानधर्मपर्व ॥ 1 ॥

इन्द्रम्प्रति ब्रह्मणा गोदानफलप्रशंसनम् ॥ 1 ॥

पितामह उवाच ।

योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः । नान्यः प्रष्टास्ति लोकेस्मिंस्त्वत्तोन्यो हि शतक्रतो?
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि ।
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा ।
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभबुद्धयः ॥
शरीरन्यासमोक्षेण मनसा निर्मलेन च ।
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥
ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः ।
न तत्र क्रमते कालो न जरा न च पावकः ॥
तथा नास्त्यशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ।
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव ॥
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ।
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥
वाप्यः सरांसि सरितो विविधानि वनानि च ।
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥
मनोज्ञं सर्वभूतेभ्यस्तद्वनं तत्र दृश्यते ।
ईदृशान्विद्दि ताँल्लोकान्नास्ति लोकस्तथाविधः ॥
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः ।
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥
यः सर्वमांसानि न भक्षयीत पुमान्सदा भावितो धर्मयुक्तः ।
मातापित्रोरर्चिता सत्ययुक्तः शुश्रुषिता ब्राह्मणानामनिन्द्यः ॥
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च ।
यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि यथा दयावान् ।
ईदृग्गुणो मानवस्तं प्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥
न पारदारी पश्यति लोकमेतं न वै गुरुघ्नो न मृषा सम्प्रलापी ।
सदापवादी ब्राह्मणेष्वात्तवैरो दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनुजुर्धर्मविद्वेषकश्च ।
न ब्रह्महा मनसाऽपि प्रपश्ये- द्गवां लोकं पुण्यकृतां निवासम् ॥
एतत्ते सर्वमाख्यातं नैपुण्येन सुरेश्वर ।
गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति ।
धर्मार्जितान्धैः क्रीतान्स लोकानाप्नुतेऽक्षयान् ॥
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति ।
स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥
दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः ।
प्रदद्यात्ताः प्रदातॄणां सम्भवन्त्यपि च ध्रुवाः ॥
प्रतिगृह्य तु यो दद्याद्गाः संशुद्धेनि चेतसा ।
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः ।
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते ।
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु ।
गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥
क्षत्रियस्य गुणैरतैरन्वितस्य फलं शृणु ।
सप्तार्धशततुल्या गौर्भवतीति विनिश्चयः ॥
वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत् ।
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥
एतच्चैनं योऽनुतिष्ठेत युक्तः सत्ये रतो गुरुशुश्रूषया च ।
दक्षः क्षान्तो देवतार्थी प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥
महत्फलं प्राप्यते सद्द्विजाय दत्त्वा दोग्ध्रीं विधिनाऽनेन धेनुम् ।
नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रुषिता च ॥
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दत्त्वा योऽभिनन्देत गाश्च ।
आजातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥
यत्स्यादिष्ट्वा राजमूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन ।
एततुल्यं फलमप्याहुरग्र्यं सर्वे संन्तस्त्वषयो ये च सिद्धाः ॥
योऽग्रं भक्तं किञ्चिदप्राश्य दद्या- द्गोभ्यो नित्यं गोव्रती सत्यवादी ।
शान्तोऽलुब्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्सत्यशीलः ॥
यदकेभक्तमश्नीयाद्दद्यादेकं गवां च यत् ।
दशवर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति ।
यावन्ति तस्या रोमाणि सम्भवन्ति शतक्रतो ॥
तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ।
ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु ॥
पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम् ।
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥
यश्चात्मावेक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति ।
यावत्संदर्शयेद्गां वै स तावत्फलमश्नुते ॥
रोम्णि रोम्णि महाभाग लोकाश्चास्याक्षयाः स्मृताः सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति ।
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥
अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः ।
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदत्ते ॥
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च ।
कालज्ञानं विप्रगवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम् ।
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः ।
वृत्तिग्लाने सीदति चातिमात्रं तुष्ट्यर्थं वा होम्यहेतोः प्रसूतेः ।
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥
अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणैः क्रीतास्तेजसा यौतकाश्च ।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा ॥
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः ।
वत्सैः पुष्टैः क्षीरपैः सुप्रचारा- स्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च ।
यावन्ति रोमाणि भवन्ति तस्या- स्तावन्ति वर्षामि भवन्त्यमुत्र ॥
तथाऽनड्वाहं ब्राह्मणाय प्रदाय धुर्यं युवानं बलिनं विनीतम् ।
हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य ॥
कान्ताराद्ब्राह्म्णान्गाश्च यः परित्राति कौशिक ।
क्षेमेण स विमुच्येत तस्य पुण्यफलं शृणु ॥
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ।
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते ॥
लोकान्बहुविधान्दिव्यान्यच्चास्य हृदि वर्तते ।
तत्सर्वं समवाप्नोति कर्मणैतेन मानवः ॥
गोभिश्च समनुज्ञातः सर्वत्र च महीयते ।
यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति ॥
तृणगोमयपर्णाशी निस्पृहो नियतः शुचिः ।
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ॥
मम लोके वसति स लोके वा यत्र चेच्छति ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टाधिकशततमोऽध्यायः ॥ 108 ॥

7-108-4 शरीरस्य न्यासः समाधिकाले । मोक्षः मरणे ॥ 7-108-15 नैकृतिको वञ्चकः । शठः समर्थोऽपि दारिद्र्यभाषी ॥ 7-108-21 गुरूणां द्विजानां वापराधं सहते इति गुरुद्विजसहः ॥ 7-108-22 गोवृत्तिरसङ्ग्रहपरः ॥ 7-108-24 सप्तार्धशतं पञ्चाशदधिकसप्तशतं ॥ 7-108-31 दशवर्षाणिच फलं वाजपेयस्य विन्दतीति ध.पाठः ॥ 7-108-32 यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो इति ध.पाठः ॥ 7-108-35 संदर्शयेत्पश्येत् । यावद्ब्रह्माण्डे गोजातीयमस्ति तावतत्र वसेदित्यर्थः ॥ 7-108-37 अलाभे यो गवामिति ध. पाठः ॥ 7-108-41 अन्तर्जाताः सुक्रयज्ञानलब्धाः प्राणक्रीताः सोदकाः सोद्वहाश्चेति ध.पाठः ॥ 7-108-42 अर्जुनीनां गवाम् ॥ 7-108-45 कुलस्य कर्तारमनन्तवीर्यमिति ध.पाठः ॥

श्रीः