अध्यायः 110

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति सत्यदमादिप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो ।
प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते ।
नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥
दमस्येह फलं किं च वेदानां धारणे च किम् ।
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥
अप्रतिग्राहके किं च फलं लोके पितामह ।
तस्य किञ्च फलं दृष्टं श्रुतं यस्तु प्रयच्छति ॥
स्वकर्मनिरतानां च शूराणां चापि किं फलम् । सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ।
पितृशुश्रूषणे किञ्च मातृशुश्रूषणे तथा ।
आचार्यगुरुशुश्रूषा स्वनुक्रोशानुकम्पने ॥
एतत्सर्वमशेषेण पितामह यथातथम् ।
वेतुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥
भीष्म उवाच ।
यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते ।
अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः ॥
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते ।
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम् ॥
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च ।
इह लोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥
दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे । दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ।
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः ॥
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ।
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव ॥
स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च ।
दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः ॥
दानाद्दमो विशिष्टो हि ददत्किञ्चिद्द्विजातये ।
दाता कुप्यति नो दान्तस्तस्माद्दानात्परंदमः ॥
यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः । क्रोधो हन्ति हि यद्दानं तस्माद्दानाद्वरो दमः ॥
अदृश्यानि महाराज स्थानान्ययुतशो दिवि ।
ऋषीणां सर्वलोकषु यानि ते यान्ति देवताः ॥
दमेन यानि नृपते गच्छन्ति परमर्षयः ।
कामयाना महत्स्थानं तस्माद्दानात्परं दमः ॥
`विद्यादानाद्वरं नास्ति वेदविद्या महाफलाः ।' अध्यापकः परिक्लेशादक्षयं फलमश्नुते ॥
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप । अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति ।
गुरुकर्मप्रशंसी तु सोपि स्वर्गे महीयते ॥
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि ।
युद्धे यश्च परित्राता सोपि स्वर्गे महीयते ॥
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् ।
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयाऽऽर्च्छति ॥
शूरा बहुविधाः प्रोक्तास्तेषामर्थास्तु मे शृणु ।
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि ॥
यज्ञशूरा दमे शूराः सत्यशूरास्तथा परे ।
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥
`बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथा परे ।' साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे ।
अरण्ये गृहवासे च त्यागे शूरास्तथा परे ॥
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः । तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे ।
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥
गुरुशुश्रूषया शूराः पितृशुश्रूषया परे ।
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे ॥
अरण्ये गृहवासे च शूराश्चातिथिपूजने ।
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥
धारणं सर्ववेदानां सर्वतीर्थावगाहनम् ।
सत्यं च ब्रुवतो नित्यं समं वा स्यान्नवा समम् ॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥
सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते ।
सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।
सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लोपयेत् ॥
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः ।
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥
सत्यवन्तः सत्यलोके मोदन्ते भरतर्षभ ।
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ॥
असंशयं विनीतात्मा स वै स्वर्गे महीयते ।
ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप ॥
आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ।
न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ॥
बह्व्यः कोट्यस्त्वषीणां तु ब्रह्मलोके वसन्त्युत सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥
ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् ।
ब्राह्मणेन विशेषेण ब्राह्ममो ह्यग्निरुच्यते ॥
प्रत्यक्षं हि तथा ह्येतद्ब्राह्मणेषु तपस्विषु ।
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ।
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ॥
शुश्रूषते यः पितरं न चासूयेत्कदाचन ।
मातरं भ्रातरं वाऽपि गुरुमाचार्यमेव च ॥
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमर्चितम् ।
न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि दशाधिकशततमोऽध्यायः ॥ 110 ॥

7-110-6 अनुक्रोशः परदुःखेन दुःखितत्वम् । अनुकम्पा तत्प्रतीकारकरणम् ॥ 7-110-9 फलमैश्वर्यमेव प्रत्यक्षम् ॥

श्रीः