अध्यायः 112

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोसामान्योत्पत्तिप्रकारकथनपूर्वकं कपिलोत्पत्तिप्रकारकथनम् ॥ 1 ॥

वैशम्पायन उवाच ।

ततो युधिष्ठिरे राजा भूयः शान्तनवं नृपम् ।
गोदानविस्तरं धीमान्पप्रच्छ विनयान्वितः ॥
गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत ।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥
इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः ।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥
भीष्म उवाच ।
वत्सलां गुणसम्प्रन्ना तरुणीं वस्त्रसंयुताम् ।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥
असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति ।
पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम् । जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम् ।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥
रुष्टा दुष्टा व्याधिता दुर्बला वा नो दातव्या याश्च मूल्यैरदत्तैः ।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्याऽवीर्याश्चाफलाश्चैव लोकाः ॥
बलान्विताः शीलवीर्योपपन्नाः सर्वे प्रशंसन्ति सुगन्धवत्यः ।
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा ॥
युधिष्ठिर उवाच ।
कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् ।
विशेषमिच्छामि महाप्रभावं श्रोतुं समर्थोस्मि भवान्प्रवक्तुम् ॥
भीष्म उवाच ।
वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम् ।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥
प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयंभुवा ।
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः ।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः ।
ब्राह्मणाश्च ततः श्रेष्ठास्तषु यज्ञाः प्रतिष्ठिताः ॥
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः ।
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च ॥
ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः ।
प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मखम् ॥
प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया ।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः । प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ।
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता ॥
मुखजा साऽसृजद्धातुः सुरभिर्लोकमातरम् ।
दर्शनीयरसं वृत्तिं सुरभिं मुखजां सुताम् ॥
साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः ।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥
तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः ।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः । शिरस्यवापतत्क्रुद्धः स तदैक्षत च प्रभुः ।
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव ॥
तत्तेजस्तु ततो रौद्रं कपिलां गां विशाम्पते ।
नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ।
यथोत्पन्नाः स्ववर्णस्था न नीताश्चान्यवर्णतां ॥
अथ क्रुद्धं महादेवं प्रजापतिरभाषत ।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः ।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ॥
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ।
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः ॥
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्रवेण च ।
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम् ॥
वृषभं च ददौ तस्मै भगवाँल्लोकभावनः ।
प्रसादयामास मनस्तेन रुद्रस्य भारत ॥
प्रीतश्चापि महादेवश्चकार वृषभं तदा ।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥
ततो देवैर्महादेवस्तदा पशुपतिः कृतः ।
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः ॥
एवमव्यग्रवर्णानां कपिलानां महौजसाम् ।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोद्भूताः सोमविष्यन्दभूताः ।
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥
इदं गवां प्रभवविधानमुत्तमं पठन्सदा शुचिरपि मङ्गलप्रियः ।
विमुच्यते कलिकलुषेण मानवः प्रियान्सुतान्धनपशुमाप्नुयात्सदा ॥
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः ।
एतान्सर्वान्गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥
वैशम्पायन उवाच ।
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः ।
सुवर्णवर्णानडुहस्तथा गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥
तथैव तेभ्योपि ददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव ।
यज्ञान्समुद्धिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥

7-112-6 अनन्ता नाम ते लोका गां दत्त्वा यत्र गच्छतीति थ.ध.पाठः ॥ 7-112-11 पीतोदकां त्यक्ततृणामिति थ.ध.पाठः ॥ 7-112-20 असृजद्वृत्तिमेवाग्र इति झ.पाठः ॥ 7-112-23 स्रवन्तीनां नदीनां ॥ 7-112-26 ता ह्येता नान्यवर्णगा इति ट.थ.ध.पाठः ॥ 7-112-35 न सुवर्णं घृतं दधीति थ.पाठः ॥

श्रीः