अध्यायः 114

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गवां चिरचीर्णतपःप्रसादिताच्चतुर्मुखाल्लोकश्रैष्ठ्यपावित्र्यादिवरलाभकथनम् ॥ 1 ॥ तथा गोविशेषदानस्य फलविशेषकथनम् ॥ 2 ॥

वसिष्ठ उवाच ।

शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम् ।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः ।
भवेम न च लोप्येम दोषेणेति परन्तप ॥
अस्मत्पुरीषस्नानेन जनः पुयेत सर्वदा ।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाःठ ॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद ॥
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
एवं भवन्विति विभुर्लोकांस्तारयतेति च ॥
उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः ।
तपसोऽन्ते महाराज गावो लोकपरायणाः ॥
तस्माद्गावो महाभागाः पवित्रं परमुच्यते ।
तथैव सर्वभूतानां समतिष्ठन्त मूर्धनि ॥
सम्मनवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ॥
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥
लोहितां तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतीं सोमलोके महीयते ॥
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥
समानवत्सां कृष्णां तु धेनु दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते ॥
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥
सवत्सां पीवरीं दत्त्वा दृतिकण्ठामलङ्कृताम् ।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात् ॥
पाण्डुकम्बलवर्णाभां सवत्सां कांस्यकदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते ॥
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् ।
प्रददन्मरुतां लोकान्स राजन्प्रतिपद्यते ॥
वत्सोपपन्नां नीलां गां सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥
दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् ।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् ।
विमानेनार्कवर्णेन दिवि राजन्विराजता ॥
तं चोरुवेषाः सुश्रोण्यः सहस्रं वारयोपितः ।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥
वीणानां वल्लकीनां च नू पुराणां च शिञ्जितैः ।
हासैश्च हरिणाक्षीणां सुप्तः सुप्रतिबोध्यते ॥
यावन्ति रोमाणि भवन्ति धेन्वा- स्तावन्ति वर्षाणि महीयते सः ।
स्वर्गच्युतश्चापि ततो नृलोके कुले प्रसूतो विपुले विशोकः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 112 ॥

7-114-1 गच्छामः शृङ्गितामितीति क.ध.पाठः ॥ 7-114-18 प्रलम्बगलकम्बलाम् । शितिकण्ठामलङ्कृतामिति क.थ.ध.पाठः ॥ 7-114-21 वैराटं वृद्धं पृष्टं यस्य । वैतानस्थितमुक्षाणमिति क.ध.पाठः ॥

श्रीः