अध्यायः 007

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति विश्वामित्रस्योत्पत्तिप्रकारकथनेनैव ब्राह्मण्यप्राप्तिप्रकारकधनम् ॥ 1 ॥

भीष्म उवाच ।

श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा ।
ब्राह्मणत्वं गतस्तात् ब्रह्मर्षित्वं तथैव च ॥
भरतस्यान्ववाये वै मिथिलो नाम पार्थिवः ।
बभूव भरतश्रेष्ठ यज्वा धर्मभृतांवरः ॥
तस्य पुत्रो महानासीञ्जह्नुर्नाम नरेश्वरः ।
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः ।
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः ।
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः ।
अपुत्रः प्रसवेनार्थी वनवासमुपावसत् ॥
कन्या जज्ञे सुतात्तस्य वने निवसतः सतः ।
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः ।
ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥
स तां न प्रददौ तस्मै ऋचीकाय महात्मने ।
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तप्रः ।
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम् ॥
ऋचीक उवाच ।
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप ।
दुहितुर्ब्रूह्यसंसक्तो माऽभूत्तत्र विचारणा ॥
गाधिरुवाच ।
चन्द्ररश्मिप्रकाशानां हयानां वातरहसाम् ।
एकतः श्यामकर्णानां सहस्रं दाह भार्गव ॥
भीष्म उवाच ।
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः ।
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥
तथेति वरुणो देव आदित्यो भृगुसत्तमम् ।
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् ।
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥
अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम् ।
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥
ततो वै गाधये तात सहस्रं वाजिनां शुभम् ।
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः ॥
ततः स विस्मितो राजा गाधिः शापभयेन च ।
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥
जग्राह विधिवत्पाणिं तस्या ब्रह्मर्षिसत्तमः ।
सा च तं पतिमासाद्य परं हर्षमवाप ह ॥
स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत ।
छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम ।
अथतामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ॥
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति ।
अपत्यस्य प्रदानेन समर्थश्च महातपाः ॥
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् ।
मातुश्चिकीर्षितं राजन्ऋचीकस्तामथाब्रवीत् ॥
गुणवन्तं च पुत्रं वै त्वं च साऽथ जनिष्यथ ।
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान् ।
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम् ।
परिष्वजेतं कल्याणि तत इष्टमवाप्स्यथः ॥
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते ।
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः ॥
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत ।
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥
तामुवाच ततो माता सुतां सत्यवतीं तदा ।
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम ॥
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः ।
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते ।
यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥
स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम् ।
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ॥
ततो मे त्वच्चरौ भावः पादपे च समुध्यमे । कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय
तथाच कृतवत्यौ ते माता सत्यवती च सा ।
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः ।
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति ।
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥
मया हि विश्वं यद्ब्राह्म त्वच्चरौ सन्निवेशितम् ।
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि ।
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा च ते शुभे ।
तस्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति ॥
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि ।
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥
सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी ।
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च ।
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम् ॥
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदांवर ।
प्रसादं कुरु विप्रर्षे न मे स्यात्त्रत्रियः सुतः ॥
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति ।
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः ।
ततः सा जनयामास जमदग्निं सुतं शुभम् ॥
विश्वामित्रं चाजनयद्गाधिभार्या यशस्विनी ।
ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम् ॥
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः ।
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः ।
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् ।
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः ।
उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥
पर्णजङ्घश्च भगवान्गावलश्च महानृषिः ।
ऋषिर्वज्रस्तथा ख्यातः सालङ्कायन एव च ॥
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः । वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च ।
आङ्घ्रिको नैकदृक्चैव शिलायूपः सितः शुचिः ।
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा ।
कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः ।
तथैव चोपगहनस्तथर्षिश्चासुरायणः ॥
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः ।
भूतिर्विभूतिः सूतश्च सुरकृत्तु तथैव च ॥
अरालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा ।
नवतन्तुर्बकनखः सेयनो यतिरेव च ॥
अम्भोरुदश्चारुमत्स्यः शिरीषी चाथ गार्दभिः । ऊर्जयोनिरुदापेक्षी नारदी च महानृषिः ।
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥
तथैव क्षत्रियो राजन्विश्वामित्रो महातपाः ।
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥
एतत्ते सर्वमाख्यातं तत्वेन भरतर्षभ ।
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥
यत्रयत्र च सन्देहो भूयस्ते राजसत्तम ।
तत्रतत्र च मां ब्रूहि च्छेत्ताऽस्मि तव संशयान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तमोऽध्यायः ॥ 7 ॥

7-7-1 ब्राह्मणेष्वपि ऋषित्वं मन्त्रद्रष्टृत्वं गोत्रप्रवर्तकत्वं वा ॥ 7-7-2 भरतस्यान्वये चैवाजमीढ इति झ.पाठः ॥ 7-7-5 पिप्पलस्तस्य तनय इति य, पाठः । पल्लवस्तस्येति ट. पाठः ॥ 7-7-6 प्रसवेन सोमाभिषवनिमित्तेन । अर्थी पुत्रार्थी ॥ 7-7-7 सुतात् सोमा भिषवोपलक्षिकताद्यज्ञात् ॥ 7-7-8 भार्गवो भृगोर्गोत्रापत्यम् ॥ 7-7-10 वत्स्यसि उद्वाहेन प्राप्स्यसि ॥ 7-7-11 असंसक्तो निःसंशयः ॥ 7-7-13 आदित्यमदितेः पुत्रम् ॥ 7-7-15 वरेण पुत्रं ते दास्यामीत्यनुग्रहेण ॥ 7-7-30 पूर्वोपपन्नाया भर्तुः सम्बन्धात्पूर्वमुपपन्नायाः गुरुत्वेन प्राप्तायास्तव भर्त्रपेक्षयाहं गरीयसीत्यर्थः । पुत्रि पूर्वप्रपन्नाया इति ट.ध पाठः ॥ 7-7-44 क्षत्रियः क्षत्रियवदुग्रक्रमा ॥ 7-7-53 ऊर्घ्वलिर्मुसलश्चेति ट.ध.पाठ ॥

श्रीः