अध्यायः 116

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गवां तपःप्रसन्नाद्ब्रह्मणः शृङ्गप्राप्त्यादिकथनम् ॥ 1 ॥ तथा गोदानप्राप्यपुण्यलोकवर्णनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् ।
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् ।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा ॥
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम ।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः ॥
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै ।
दत्त्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः ॥
मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा ।
गा वै ददन्तः सततं सहस्रशतसम्मिताः ॥
गताः परमकं स्थानं देवैरपि सुदुर्लभम् ।
अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ ॥
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः ।
अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥
पितरं परिपप्रच्छ दृष्टलोकपरावरम् ।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते ॥
किञ्च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः ।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ॥
किञ्च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः । दानानामुत्तमं किञ्च किञ्च सत्रमितः परम् ।
पवित्राणां पवित्रं च यत्तद्ब्रूहि महामुने ॥
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् ।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥
गावः प्रतिष्ठा भूतानां तथा गावः परायणम् ।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा ॥
पूर्वमासन्नंशृङ्गा वै गाव इत्यनुशश्रुम ।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥
ततो ब्रह्मा तु गाः सत्रमुपविष्टाः समीक्ष्य ह ।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥
तासां शृङ्गाण्यजायन्त तस्या यादृङ्भनोगतम् ।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः ।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः ॥
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥
सर्वा मणिभयी भूमिः सर्वकाञ्चनवालुकाः ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का निरजाः शुभाः ॥
रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः ।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः ।
सन्तानकवनैः फुल्लैर्वृक्षेश्च समलङ्कृताः ॥
निर्मिलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्चि निम्नगाः ॥
सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः ।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥
सौवर्णि गिरयस्तत्र मणिरत्नशिलोच्चयाः ।
सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर ।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥
विमानेषु विचित्रेषु रमणीयेषु भारत ।
मोदन्ते पुण्यकर्माणो विरहन्तो यशस्विनः ॥
उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः ।
एतान्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥
यासामधिपतिः पूषा मारुतो बलवान्बले ।
ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः ।
प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥
गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः ।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥
द्रुह्येन मनसा वाऽपि गोषु ता हि सुखप्रदाः ।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते ।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ॥
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं विबेत् ।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्र्यहम् ॥
योन देवाः पवित्रेणि भुञ्जते लोकमुत्तमम् ।
यत्पवित्रं पवित्राणां तद्धृतं शिरसा वहेत् ॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतं प्राशेद्धृतं दद्याद्गवां पुष्टिं तथाऽश्नुते ॥
निर्हृतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः ।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते ॥
पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् ॥
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः ॥
गावः पवित्राः पुण्याश्च पावनं परमं महत् ।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् ।
पूताभिरद्भिराचम्यि शुचिर्भवति निर्मलः ॥
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि ।
विद्यावेदप्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥
अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसम्मिताम् ।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम् ॥
पुत्रिकामश्च लभते पुत्रं धनमथापि वा ॥
पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः । एवमेतां महाभागा यज्ञियाः सर्वकामदाः ।
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना ।
पूजयामास तां नित्यं तस्मात्त्वमपि पूजय ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षोडशाधिकशततमोऽध्यायः ॥ 116 ॥

7-116-13 अशृङ्का इत्यखुरा इत्यस्याप्युपलक्षणम् ॥ 7-116-14 गाः प्रायमुपविष्टा इति झ.पाठः ॥ 7-116-27 गनाः वृक्षाः । पत्ररथाः पक्षिणः ॥ 7-116-39 निर्हृतैः गोमयनिर्गतैः ॥ 7-116-44 गोमतीं गोमत्या ऋचा प्रकाशितमर्थं वरं लभते ॥

श्रीः