अध्यायः 117

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोलोकस्य ब्रह्मलोकादप्युपरितनत्वे ब्रह्मणो वरदानस्य कारणत्वकथनम् ॥ 1 ॥

`*युधिष्ठिर उवाच ।

सुराणामसुराणां च भूतानां च पितामह ।
प्रभुः स्रष्टा च भगवान्मुनिभिः स्तूयते भुवि ॥
तस्योपरि कथं ह्येष गोलोकः स्थानतां गतः ।
संशयो मे महानेष तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
मनोवाग्बुद्धयस्तावदेकस्थाः कुरुसत्तम ।
ततो मे शृणु कार्त्स्न्येन गोमहाभाग्यमुत्तमम् ॥
पुण्यं यशस्यमायुष्यं तथा स्वस्त्ययनं महत् ।
कीर्तिर्विहरता लोके गवां यो गोषु भक्तिमान् ॥
श्रूयते हि पुराणेषु महर्षीणां महात्मनाम् ।
संस्थाने सर्वलोकानां देवानां चापि सम्भवे ॥
देवतार्थेऽमृतार्थे च यज्ञार्थे चैव भारत ।
सुरभिर्नाम विख्याता रोहिणी कामरूपिणी ॥
सङ्कल्प्य मनसा पूर्वं रोहिणी ह्यमृतात्मना ।
घोरं तपः समास्थाय निर्मिती विस्वकर्मणा ॥
पुरुषं चासृजद्भूस्तेजसा तपसा च ह ।
देदीप्यमानं वपुषा समिद्धमिव पावकम् ॥
सोऽपश्यदिष्टरूपां तां सुरभिं रोहिणीं तदा ।
दृष्ट्वैव चातिविमनाः सोऽभवत्काममोहितः ॥
तं कामार्तमथो ज्ञात्वा स्वयंभूर्लोकभावनः ।
माऽऽर्तो भव तथा चैष भगवानभ्यभाषत ॥
ततः स भगवांस्तत्र मार्ताण्ड इति विश्रुतः ।
चकार नाम तं दृष्ट्वा तस्यार्तीभावमुत्तमम् ॥
सोऽददाद्भगवांस्तस्मै मार्ताण्डाय महात्मने ।
सुरूपां सुरभिं कन्यां तपस्तेजोमयीं शुभाम् ॥
यथा मयैष चोद्भूतस्त्वं चैवषा च रोहिणी ।
मैथुनं गतवन्तौ च तथा चोत्पत्स्यति प्रजा ॥
प्रजा भविष्यते पुण्या पवित्रं परमं च वाम् ।
न चाप्यगम्यागमनाद्दोषं प्राप्स्यसि कर्हिचित् ॥
त्वत्प्रजासम्भवं क्षीरं भविष्यति परं हविः ।
यज्ञेषु चाज्यभागानां त्वत्प्रजामूलजो विधिः ॥
प्रजाशुश्रूषवश्चैव ये भविष्यन्ति रोहिणि ।
तव तेनैव पुण्येनि गोलोकं यान्तु मानवाः ॥
इदं पवित्रं परममृषभं नाम कर्हिचित् ।
यद्वै ज्ञात्वा द्विजा लोके मोक्ष्यन्ते योनिसङ्करात् ॥
एतत्क्रियाः प्रवर्तन्ते मन्त्रब्राह्मणसंस्कृताः ।
देवतानां वितॄणां च हव्यकव्यपुरोगमाः ॥
तत एतेन पुण्येन प्रजास्तव तु रोहिणि ।
ऊर्ध्वं ममापि लोकस्य वत्स्यन्ते निरुपद्रवाः ॥
भद्रं तेभ्यश्च भद्रं ते ये प्रजासु भवन्ति वै ।
युगन्धराश्च ते पुत्राः सन्तु लोकस्य धारणे ॥
यान्यान्कामयसे लोकांस्ताँल्लोकाननुयास्यसि । सर्वदेवगणश्चैव तव यास्यन्ति पुत्रताम् ।
तव स्तनसमुद्भूतं पिबन्तोऽमृतमुत्तमम् ॥
एवमेतान्वरान्सर्वानगृह्णात्सुरभिस्तदा ।
ब्रुवतः सर्वलोकेशान्निर्वृतिं चागमत्पराम् ॥
सृष्ट्वा प्रजाश्च विपुला लोकसन्धारणाय वै ।
ब्रह्मणा समनुज्ञाता सुरभिर्लोकमाविशत् ॥
एवं वरप्रदानेन स्वयंभोरेव भारत । उपरिष्टाद्गवां लोकः प्रोक्तस्ते सर्वमादितः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥

* एतदाद्येकादशाध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते । 7-117-3 मनोवाग्बुद्धयः मनोवाग्बुद्धीरेकस्थाः कुरु ॥ 7-117-10 आर्तो मा भवेत्यभ्यभाषत ॥

श्रीः