अध्यायः 119

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति इन्द्रस्य वत्सभावेन सुरभ्याः क्षीरपानादमरत्वादिलाभकथनम् ॥ 1 ॥ तथा इन्द्रदिदेवानां वासार्थं सुरभेरनुमत्या तदीयमुखाद्यवयवसमाश्रयणकथनम् ॥ 2 ॥

`युधिष्ठिर उवाच ।

सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती ।
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः ॥
पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः ।
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम् ।
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः ॥
सर्वेषामेव देवानां पूर्वं किल समुद्भवे ।
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः ॥
इन्द्र उवाच ।
इच्छेयममृतं दत्तं त्वया देवि रसाधिकम् ।
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति ॥
सुरभिरुवाच ।
वत्सो भूत्वा सुपरते पिबस्व प्रस्रवं मम ।
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि ॥
न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति ।
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो ॥
भीष्म उवाच ।
ततोऽपिबत्स्नं तस्याः सुरभ्याः सुरसत्तमः ।
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम् ॥
पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः ।
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते ॥
सुरभिरुवाच ।
कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम् ।
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः ॥
न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता ।
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः ॥
गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन् ।
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत् ॥
यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः ।
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते ॥
इन्द्र उवाच ।
इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते ।
एभिः सुरगणैः सार्धं ममानुग्रहमाचर ॥
सुरभिरुवाच ।
गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्ष्ये ।
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः ॥
सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् ।
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे ॥
भीष्म उवाच ।
तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः ।
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम् ॥
शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् ।
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः ॥
ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः ।
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया ॥
मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती ।
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः ॥
धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः ।
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने ॥
एवं सर्वे सुरगणा नियता गात्रवर्त्मसु ।
महती देवता गावो ब्राह्मणैः परिसंस्कृताः ॥
गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः ।
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम् ॥
भवांश्च परया भक्त्या पूजयस्व नरेश्वर ।
गावस्तु परमं लोके पवित्रं पावनं हविः ॥
निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल । स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशत्यधिकशततमोऽध्यायः ॥ 119 ॥

श्रीः