अध्यायः 123

अथ दानधर्मपर्व ॥ 1 ॥

फेनपस्य गोभी रन्तिदेवं प्रति तत्सत्रे स्वेषां पशुत्वेन विनियोगप्रार्थना ॥ 1 ॥ तेन गवां मध्ये कस्याश्चिदपि सकामत्वज्ञाने सत्रविरामरूपसमयकरणेन सत्रारभ्यः ॥ 2 ॥ कदाजन कस्याश्चिद्गोर्वत्सस्नेहाद्विशसने दुःखावगमेन यागोपरमः ॥ 3 ॥

`भीष्म उवाच ।

ता गावो रन्तिदेवस्य गत्वा यज्ञं मनीषिणः ।
आत्मानं ज्ञापयामासुर्महर्षीणां समक्षतः ॥
रन्तिदेवस्ततो राजा प्रयतः प्राञ्जलिः शुचिः ।
उवाच गावः प्रणतः किमागमनमित्यपि ॥
गाव ऊचुः ।
इच्चामस्तव राजेन्द्र सत्रेऽस्मिन्विनियोजनम् ।
पशुत्वमुपसम्प्राप्तुं प्रसादं कर्तुमर्हसि ॥
रन्तिदेव उवाच ।
नास्ति शक्तो गवां घातं कर्तुं शतसहस्रशः ।
घातयित्वा त्वहं युष्मान्कथमात्मानमुत्तरे ॥
यः पशुत्वेन संयोज्य युष्मान्स्वर्गं नयेदिह ।
आत्मानं चैव तपसा गावः समुपगम्यताम् ॥
गाव ऊचुः ।
अस्माकं तारणे युक्तो धर्मात्मा तपसि स्थितः ।
श्रुतोऽस्माभिर्भवान्राजंस्ततस्तु स्वयमागताः ॥
रन्तिदेव उवाच ।
मम सत्रे पशुत्वं वो यद्येवं हि मनीषितम् ।
समयेनाहमेतेन जुहुयां वो हुताशने ॥
कदाचिद्यदि वः काचिदकामा विनियुज्यते ।
तदा समाप्तिः सत्रस्य गवां स्यादिति नैष्ठिकी ॥
गाव ऊचुः ।
एवमस्तु महाराज यथा त्वं प्रब्रवीषि नः ।
अकामाः स्युर्यदा गावस्तदा सत्रं समाप्यताम् ॥
भीष्म उवाच ।
ततः प्रवृत्ते गोसत्रे रन्तिदेवस्य धीमतः ।
गोसहस्राण्यहरहर्नियुज्यन्ते शमीतृभिः ॥
एवं बहनि वर्षाणि व्यतीतानि नराधिप ।
गवां वै वध्यमानानां न चान्तः प्रत्यदृश्यत ॥
गवां चर्मसहस्रैस्तु राशयः पर्वतोपमाः ।
बभूवुः कुरुशार्दूल बहुधा मेघसंनिभाः ॥
मेदःक्लेदवहा चैव प्रावर्तत महानदी ।
अद्यापि भुवि विख्याता नदी चर्मण्वती शुभा ॥
ततः कदाचित्स्वं वत्सं गौरुपामन्त्र्य दुःखिता ।
एहि वत्स स्तनं पाहि मा त्वं पश्चात्क्षुदार्दितः ॥
तप्स्यसे विमना दुःखं घातितायां मयि ध्रुवम् ।
एते ह्यायान्ति चण्डालाः सशस्त्रामां जिघांसवः ॥
अथ शुश्राव तां वाणीं मानुषीं समुदाहृताम् ।
रन्तिदेवो महाराज ततस्तां समवारयत् ॥
स्थापयामास गोसत्रमथ तं पार्तिवर्षभ ।
सत्रोत्सृष्टाः परित्यक्ता गावोऽन्याः समुपाश्रिताः ॥
यास्तस्य राज्ञो निहता गावो यज्ञे महात्मनः ।
ता गोलोकमुपाजग्मुः प्रेक्षिता ब्रह्मवादिभिः ॥
रन्तिदेवोपि राजर्षिरिष्ट्वा यज्ञं यथाविधि ।
ततः सख्यं सुरपतेस्त्रिदिवं चाक्षयं ययौ ॥
फेनपो दिवि गोलोके मुमुदे शाश्वतीः समाः ।
अवशिष्टश्च या गवस्ता बभूवुर्वनेचराः ॥
फेनपाख्यानमेतत्ते गवां माहात्म्यमेव च ।
कथितं पावनं पुण्यं कृष्णद्वैपायनेरितम् ॥
नारायणोऽपि भगवान्दृष्ट्वा गोषु परं यशः ।
शुश्रूषां परमां चक्रे भक्तिं च भरतर्षभ ॥
तस्मात्त्वमपि राजेन्द्र गा वै पूजय भारत ।
द्विजेभ्यश्चैव सततं प्रयच्छ कुरुसत्तम ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥

7-123-8 कदाचित् कदापि । काचित् कापि ॥ 7-123-10 शमीतृभिः शमितृभिः । दीर्घ आर्षः ॥

श्रीः