अध्यायः 124

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोमाहात्म्यप्रतिपादकव्यासशुकसंवादानुवादः ॥ 1 ॥

`युधिष्ठिर उवाच ।

पवित्राणां पवित्रं यच्छ्रेष्ठं लोकेषु पूजितम् ।
महाव्रतं महाभाग तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥
ऋषीणामुत्तमं कृष्णं भावितात्मानमच्युतम् ।
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥
कृतशौचः शुकस्तत्र कृतजप्यः कृताह्निकः ।
परं नियममास्थाय परं धर्ममुपाश्रितः ॥
प्रणम्य शिरसा व्यासं सूक्ष्मतत्वार्थदर्शिनम् ।
शुकः पप्रच्छ वै प्रश्नं दानधर्मकुतूहलः ॥
बहुचित्राणि दानानि बहुशः शंससे मुने ।
महार्थं पावनं पुण्यं किंस्विद्दानं महाफलम् ॥
केन दुर्गाणि तरति केन लोकानवाप्नुते ।
केन वा महदाप्नोति इह लोके परत्र च ॥
के वा यज्ञस्य वोढारः केषु यज्ञः प्रतिष्ठितः । किञ्च यज्ञस्य यज्ञत्वं किञ्च यज्ञस्य भेषजम् ।
यज्ञानामुत्तमं किञ्च तद्भवान्प्रब्रवीतु मे ॥
स तस्मै भजमानाय जातकौतूहलाय च ।
व्यासो व्रतनिधिः प्राह गवामिदमनुत्तमम् ॥
धन्यं यशस्यमायुष्यं लोके श्रुतिसुखावहम् ।
यत्पवित्रं पवित्राणां मङ्गलानां च मङ्गलम् ॥
सर्वपापप्रशमनं तत्समासेन मे शृणु । यदिदं तिष्ठते लोके जगत्स्थावरजङ्गमम् ।
गावस्तत्प्राप्य तिष्ठन्ति गोलोके पुण्यदर्शनाः ॥
मातरः सर्वभूतानां विश्वस्य जगतश्च ह ।
रुद्राणामिह साध्यानां गाव एव तु मातरः ॥
रुद्राणां मातरो ह्येता ह्यादित्यानां स्वसा स्मृताः ।
वसूनां च दुहित्रस्ता ब्रह्मसन्तानमूलजाः ॥
यासामधिपतिः पूषा मरुतो वालबन्धनाः ।
ऐश्वर्यं वरुणो राजा विश्वेदेवाः समाश्रिताः ॥
य एवं वेद ता गावो मातरो देवपूजिताः ।
स विप्रो ब्रह्मलोकाय गवां लोकाय वा ध्रुवः ॥
गावस्तु नावमन्येत कर्मणा मनसा गिरा ।
गवां स्थानं परं लोके प्रार्थयेद्यः परां गतिम् ॥
न पद्भ्यां ताडयेद्गा वै न दण्डेन न मुष्टिना ।
इमां विद्यामुपाश्रित्य पावनीं ब्रह्मनिर्मिताम् ॥
मातॄणामन्ववाये च न गोमध्ये न गोव्रजे ।
नरो मूत्रपुरीषस्य दृष्ट्वा कुर्याद्विसर्जनम् ॥
शुद्धाश्चन्दनशीताङ्ग्यश्चन्द्ररश्मिसमप्रभाः ।
सौम्याः सुरभ्यः सुभगा गावो गुग्गुलुगन्धयः ॥
सर्वे देवाऽविशन्गा वै समुद्रमिव सिन्धवः ।
दिवं चैवान्तरिक्षं च गवां व्युष्टिं समश्नुते ॥
दधिना जुहुयादग्निं दधिना स्वस्ति वाचयेत् ।
दधि दद्याच्च प्राशेत गवां व्युष्टिं समश्नुते ॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् ।
घृतमालभ्य प्राश्नीयाद्गवां व्युष्टिं समश्नुते ॥
गावः संजीवना यास्तु गावो दानमनुत्तमम् ।
ताः पुण्यगोपाः सुफला भजमानं भजन्तु माम् ॥
येन देवाः पवित्रेण स्वर्गलोकमितो गताः ।
तत्पवित्रं पवित्राणां मम मूर्ध्नि प्रतिष्ठितम् ॥
वीणामृदङ्गपणवा गवां गात्रं प्रतिष्ठिताः ।
क्रीडारतिविहारार्थे त्रिषु लोकेषु वर्तते ॥
न तत्र देवा वर्तन्ते नाग्निहोत्राणि जुह्वति ।
न यज्ञैरिज्यते चात्र यत्र गौर्वै न दृश्यते ॥
क्षीरं दधि घृथं यासां रसानामुत्तमो रसः ।
अमृतप्रभवा गावस्त्रैलोक्यं येन जीवति ॥
इमामाहूय धेनुं च सवत्सां यज्ञमातरम् ।
उपाह्वयन्ति यां विप्रा गावो यज्ञहविष्कृतम् ॥
या मेध्या प्रथमं कर्म इयं धेनुः सरस्वती ।
पौर्णमासेन वत्सेन कामं कामगुणान्विता ॥
यत्र सर्वमिदं प्रोतं यत्किंचिज्जङ्गमं जगत् ।
स गौर्वै प्रथमा पुण्या सर्वभूतहिते रता ॥
धारणाः पावनाः पुण्या भावना भूतभावनाः ।
गावो मामभिरक्षन्तु इह लोके परत्र च ॥
एष यज्ञः सहोपाङ्ग एष यज्ञः सनातनः ।
वेदाः सहोपनिषदो गवां रूपाः प्रतिष्ठिताः ॥
एतत्तात मया प्रोक्तं गवामिह परं मतम् ।
सर्वतः श्रावयेन्नित्यं प्रयतो ब्रह्मसंसदि ॥
श्रुत्वा लभेत ताँल्लोकान्ये मया परिकीर्तिताः । श्रावयित्वापि प्रीतात्मा लोकांस्तान्प्रतिपद्यते
धेनुमेकां समादद्यादहन्यहनि पावनीम् ।
तत्तथा प्राप्नुयाद्विप्रः पठन्वै गोमतीं सदा ॥
अथ धेनुर्न विद्यते तिलधेनुमनुत्तमाम् ।
दद्याद्गोमतिकल्पेन तां धेनुं सर्वपावनीम् ॥
आह्निकं गोमतीं नित्यं यः पठेत सदा नरः ।
सर्वपापात्प्रमुच्येत प्रयतात्मा य आचरेत् ॥
घृतं वा नित्यमालभ्य प्राश्य वा गोमतीं जपेत् ।
स्नात्वा वा गोकरीषेण पठन्पापात्प्रमुच्यते ॥
मनसा गोमतीं जप्येद्गोमत्या नित्यमाह्निकम् ।
न त्वेन दिवसं कुर्याद्व्यर्थं गोमत्यपाठकः ॥
गोमतीं जपमाना हि देवा देवत्वमाप्नुवन् ।
ऋषित्वमृषयश्चापि गोमत्या सर्वमाप्नुवन् ॥
बद्धो बन्धात्प्रमुच्येत कृच्छ्रान्मुच्येत सङ्कटात् ।
गोमतीं सेवते यस्तु लभते प्रियसङ्गमम् ॥
एतत्पवित्रं कार्त्स्न्येन एतद्व्रतमनुत्तमम् ।
एतत्तु पृथिवीपाल पावनं शृण्वतां सदा ॥
पुत्रकामाश्च ये केचिद्धनकामाश्च मानवाः ।
अद्धाने चोरवैरिभ्यो मुच्यते गोमतीं पठन् ॥
पूर्ववैरानुबन्धेषु रणए चाप्याततायिनः ।
लभेत जयमेवाशु सदा गोमतिपाठकः ॥' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

7-124-1 देवव्रत महाभागेति क.पाठः ॥ 7-124-18 मातॄणामनुपाते चेति थ.पाठ.॥ 7-124-26 यत्र गौर्वै न दुह्यते इति थ.पाठ ॥

श्रीः