अध्यायः 008
					अथ दानधर्मपर्व ॥ 1 ॥
					 भीष्मेणि युधिष्ठिरंप्रति वीतहव्यस्य
						ब्राह्मण्यप्राप्तिप्रकारकथनम् ॥ 1 ॥ 
					
						युधिष्ठिर उवाच । 
					
						श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह ।
						सुदुष्प्रापं यद्ब्रवीषि ब्राह्मण्यं वदतांवर ॥
					 
					
						विश्वामिइत्रो महाराज राजा ब्राह्मणतां गतः ।
						कथितं भवता सर्वं विस्तरेण पितामह ॥
					 
					
						तच्च राजन्मया सर्वं श्रुतं बुद्धिमतांवर ।
						आगमो हि परोऽस्माकं त्वत्तः कौरवनन्दन ॥
					 
					
						वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः ।
						तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥
					 
					
						स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः ।
						वरेण तपसा वाऽपि तन्मे व्याख्यातुमर्हसि ॥
						भीष्म उवाच । 
					 
					
						शृणु राजन्यथा राजा वीतहव्यो महायशाः ।
						राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥
					 
					
						मनोर्महात्मनस्तात प्रजा धर्मेण शासतः ।
						बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥
					 
					
						तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः ।
						हैहयस्तालजङ्घश्च वत्सेषु जयतांवर ॥
					 
					
						हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत ।
							शतं बभूव पुत्राणां शूराणामनिवर्तिनाम् ।
						
						तुल्यरूपप्रभावानां बलिनां युद्धशालिनाम् ॥
						
					 
					
						धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥
						
					 
					
						काशिष्वपि नृपो राजन्दिवोदासपितामहः ।
						हर्यश्व इति विख्यातो बभूव जयतांवरः ॥
					 
					
						स वीतहव्यदायादैरागत्य पुरुषर्षभ ।
						गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ॥
					 
					
						तं तु हत्वा नरपतिं हैहयास्ते महारथाः ।
						प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥
					 
					
						हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यत ।
						सुदेवो देवसंकाशः साक्षाद्धर्म इवापरः ॥
					 
					
						स पालयामास महीं धर्मात्मा काशिनन्दनः ।
						तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥
					 
					
						तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् ।
						सौदेविस्त्वथ काशीशोदिवोदासोऽभ्यषिच्यत ॥
					 
					
						दिवोदासस्तु विज्ञाय वीर्य तेषां यतात्मनाम् ।
						वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥
					 
					
						विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् ।
						नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥
					 
					
						गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम् ॥
							गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम् ।
						
					 
					
						तत्र तं राजशार्दूलं निवसन्तं महीपतिम् ।
						आगत्य हैहया भूयः पर्यधावन्त भारत ॥
					 
					
						स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः ।
						देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥
					 
					
						स तु युद्धे महाराज दिनानां दशतीर्दश ।
						हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥
					 
					
						हतयोधस्ततो राजन्क्षीणकोशश्चक भूमिपः ।
						दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत् ॥
					 
					
						गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः ।
						जगाम शरणं राजा कृताञ्जलिररिंदम् ॥
					 
					
						तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः ।
						पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम् ॥
					 
					
						किमागमनकृत्यं ते सर्वं प्रबूहि मे नृप ।
						यत्ते प्रियं तत्करिष्ये न मेऽत्रास्ति विचारणा ॥
						राजोवाच । 
					 
					
						भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः ।
						अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥
					 
					
						शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि ।
						एकशेषः कृतो वंशो मम तैः पापकर्मभिः ॥
					 
					
						तमुवाच महाभागो भरद्वाजः प्रतापवान् ।
						न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥
					 
					
						अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते ।
						वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि ॥
					 
					
						तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् ।
						अथास्य तनयो जज्ञे दैवोदासः प्रतर्दनः ॥
					 
					
						स जातमात्रो ववृधे समाः सद्यस्त्रयोदश ।
						वेदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत ॥
					 
					
						योगेन च *****विष्टो भरद्वाजेन धीमता ।
						कृत्स्नं हि तेजो यल्लोके तदेतद्देहमाविशत् ॥
					 
					
						ततः स कवची धन्वी स्तूयमानः सुरर्षिभिः ।
						बन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः ॥
					 
					
						स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः ।
						प्रययौ स धनुर्धुन्वन्विवर्षिषुरिवाम्बुदः ॥
					 
					
						तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ ।
						मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥
					 
					
						ततोसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम् ।
						कृतकृत्यं तदाऽऽत्मानं स राजा प्रत्यपद्यत ॥
					 
					
						ततस्तु वैतहव्यानां वधाय स महीपतिः ।
						पुत्रं प्रस्थापयासास प्रतर्दनमरिंदमम् ॥
					 
					
						सरथः स तु संतीर्य गङ्गामाशु पराक्रमी ।
						प्रययौ वीतहव्यानां पुरीं परपुरंजयः ॥
					 
					
						वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् ।
						निर्ययुर्नगराकारै रथैः पररथारुजैः ॥
					 
					
						निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः ।
						प्रतर्दनं समाजग्मुः शरवर्षैरुदायुधाः ॥
					 
					
						शस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर ।
						अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥
					 
					
						अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः ।
						जघान तान्महातेजा वज्रानलसमैः शरैः ॥
					 
					
						कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः ।
						अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥
					 
					
						हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ ।
						प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥
					 
					
						ययौ भृगुं च शरणं वीतहव्यो नराधिपः ।
							अभयं च ददौ तस्मै वीतहव्याय भार्गवः ।
						
						आसनं शिष्यमध्ये च भृगुरन्यत्समादिशत् ॥
						
					 
					
						अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः ।
						स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥
					 
					
						भोभो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः ।
						द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥
					 
					
						स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा ।
						पूजयामास च ततो विधिना नृपसत्तमम् ॥
					 
					
						उवाच चैनं राजेन्द्र किं कार्यं ब्रूहि पार्थिव ।
						स चोवाच नृपस्तस्मै यदागमनकारणम् ॥
						राजोवाच । 
					 
					
						अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् ।
						अस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन्वंशः प्रणाशितः ॥
					 
					
						उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ।
							एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया ।
						
						अस्येदानीं वधादद्य भविष्याम्यनृणः पितुः ॥
						
					 
					
						तमुवाच कृपाविष्टो भृगुर्धर्मभृतांवरः ।
						नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥
					 
					
						एतत्तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः ।
						पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत् ॥
					 
					
						एवमप्यस्मि भगवन्कृतकृत्यो न संशयः ।
						य एष राजा वीर्येण स्वजातिं त्याजितो मया ॥
					 
					
						अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् ।
						त्याजितो हि मया जातिमेव राजा भृगूद्वह ॥
					 
					
						ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः ।
						यथागतं महाराज मुक्त्वा विषमिवोरगः ॥
					 
					
						भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ।
						वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥
					 
					
						तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः ।
						शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥
					 
					
						ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः ।
						यत्र गृत्समदो राजन्ब्राह्मणैः स महीयते ॥
					 
					
						स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् ।
						पुत्रो गृत्समदस्यापि विप्रः सावैनसोऽभवत् ॥
					 
					
						सावैनसस्य पुत्रो वै वितस्त्यस्तस्य चात्मजः ।
						वितस्त्यस्य सुतस्तस्य शिवस्तश्चात्मजोऽभवत् ॥
					 
					
						श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ।
						तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः ॥
					 
					
						प्रकाशस्य च वागिन्द्रो बभूव जयतांवरः ।
						तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः ॥
					 
					
						घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ।
							प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत ।
						
						शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥
						
					 
					
						एवं विप्रत्वमगमद्वीतहव्यो नराधिपः ।
						भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥
					 
					
						एष ते कथितो वंशो राजन्गार्त्समदो मया ।
						विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ ॥
					 
					 इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टमोऽध्यायः ॥ 8 ॥ 
					 7-8-7 शय्यातिरिति विश्रुत इति ट.घ.पाठः ॥ 7-8-10 ते चेति
						शेषः ॥ 7-8-12 वीतहव्यदायादैः । हैहयस्यैव नामान्तरं वीतहव्य इति तत्पुत्रैः ॥ 7-8-13 वत्सानां वत्सवंश्यानां राज्ञाम् ॥ 7-8-19 वप्रान्ते तटसमीपे ॥ 7-8-22
						दशतीर्दश सहस्रमित्यर्थः ॥ 7-8-27 परिद्यूनः सर्वतोनिरस्तः ॥ 7-8-32 सद्यो
						ववृधे त्रयोदशवार्षिकोऽभूत् सद्यश्च वेदान् जगौ ॥ 7-8-33 योगेन योगबलेन ॥ 7-8-48 तस्य तंप्रति मां आगतं आचक्षत कथयत ॥ 7-8-58 आख्यायिकातात्पर्थमाह
						भृगोरिति ॥ 7-8-60 यत्र गार्त्समदं ब्रह्म ब्राह्मणैः समुदाहृतम् । इति ध.पाठः ॥ 
					
					
					
					
					श्रीः