अध्यायः 130

अथ दानधर्मपर्व ॥ 1 ॥

युधिष्ठिरेण सुवणोत्पत्तिप्रकारं पृष्टेन भीष्मेण तत्प्रतिपादकवसिष्ठपरसुरामसंवादानुवादारम्भः ॥ 1 ॥

युधिष्ठिर उवाच ।

उक्तं पितामहेनेदं गवां दानमनुत्तमम् ।
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम् ॥
राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः । परिचारेषु वै दुःखं दुर्धरं चाकृतात्मभिः ।
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥
पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम् ।
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन ॥
एवमेव गवामुक्तं प्रदानं ते नृगेण ह ।
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥
वेदोपनिषदे चैव सर्वकर्मसु दक्षिणाः ।
सर्वक्रतुषु चोद्दिष्टा भूमिर्गावोऽथ काञ्चनम् ॥
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै ।
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् ।
किंदैव किंफलं चैव कस्माच्च परमुच्यते ॥
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः ।
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् ।
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥
भीष्म उवाच ।
शृणु राजन्नवहितो बहुकारणविस्तरम् ।
जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥
पिता मम महातेजाः श्तनुर्निधनं गतः ।
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥
तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् ।
मातो मे जाह्नवी चात्र साहाय्यमकरोत्तदा ॥
तत्रागतांस्तपस्सिद्धानुपवेश्य बहूनृषीन् ।
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः ।
दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः ।
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते ॥
मुहूर्तमपि तं दृष्ट्वा परं विस्मयमागमम् ।
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥
ततो मे पुनरेवासीत्संज्ञा सञ्चिन्त्य शास्त्रतः । नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ।
पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥
साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित् ।
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति ॥
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् ।
शास्त्रप्रामाण्यसूक्ष्मं तु विधइं पिण्डस्य संस्मरन् ॥
ततो दर्भेषु तत्सर्वमददं भरतर्षभ ।
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥
ततः सोऽन्तर्हितो बाहुः पितुर्मम जनाधिप ।
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा ॥
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ ।
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव ।
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह ॥
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः ।
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः ॥
तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ ।
किन्तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥
एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः ।
पाविता वै भविष्यन्ति पावनं हि परं हि तत् ॥
दश पूर्वान्दशैवान्यांस्तथा सन्तारयन्ति ते ।
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन् ॥
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते ।
सुवर्णदानेऽकरवं मतिं च भरतर्षभ ॥
इतिहासमिमं चापि शृणु राजन्पुरातनम् ।
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै ।
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः ।
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥
वाजिमेधं महाराज सर्वकामसमन्वितम् ।
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥
विपाप्मा च स तेजस्वी तेन क्रतुफलेन च ।
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत ॥
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता ।
पप्रच्छागमसम्पन्नानृषीन्देवांश्च भारत ॥
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् ।
तदुच्यतां महाभागा इति जागघृणोऽब्रवीत् ॥
इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः ।
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात् ॥
भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति ।
ते यद्ब्रूर्महाप्राज्ञास्तच्चैव समुदाचर ॥
ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम् ।
तमेवार्तं महातेजाः पप्रच्छ भृगुनन्दनः ॥
जाता मतिर्मे विप्रेन्द्राः कथं पूयेयमित्युत ।
केन वा कर्मयोगेन प्रदानेनेह केन वा ॥
यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः ।
प्रबूत पावनं किं मे भवेदिति तपोधनाः ॥
ऋषय ऊचुः ।
गाश्च भूमिं च वित्तं च दत्त्वेह भृगुनन्दन ।
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम ॥
अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत् ।
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः ॥
दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम ।
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि ॥
ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः ।
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम् ॥
फलं दास्यति ते यत्तु दाने परमिहोच्यते ।
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम् ॥
तन्निबोध महाबाहो सर्वं निगदतो मम ।
अग्निषोमात्मकमिदं सुवर्णं विद्दि निश्चये ॥
अजोऽग्निर्वरुणो मेषः सूर्योऽश्च इति दर्शनम् ।
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति ॥
कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन ।
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः ॥
जगत्सर्वं च निर्मथ्य तेजोराशिः समुत्थितः ।
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम् ॥
एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः ।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् ॥
मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः ।
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम ॥
तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम् ।
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ ॥
पृथिवीं गाश्च दत्त्वेह यच्चान्यदपि किञ्चन ।
विशिष्यते सुवर्णस्य दानं परमकं विभो ॥
अक्षयं पावनं चैव सुवर्णममरद्युते ।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम् ॥
सुवर्णमेव सर्वासु दक्षिणासु विधीयते ।
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत ॥
देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ ।
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥
तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ।
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥
भूय एव च महात्म्यं सुवर्णस्य निबोध मे ।
गदतो मम विप्रर्षे सर्वशस्त्रभृतांवर ॥
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन ।
प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः ।
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन ।
समागमे भगवतो देव्या सह महात्मनः ॥
ततः सर्वे समुद्विग्रा देवा रुद्रमुपागमन् ॥ ते महादेवमासीनं देवीं च वरदामुमाम् ।
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥ अयं समागमो देव देव्या सह तवानघ ।
तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः ॥ अमोघतेजास्त्वं देव देवी चेयमुमा तथा ।
अपत्यं युवयोर्देव बलवद्भविता विभो ।
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन ।
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥
अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो ।
[त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथ ॥
तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम् ।
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो ॥
नेदं धारयितुं शक्ताः समस्ता इति मे मतिः ।
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत् ॥
तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो । न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम ।
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥
इति तेषां कथयतां भगवान्वृषभध्वजः] ।
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥
इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः ।
ऊर्ध्वरेषः समभवत्ततः प्रभृति चापि सः ॥
रुद्राणीति ततः क्रुद्धा प्रजोच्छेद तदा कृते ।
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः ।
तस्मात्सर्वे सुरा भूयमनपत्या भविष्यथ ॥
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै ।
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह ।
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन् ॥
रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा ।
प्रस्कन्नं तु ततस्तस्मात्किंचित्तत्रापतद्भुवि ॥
उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम् ।
तेजस्तेजसि संयुक्तमेकयोनित्वमागतम् ॥
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः ।
असुरस्तारको नाम तेन सन्तापिता भृशम् ॥
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि ।
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् ॥
स्थानानि देवतानां हि विमानानि पुराणि च ।
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥
ते दीनमनसः सर्वे देवता ऋषयश्च ये ।
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥

7-130-3 पूयन्ते शुध्यन्ति ॥ 7-130-21 तृप्तास्ते पितरस्तथेति थ.ध.पाठः ॥ 7-130-27 नवपूर्वानधश्चान्यान्नव सन्तारयन्ति ते इति थ.ध.पाठः ॥ 7-130-33 लघुतां निष्पापताम् ॥

श्रीः