अध्यायः 132

अथ दानधर्मपर्व ॥ 1 ॥

वसिष्ठेन परशुरामंप्रति सुवर्णप्रभावकथनप्रसङ्गेन रुद्रयज्ञे भृग्वङ्गिरः प्रभृतिप्रभावादिकथनम् ॥ 1 ॥

वसिष्ठ उवाच ।

अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् ।
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥
देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् ।
ऐश्वर्ये वारुणेवाऽथ रुद्रस्येशस्य वै प्रभो ॥
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः ।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः ।
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥
लक्षणानि स्वरास्तोभा निरुक्ताः स्वरभक्तयः ।
ओंकारश्छन्दसां नेत्रं निग्रहप्रग्रहौ तथा ॥
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च ।
भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥
संजुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो ।
यज्ञं च शोभयामास बहुरूपं पिनाकधृत् ॥
द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः ।
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः ॥
एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः ।
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः ॥
तस्य यज्ञः पशुपतेस्तपः क्रतव एव च ।
दीक्षा दीप्तव्रता देवी दिशश्च सदिगीश्वराः ॥
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः । आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ।
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः ॥
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥
तस्य शुक्रस्य निष्यन्दान्पांसून्सङ्गृह्य भूमितः ।
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके ।
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूवह ॥
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः ।
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन ॥
ततः स जनयामास भूतग्रामं च वीर्यवान् ।
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥
तमसस्तामसा भावा व्यापि सत्वं तथोभयम् । स गुणस्तेजसो नित्यं तमस्याकाशमेव च ।
सर्वभूतेषु च तथा सत्वं तेजस्तथोत्तमम् ॥
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ।
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः ॥
भर्जनाद्भृगुरित्येवमङ्गारेभ्योऽङ्गिराऽभवत् । अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् ।
सह ज्वालाभइरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् ।
अङ्गोरभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात् ॥
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः ।
वैखानसाः समुत्पन्नास्तपः श्रुतगुणेप्सवः ॥
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ । शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे ।
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः ॥
एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः ।
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥
यानि दारूणि निर्यासास्ते मासाः पक्षसंज्ञिताः ।
अहोरात्रा मुहूर्ताश्च वीतज्योतिश्च वारुणम् ॥
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् ।
तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः ।
उद्दीप्तास्ते तथाऽङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥
अग्निर्नाथश्च लोकस्य तत्परं ब्रह्म तद्भुवम् ।
सर्वकामदमित्याहुस्तत्र हव्यमुपावहन् ॥
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः ।
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः ।
इति जानीत खगमा मम यज्ञफलं हि तत् ॥
अग्निरुवाच ।
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च ।
ममैव तान्मपत्यानि मम शुक्लं हुतं हि तत् ॥
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः ।
ममैव तान्यपत्यानि मम शुक्लं हुतं हि तत् ॥
अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह ।
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै ।
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥
वयं च भगवन्सर्वे जगच्च सचराचरम् । तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ।
वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥
निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः ।
जग्राह वै भृगु पूर्वमपत्यं सूर्यवर्चसम् ॥
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत् ।
पितामहस्त्वपत्यं वैकविं जग्राह तत्त्ववित् ॥
तदा स वारुणिः ख्यातो भृगुः प्रसवकर्मकृत् । आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ।
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥
एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः ।
सर्वं सन्तानमेतेषामिदमित्युपधारय ॥
भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः ।
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ।
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥
अषअटौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्यवारुणाः ।
बृहस्पतिरुचथ्यश्च वयस्यः शान्तिरेव च ॥
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः ।
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥
ब्राह्मणाश्च कवेः पुत्रा वारुणास्तेऽप्युदाहृताः ।
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥
कविः काव्यश्च विष्णुश्च बुद्धिमानुशना तथा ।
भृगुश्च वरुणश्चैव काश्यपोऽग्निश्च धर्मवित् ॥
अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् ।
प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः ।
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः ।
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ ॥
जग्राहाङ्गिरसं देवः शिखी तस्माद्भुताशनः ।
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः ॥
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः ।
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः ।
त्वत्प्रसादादिमं लोकं धारयिष्यन्ति शाश्वतं ॥
तथैव वंशकर्तारस्तव तेजोविवर्धनाः ।
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा ॥
देवपक्षचराः सौम्याः प्राजापत्या महर्षयः ।
अनन्तं ब्रह्म सत्यं च तपश्च परमं भुवि ॥
सर्वे हि वयमेते च तवैव प्रसवाः प्रभो ।
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥
मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः ।
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥
अथ स्वेनैव रूपेणि प्रजनिष्यन्ति वै प्रजाः ।
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः ।
ततेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् ॥
एवमेतत्पुरावृत्तं तस्य यज्ञे महात्मनः ।
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥
अग्निर्ब्रह्म पशुपतिः शर्वो रुद्रः प्रजापतिः ।
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणाः ॥
अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम् ।
जामदग्न्यप्रमाणज्ञो वेदश्रुतिनिदर्शनात् ॥
कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते ।
वल्मीकस्य वपायां च कर्णे वाजस्य दक्षिणे ॥
शकटोर्व्या परस्याप्सु ब्राह्मणस्य करे तथा ।
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥
तस्मादग्निपराः सर्वे देवता इति शुश्रुम ।
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम् ॥
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः ।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥
तस्य वा तपसो लोकान्गच्छतः परमां गतिम् ।
स्वर्लोके राजराज्येन सोभिषिच्येत भार्गव ॥
आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् ।
ददाति काञ्चनं यो वाः दुःस्वप्नं प्रतिहन्ति सः ॥
ददात्युदितमात्रे यस्यस्य पाप्मा विधूयते ।
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥
ददाति पस्चिमां सन्ध्यां यः सुवर्णं यतव्रतः ।
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥
सेन्द्रेषु चैव लोकेषु प्रतिष्ठा विन्दते शुभाम् ।
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते ॥
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा ।
अनावृतगतिश्चैव कामचारो भवत्युत ॥
न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत् ।
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान् ॥
यस्तु सञ्जनयित्वाऽग्निमादित्योदयनं प्रति ।
दद्याद््वै व्रतमुद्दिश्य सर्वकामान्समश्नुते ॥
अग्निरित्येव तत्प्राहुः प्रदानं च सुखावहम् ।
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम् ॥
एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ ।
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन ॥
कार्तिकेयस्तु संवृद्धः कालेन महता तदा ।
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह ॥
जघान तारकं चापि दैत्यमन्यांस्तथाऽसुरान् ।
त्रिदशेन्द्राज्ञया ब्रह्मँल्लोकानां हितकाम्यया ॥
सुवर्णदाने च मया कथितास्ते गुणा विभो ।
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ तदतांवर ॥
भीष्म उवाच ।
इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् ।
ददौ सुवर्णं विप्रभ्यो व्यमुच्यत च किल्बिषात् ॥
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते ।
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर ॥
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहुः ।
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

7-132-4 ऋग्वेदोऽथर्ववेदश्चेति क.ङ.ध.पाठः ॥ 7-132-14 प्रादुर्भावश्चरमधातुः ॥ 7-132-16 भूतग्रामं चतुर्विधं तत्तेजसस्तस्य त्रिगुणमयस्य रेतसः सम्बन्धी यस्तेजोंशो रजोंशस्तस्मात्तैजसप्रवृत्तिप्रधानं जङ्गममभूत् ॥ 7-132-17 तमसस्तमोंशात्तामसं स्थावरम् । सत्वांशस्तूभयत्रानुगतः ॥ 7-132-18 प्रसवजैः कारणजैर्गुणैः ॥ 7-132-19 सहयज्वभिरुत्पन्न इति ध.पाठः ॥ 7-132-20 वालखिल्याः शरोच्चयादिति ध.पाठः ॥ 7-132-21 अत्रैव कुशोच्चये । अत्र अत्रैवेति सम्बन्धः । अत्रैवात्रिं च हि विभो इति ध. पाठः ॥ 7-132-22 व्यपोहेभ्यः समूहेभ्यः । तथाग्नेस्तस्य भस्मभ्य इति.ध.पाठः ॥ 7-132-23 अश्रुतः अश्रुसकाशात् । स्नोतोभ्यः श्रोत्रादीन्द्रियेभ्यः । बलात् वीर्यात् । बलान्मख इति क.ट.ध.पाठः ॥ 7-132-24 एतस्मादग्निजत्वात् ॥ 7-132-25 निर्यासा दारुगता लाक्षादयो वृक्षरसाः ॥ 7-132-27 दिविस्थिताः ग्रहतारादयः धिष्ण्येषु स्थानेषु ॥ 7-132-30 त्रीणि भृग्वङ्गिरःकविसंज्ञानि ॥ 7-132-44 कवेः पुत्रा वारुणा इत्यनेनि स्वीयभागोपि कविर्ब्रह्मणा वरुणाय समर्पित इत्युन्नेयम् ॥ 7-132-50 नोऽस्मान् सन्तरिष्यन्ति सन्तारयिष्यन्ति ॥ 7-132-52 विदुषो विद्वांसः ॥ 7-132-56 आदिनिधने उत्पत्तिप्रलययोरन्तराले ॥ 7-132-58 देवश्रेष्ठस्य रुद्रस्य ॥ 7-132-59 धारणा निश्चयः ॥ 7-132-61 ब्राह्मणपाण्यजकर्णदर्भस्तम्बाप्सु काष्ठेष्वित्येतानि श्रुतौ दृश्यन्ते । वपायां रन्ध्रे ॥ 7-132-62 शकटोर्वीं तु श्रुत्यन्तरात् ज्ञेया । परस्य तीर्थादेरप्सु ॥ 7-132-64 सुवर्णं ये प्रयच्छन्ति नराः शुद्धेन चेतसेति ध.पाठः ॥ 7-132-71 तेभ्यो लोकेभ्यो न च क्षरति ॥

श्रीः