अध्यायः 133

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति कुमारोत्पत्तिप्रकारस्य देवादिभिस्तस्मै क्रीडनकादिदानस्य तारकासुरवधादेश्च कथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

उक्ताः पितामहेनेह सुवर्णस्य विधानतः ।
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥
यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम् ।
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥
उक्तं स दैवतानां हि अवध्य इति पार्थिव ।
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय ॥
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह ।
कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥
भीष्म उवाच ।
विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा ।
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥
न देवतानां काचिद्धि समर्था जातवेदसः ।
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा ॥
षण्णां तासां ततः प्रीतः पावको गर्भधारणात् ।
स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥
तास्तु षट् कृत्तिका गर्भं पुपुषुर्जातवेदसः ।
षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥
ततस्ता वर्धमानस्य कुमारस्य महात्मनः ।
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते ।
समं गर्भं सुषुविरे कृतिकास्ता नरर्षभ ॥
ततस्तं ष़डधिष्ठानं गर्भमेकत्वमागतम् ।
पृथिवी प्रतिजग्राह कृत्तिकानां समीपतः ॥
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः ।
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥
ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम् ।
जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्तविस्रवैः ॥
अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे ।
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोऽभवत् ॥
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः ।
रुद्रो धाता च विष्णुश्च यमः पूषाऽर्यमा भगः ॥
अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ ।
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥
पृथग्भूतानि चान्यानि यानि देवगणानि वै ।
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम् ॥
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ।
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम् ॥
पीनांसं द्वादशभुजं पावकादित्यवर्चसम् । शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः ।
लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥
ततो देवाः प्रियाण्यस्य सर्व एव समाहरन् ।
क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥
सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम् ।
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥
कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम् ।
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥
गवां माता च गा देवी ददौ शतसहस्रशः ।
छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥
सुधन्वा शकटं चैव रथं चाञ्चितकूबरम् ।
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान् ॥
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च दंष्ट्रिणः ।
श्वापदांश्च बहून्घोराञ्शस्त्राणि विविधानि च ॥
राक्षसासुरसङ्घाश्च अनुजग्मुस्तमीश्वरम् ॥
वर्धमानवधोपायं प्रार्थयामास तारकः ।
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥
सैनापत्येन तं देवाः पूजयित्वा गुहालयम् ।
शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः ।
जघानामोघया शक्त्या दानवं तारकं गुहः ॥
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे ।
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् ।
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ॥
हिरण्यमूर्तिर्भगवानेव एव च पावकिः ।
सदा कुमारो देवानां सैनापत्यमवाप्तवान् ॥
तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् ।
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम् ॥
एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा ।
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः ।
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

7-133-1 श्रुतिर्वेदो लक्षणं ज्ञापकं येषां ते श्रुतिलक्षणाः । श्रुत्युक्ता इत्यर्थः ॥ 7-133-5 विपन्नं कृत्यं येषां ते गङ्गया गर्भे त्यक्ते सति नष्टकार्याः ॥ 7-133-6 गर्भं सन्धारयितुमित्यपकृष्यते पूर्वोर्धेपि ॥ 7-133-7 प्रीतस्ताभिर्गरुडीरूपेण तद्रेतः पीत्वा षोढा गर्भे धृते सतीति शेषः ॥ 7-133-8 वर्त्मसु गर्भागमनमार्गेषु योनिष्वित्यर्थः ॥

श्रीः