अध्यायः 140

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रत्युपवासब्रह्मचर्यादीनां लक्षणकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते ।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥
भीष्म उवाच ।
अवेदोक्तव्रताश्चैव भुञ्जानाः कामकारणे ।
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥
युधिष्ठिर उवाच ।
यदिदं तप इत्याहुरुपवासं पृथग्जनाः ।
तपः स्यादेतदेवेह तपोऽन्यद्वाऽपि किं भवेत् ॥
भीष्म उवाच ।
मासार्धमासोपवासाद्यत्तपो मन्यते जनः ।
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥
त्यागस्य चापि सम्पत्तिः शिष्यते तप उत्तमम् ।
सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥
मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् ।
कुटुम्बिको धर्मकामः सदाऽस्वप्नश्च मानवः ॥
अमृताशी सदा च स्यात्पवित्रं च सदा पठेत् ।
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः ।
अमृताशी सदा च स्यात्पवित्री च सदा भवेत् ॥
युधिष्ठिर उवाच ।
कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव ।
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥
भीष्म उवाच ।
अन्तरा सायमाशं च प्रातराशं च यो नरः ।
सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥
भार्या गच्छन्ब्रह्मचारी ऋतौ भवति चैव ह ।
ऋतवादी सदा च स्याद्दानशीलस्तु मानवः ॥
अभक्षयन्वृथा मांसममांसाशी भवत्युत ।
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन् ॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा ।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः ।
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥
देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च ।
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः ।
उपस्थिता ह्यप्सरसो गन्धर्वैश्च जनाधिप ॥
देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते ।
रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

7-140-2 कामकारणे इच्छया हेतुना भुञ्जना भोजनं कुर्वन्तु नाम ॥ 7-140-4 आत्मतन्त्रं शरीररूपं कुटुम्बरूपं वा तदुपघाती ॥ 7-140-6 अस्वप्नः स्वधर्मे जागरूकः । वेदांश्चैव सदा जपेदिति झ.पाठः ॥ 7-140-8 सदा च स्यादस्वप्नश्च तथैव चेति ड.पाठः ॥ 7-140-12 वृथा यज्ञादिनिमित्तं विना ॥

श्रीः